Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 60
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । २५ यद्येतावता मुक्तिः कि केषाञ्चित् स्तेन-राजापकारि-द्वयक्षरादीनां तद्योगे प्रव्राजना निषिद्धा ? यान्तु ते मोक्षिकी दीक्षां प्रतिपद्य मोक्षम्, कस्तत्र भवतो मत्सरः ? इति । अतो रत्नत्रयादन्येनापि मुक्त्यङ्गेन भवितव्यं यदभावात् प्रतिषिद्धदीक्षा: सत्यामपि दीक्षायां न मुच्यन्त इति चेत्, उच्यते - प्रवाजना निषिद्धा क्वचित्तु रत्नत्रयस्य योगेऽपि । धर्मस्य हानि-वृद्धी निरूपयद्भिविवृद्धयर्थम् ॥ २६ ॥ स्तेन-राजापकार्यादीनां केषाञ्चित् प्रव्राजनायां तेषां प्रव्रजितानां प्रव्राजयितुः सङ्घस्य च[17a[ प्रत्यपायः स्यात् । द्वयक्षर-भृतकादीनां प्रव्राजने धर्मस्य महाजनमध्ये लाघवं सर्व एवैते एतादृशा इति । ततश्च न कश्चित् कुलपुत्रो जुगुप्सया 'धर्मं प्रतिपद्यत इति धर्मस्य हानिः, तत्परिहारे तु वृद्धिरिति धर्मस्य हानि-वृद्धी निरूपयद्भिर्भगवद्भिस्तेषां प्रव्राजना निषिद्धा । न तु रत्नत्रयादन्यत् तत्र पौरुषेयं मोक्षकारणमस्ति । यदि च स्यात् तदपि तत्रैव मा भूद् यत्र प्रतिषेधः, नान्यत्र, अतिप्रसङ्गात् । अप्रतिवन्धत्वाच्चेत् संयतवर्गेण नायिकासिद्धिः । अथैवं मन्यत - यदि 'पुरुषा[:] स्त्रियोऽपि संयता मुक्तिभाजः उभये[17b]ऽपि गुणेन सदृशा भवन्ति ततः किं स्त्रियः शतवर्षप्रव्रजिता अप्यद्यप्रव्रजितस्य साधोर्वन्दिका भवन्ति प्रतिवन्दनं च न लभन्ते ? ततो मन्यामहे - न तासां मोक्ष इति । वन्द्यन्तां ता ['यदि तेनोनत्वं कल्प्यते तासाम् ॥ २७ ॥] यदि सम्पन्नेऽपि रत्नत्रये वन्दनाभावान्न स्त्रीणां निर्वाणं वन्दनमप्येवं सम्यग्दर्शनादिवद् मुक्त्यङ्गं वन्द्यन्तां ता भवद्भिरेवंवादिभिरायिकाः । न हि तासां तावता वन्दनाभावमात्रेणात्रभवद्भिर्मोक्षं विनाशयितुं युक्तम् । न च भवतां तावता काचित् क्षतिः । वयं पुनः संयतवर्गवन्दनेनैव कर्मनिर्जराकारिणा तासां मोक्षः, न प्रतिवन्द्यत्वेन । न ह्यन्यथा भगवानेवं व्यवस्थां कर्तु ........................................................................ [सन्त्यूनाः पुरुषेभ्यस्ताः स्मारणवारणादिकारिभ्यः । तीर्थकराकारिभ्यो न तावताऽसिद्धिरङ्गगतेः ॥ २८ ॥ अर्हन् न वन्दते न च जिनकल्पादिरिति गणधरादीनाम । प्राप्ताऽन्यथाऽविमुक्तिः]] ...... ...... .......। . . . . . . . . . . . . . . . . . . . . . . . . . . . मूलादर्शानुसारेण परिपूरितः॥ १. धर्मे S.।। २. (पुरुषा इव ? ) ।। ३. अंशोऽयं N. P. ४. इतः परम् अष्टादशं संपूर्णमपि पत्रं S. प्रतौ न विद्यते । ५. कारिकात्मकोऽयमंशः N. P. प्रती अवलम्ब्य पूरितः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146