Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 64
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् महता पापेन स्त्री मिथ्यात्वसहायकेन न सुदृष्टिः । . स्त्रीत्वं चिनोति, तन्न तदङ्ग क्षपणेति निर्मानम् ॥ ३७ ॥ स्त्रीत्वनिर्वर्तनं कर्म महत् पापम् । तथाहि - यद्यपि सास्वादनसम्यग्दृष्टिरपि तदर्जयति, सम्यग्दर्शनमवसादयन् मिथ्यादृष्टिरेवेति मिथ्यादर्शनाभिमुखो मिथ्यादर्शनेनैव व्यपदिश्यते, न सम्यग्दर्शने[23b]न । सम्यग्मिथ्यादृष्टयोऽपि तावत् तन्नार्जयन्ति, किमङ्ग सम्यग्दृष्टयः । स्त्रीत्वेनोत्पद्यमानोऽपि मिथ्यात्वपरिणत एवोत्पद्यते जीवः । मणुसीसु तिरिक्खीसु य वंसाइखिईसु जोइसंतीसु। इत्थीसु य पडिसिद्धो सम्मट्टिीण उववाओ॥ [ इति वचनात् । तदेवं महापापनिष्पन्ने स्त्रीशरीरे नारकादिशरीरवद् न कर्मणां क्षपणा सम्भाव्यत इति चेत्, तदेतद् निष्प्रमाणकम्, न हि 'अत्र स्त्रीशरीरे क्षपणा न' इत्यत्र प्रमाणमस्ति, स्त्रीत्वेन तुल्ययोगक्षेमेषु संस्थानादिषु क्षपणाभ्युपगमात् । न हि स्त्रीशरीरादन्यत् शरीरं समचतुरस्रसंस्थानाद्वान्यत् संस्थानमिति प्रकर्षपर्यन्तप्राप्तं रत्नत्रयम[24a]शेषकर्मनिर्मूलनैकव्यापारं कर्मराशावग्निवत् तृणराशावुदास्ते । तथाहि - अन्तःकोटीकोटीस्थितिकानि भवन्ति सर्वकर्माणि । सम्यक्त्वलाभ एवाशेषाघक्षयकरो मार्गः ॥ ३८ ॥ यदैव जीवः प्रवृद्धविशोधिपरिणामः सम्यग्दर्शनोन्मुखो भवति नाद्यापि सम्यग्दर्शनं प्रतिपन्नस्तदैव सप्ततिसागरोपमकोटीकोटीस्थितिकान्यपि कर्माण्यन्तःसागरोपमकोटीकोटीस्थितिकानि भवन्ति । यदा त्वशेषकर्मद्रुमनिर्दहनो मार्गः स्वोदयनिरस्तमिथ्यात्वा- संयमकषायः सम्पन्नस्तदा किमत्र वाच्यमशेषकर्मक्षयो भवति । न हि सम्यग्दर्शनमनपास्यदेव मिथ्यादर्शनमुदेति ज्ञानं चाज्ञानं चारित्रं चाचारित्रं तां तामवस्थामापद्यमानमसंयम-कषाय-प्रमादयोगान् । न च निर्मूलित[24b]मिथ्यात्वा-ऽसंयम-कषाय-प्रमादयोगस्य जन्मान्तरोपादानं सम्भाव्यते । तथा चाधीयते - मिथ्यात्वा-संयम-कषाय-प्रमाद-योगा बन्धहेतवः [तत्त्वार्थ सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः [तत्त्वार्थ० १/१] इति । १. 'स्त्रीशरीरादन्यत्' इति पाठः S प्रतौ चिह्नं कृत्वा केनचिल्लेखकेनाधस्तात् पूरितः। 'शरीरादन्यत्' इति पाठस्त्वत्र संगतोऽस्माकं प्रतिभाति । अथवा न हि स्त्रीशरीरं समचतुरस्रसंस्थानाद्वान्यत् संस्थानमिति' इति पाठोऽत्र शोभनो भाति ।। २. 'मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः' [८-१] इति तत्त्वार्थसूत्रे पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146