Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । .....[18a]तिवन्द्यन्त इति स्त्रीणां निर्वाणम् । अर्हन्तं गणधरादयो वन्दन्ते, न तानहन्, न हि तीर्थकरा गार्हस्थ्येऽपि सिद्धव्यतिरेकेणान्यान् वन्दन्ते, ‘नमः सिद्धेभ्यः' इत्युक्त्वा श्रामण्यं प्रतिपद्यन्ते । तथा जिनकल्प-प्रतिमाप्रतिपन्नादयोऽपि वन्द्यन्ते न वन्दन्त इति गणधरादीनां स्थविरकल्पस्थादीनां च मुक्त्यभावप्रसङ्गः, अर्हदादीनामेव मुक्तिः स्यात् ।
अथैवं मन्येत – अर्हन्निति महत् स्थानं न्यूनं गणधरा इति । तथा जिनकल्प[:] स्थविरकल्पश्च......स्तस्मादर्हदादयो न वन्दन्त इति । एवं तर्हि वन्द्यानां मुक्तिभाव (वेऽ) प्रतिवन्द्यानामिति हीनम् । किञ्च,
स्थानं स्त्रीपुंसयोस्तुल्यम् ॥२९॥ स्त्रीपुंसयोरप्येतच्छक्यते वक्तुम् – पुरु[18b]ष इति महत् स्थानं स्त्रीति न्यूनमिति ।। तच्चोक्तम् -
'सारण-वारण-परिचोयणाइ पुरिसो करेइ [ । ये यान्न मुक्तिभाजो वन्दन्ते ते तथैव मुच्यन्ते । इत्यप्यवन्दनं स्यान्नामोक्षोऽवन्दनात् तेन ॥३०॥
__इति सङ्ग्रहार्या । अपकृष्यते श्रिया स्त्री पुंसः सर्वत्र कि न तद् मुक्तौ । इत्यमुनाऽक्षेपि,
यदप्युच्यते कैश्चिद् बालैः - स्वर्गे या महतीन्द्रश्रीः इह च चक्रधर-बलदेव-वासुदेवप्रभृतिमण्डलीकमहामण्डलीकलक्ष्मीः प्रतिगृहं च नायकत्वं पुरुषाणामेव न स्त्रीणामस्ति, एवमिह श्रिया स्त्री पुरुषादपकृष्यमाणा दृश्यते सा मुक्तिश्रियाप्येवं ततः किं नापकृष्यते ? तत्राप्यपकर्ष एवास्या युक्तः, तथा दर्शनात् । ततश्च न स्त्रीनिर्वा[19a]णमिति । एतदपि गणधरादिमोक्षेणैव प्रतिक्षिप्तम् । यदि महत्याः श्रियोऽनर्हस्याऽमुक्तिः महत्यास्तीर्थकरलक्ष्म्या गणधरादयश्चक्रधरादिलक्ष्म्याश्च ब्राह्मणा वैश्याश्चानहर्हाः, क्षत्रिया एव च ते ।
नरदेव-राम-केसव-जिण-निव्वइ-विरइ-देस-सम्मत्तं।
रयणप्पभाइसत्तहिमायातोऽणंतरेण लभे॥ १. इतः परं पाठपूर्तिनिर्देशकम् A इदृशं चिह्न S. प्रतौ विद्यते, किन्तु पाठः क्वचनापि सम्पूरितो न विलोक्यते । अत कश्चिदंशोऽत्र न्यूनः स्यात् ।। २. (मुक्तिभावः?)॥
३. “सारण-वारण-पडिचोयणाइ पुरिसा करेइ ण हु इत्थी" इति सम्पूर्ण गाथार्धमुद्धृतं न्यायकुमुदचन्द्रे पृ० ८७६ ॥ ४. ०श्चानहक्षित्रिया S.||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146