Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 62
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । इति पङ्कप्रभाया अपि पृथिव्या आगतानां मुक्तिः पठ्यते न तीर्थकराद्यर्हतेति तेषां मुक्त्यभावप्रसङ्गः । यथा च तेषां गणधरादीनां तत्तल्लक्ष्मीमनहतामपि मुक्तिस्तथा स्त्रीणामपि स्यात् । न हि तल्लक्ष्मीयोग्यता मुक्तेर्मार्गः, अपि तु सम्यग्दर्शन-ज्ञान-चारित्राणि । [19b]तानि चेत् समग्राणि, किमन्येन ? भवति मुक्तिः । न ह्यविकलकारणं कार्यमभवदास्ते । तानि चेद् विकलानि तदेव वैकल्यं वक्तव्यम्, किमन्येनाप्रयोजकेन कथितेन ? किञ्च, अस्त्रीपुंसाः सिद्धाः । स्त्री श्रिया पुरुषादपकृष्यते इति च स्त्रीपुरुषावस्थायाम्, न तु गत्यन्तरे तद्रूपत्यागे । सिद्धावस्थायां च न स्त्रीपुरुषा(ष)भाव इति न किञ्चिदेतत् । किञ्च, सममरुक्त्व म् ॥३१॥ मुक्तिश्री म सकलसंसारज्वरमोक्षः आत्यन्तिकमारोग्यम्, न तु दानाक्षेपादिसमन्वितः पूण्यकर्मविपाको बहिविभवः । तद्यथेह ज्वरादिविगमरूपमारोग्यं स्त्रीणां पुरुषाणां च समानं तथा मुक्तावपि भवितुमर्हति [20a]कारणसम्पदस्तुल्यत्वात् । मायाचापलादिबहुलाः स्त्रियो भवन्ति, तन्न तस्या निर्वाणमिति चेत्, मायादिः पुरुषाणामपि देशादिप्रसिद्धयभावश्च । षण्णां संस्थानानां तुल्यो वर्णत्रयस्यापि ॥३२॥ मायादिः पुरुषाणामपि, मोहोदयस्य स्त्रीपुरुषयोरविशेषात् । यथा पुरुषाणां 'मोहशाततः सर्वदोषप्रतिकूल: प्रतिसंख्यानरूपो मार्गस्तथा स्त्रीणामपि । तन्न ततो निर्वाणाभावः । अन्यथा पुरुषाणामपि मा भूत्, तेषामपि मायाद्युपपत्तेः । ननु च यदि स्त्रीणामस्ति निर्वाणं तन्निर्वाणज्ञानोत्पत्तिविहरणभूमयः कालाश्च किं न प्रसिद्धाः यथा पुरु[20b]षाणां चम्पा-सम्मेतो-ज्जयन्तवाड-राजगृहप्रभृतयो भूमयः स्वात्यादयश्च कालाः ? ततो न स्त्रीनिर्वाणमिति । देशादिप्रसिद्धेरतत्कारणव्यापकत्वान्न तन्निवृत्त्या निर्वाणनिवृत्तिः कर्तृस्मरणनिवृत्त्या पौरुषेयत्वनिवृत्तिवदिति प्रतिक्षिप्तम् । प्रसिद्धाश्च रामकल्पा (ल्या? ) दीनाम् । अस्माकं स्त्रीनिर्वाणमनभ्युपगच्छतामप्रसिद्धा इति चेत्, मीमांसक-लोकायतिकादीनां पुरुषनिर्वाणादिप्रदेशा अप्यप्रसिद्धाः । तन्न तत्प्रसिद्धयभावस्तदभावे प्रमाणम् । १. छहत्तेति० ॥ २. (हाना० ? ) ॥ ३. मोहसाततः S। (मोहसातनः ? ) ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146