Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 69
________________ ३४ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् भावो नाम ते स्त्रीवेदोदयः । न च पुंशरीरे स विद्यते इत्यत्र प्रमाणमस्तीति स्त्रीनिर्वाणवाक्येभ्यः स्तन-प्रजनवादिमत्या एव निर्वाणसिद्धिः । किञ्च, अङ्गं च । भावः सिद्धौ यदि यः स्त्रियां भावः स एव पुंसि भवति तेन च 'पुमान् मुच्यते स भावो मोक्षस्याप्रतिबन्धकः, मोक्षस्य च साक्षाद् भावः कारणम्, परिणामशुद्धया हि मुच्यन्ते, अन्यत् पुनर्भावोपग्राहितया परम्परया मोक्ष उपयुज्यते । एवं चैतेन परिणामेन पंवत् स्त्र्यपि मोक्षमर्हति । न हि तदाका[30b] रस्य मोक्षप्रतिबन्धित्वेन सामर्थ्यमन्वयव्यतिरेकाभ्यामवधारितं यथाऽग्न्यादीनां शीतादौ येन तदकारयोगात् मोक्षाभावः स्यात् । ___यद्यपि स्त्रीवेदस्य कर्मक्षपणां प्रति विरोधोऽङ्गीक्रियते तच्छरीरव्यभिचारिवेदवादिनस्तथापि न स्त्रीनिर्वाणाभावः, यतः पुंवत् पुमान् स्त्र्यपि यथा पुंसि स्त्रीवेदः एवं स्त्रियामपि पुंवेदः स्यात् । न ह्यत्र ते किञ्चिन्नियामकमस्ति येन स्त्रियां न पुंवेदः स्यात् । ततश्च स्त्रीशरीरेणैव पुमान् भूत्वा सिध्यति । उत्कृष्टं हि ते स्त्रीसत्त्वात् पुंसत्त्वम्, सत्त्वं च भावः, यदि स्त्रीसत्त्वेन पुमान् मुच्यते पुंसत्वेन स्त्री किं न [31a]मुच्यत इति स्त्रीनिर्वाणसिद्धिः । यदि च स्त्रीनिर्वाणवाक्येषु स्त्रीशब्दो नाकारमुपादाय प्रवृत्तोऽपि तु वेदं तन्न युज्यते । यतः न सिध्यतो वेदः ॥ ४४ ॥ अनिवृत्तिबादरसम्परायप्रविष्टक्षपके नवमगणस्थान एव वेदक्षपणाऽधीयते । अतो न सिध्यत्काले वेदाश्रयस्त्र्यादिव्यवहारमभ्युपगच्छतः स्त्री पुमान् वा स जीव इति तदयोगः ।। क्षपकश्रेण्यारोहे वेदेनोच्येत भूतपूर्वेण । स्त्रीति अथोच्यते - यद्यपि निर्वाणकाले नास्ति वेदः, अनिवृत्तिस्थान एव क्षयात्, तथापि क्षपक-२ श्रेणीमारोहन् कश्चित्[31b]स्त्रीवेदेनारोहति तदासौ स्त्री भवति, तेन निर्वाणकाले भूतपूर्वेण 'स्त्री' इत्युच्यते यथा रेचितघृतघटोऽपि घृतघट इति भूतपूर्वगत्योच्यते द्रव्यनयालम्बनेनेति । नितराममुख्ये मुख्येऽर्थे युज्यते नतराम् ॥ ४५ ॥ १. पुमानुच्यते ॥ २. श्रेणीनामा० ॥ ३. तदसौ S ॥ ४. लम्बनेति Sh Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146