Book Title: Stree Nirvan Kevalibhukti Prakarane Tika Author(s): Shaktayanacharya, Jambuvijay Publisher: Atmanand Jain SabhaPage 66
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् स्वभावे च पुरुष स्त्रीशब्दो लोके प्रयुज्यते, तथा च पुरुषकारशून्यं क्लीबं दृष्ट्वा वक्तारो भवन्ति 'स्त्री अयम्, न पुरुषः' इति । तदयुक्तम्, न मुख्ययोगे गौणोऽर्थः पुरुषः स्त्रीशब्दस्य गौणोऽर्थः, स्त्र्येव मुख्यः, स्त्रियां च स्तन-प्रजनवौदिमत्यां मुख्यऽर्थे निर्वाणाभावो न प्रतिपन्नः, त[26a]त्र ‘गौण-मुख्ययोर्मुख्य कार्यसम्प्रत्ययः' इति न गौणोऽर्थो भवितुमर्हति, मुख्यहानं वा ॥ ३९ ॥ न गौणपरिग्रहेऽपि गौणस्यैव परिग्रहेण मुख्य बाधकाभावेन मुख्यस्यार्थस्य त्याग उपपद्यते । किं न मुख्ययोगे गौणोऽर्थ इति चेत्, उच्यते-- शब्दनिवेशनमर्थः प्रत्यासत्त्या क्वचित् कयाचिदसः । तदयोगे योगे सति शब्दस्यान्यः कथं कल्प्यः ॥ ४० ॥ यस्मिन्नर्थे यः शब्दोऽन्वय-व्यतिरेकाभ्यां वृद्धव्यवहारे वाचकत्वेन प्रथमनिविष्टो दृष्टो निवेशितो वा स तस्यार्थः, यथा गवादिशब्दानां सास्नादिमदादयः, अप्रतिपन्नसंबन्धस्यावाचकत्वात्, अन्यथा सर्वः सर्वस्य वाचकः स्या[26b]त् कस्यचित् प्रत्यासत्तिविप्रकर्षयोरभावात् । एष मुख्यो नामार्थः । अस्य शब्दात् प्रतिपत्तिाय्या, प्रतिपाद्यत्वेन शब्द प्रति प्रतिपन्नसम्बन्धत्वात् । अस्यायोगे नास्य मुख्योऽर्थः संभवति, अर्थवता चानेन भवितव्यमप्रमत्तवचनत्वात्, दृष्टश्च लोके तथाविधे वचने साहचर्यादिप्रत्यासत्त्या कयाचिदसोऽप्यर्थ इत्यन्योऽप्रतिपन्नसम्बन्धोऽपि लोकदृष्टप्रत्यासत्त्यनतिक्रमेणार्थः कल्प्यते – गौर्वाहीकः, गङ्गायां घोषः, धनुःशतं धावति, दधित्रपुसं प्रत्यक्षो ज्वर इति । स सादृश्यादिनिबन्धनो गौणः । अयं मुख्यासंभवाभावे कल्पयितुं न शक्यते, मुख्यायोगे [27a]एव दृष्टत्वात् । किञ्च, अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः सति मुख्य धीः कथं गौणे ॥४१॥ न हि मुख्यो गौः कदाचिदगौर्भविष्यति, सर्वदा गोत्वस्य शब्दप्रवृत्तिनिमित्तस्याव्यभिचारात् सदा गौरेवासौ । यदापि शब्दान्तराभिधेयतया व्यवहियते शुक्ल: स्थूलो बलिष्ठतया हस्तीति वा तदापि गौः सन्नेव तथोच्यते, न हि तदा गौर्न भवतीति प्रत्ययः, तस्मान्मुख्यः शब्दस्याव्यभिचार्यर्थः, गौणः पुनर्व्यभिचारी। तथाहि - तत्र वस्तुतः स्वप्रवृत्तिनिमित्तविकलेऽर्थे वाहीकादौ १. ०मत्या मुख्योऽर्थो S ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146