Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 58
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । २३ प्रवृद्धसंवेगो विशुद्धिस्थानानि उत्तरोत्तराणि उपगम्य स सेडुमर्हति, न हि तच्चीरं तच्चित्तविशुद्धि प्रतिबध्नाति । तथा उपसर्गे वा चीरे, उपसर्गेण मृगध्वजादाविव कस्मिश्चित् समाहिते यतावासञ्जिते चीरे मुक्तिर्न प्राप्नोति । अथोच्येत - त[13b]त्र भवति मुक्तिः , न हि तच्चीरं स्वयं तेन परिगृहीतम्, अन्येन हि बलादङ्गे संयोजितम्, न चाङ्गसङ्गमानं परिग्रहः, अपि तु मूर्छा परिग्रह इति । यद्येवम्, आर्यापि सर्वसङ्गपरित्यागेन संविग्ना मुक्त्यर्थमुत्थिता गुरुषु निक्षिप्तात्मा तदादेशमाचरन्ती न मोक्षं परित्यज्य स्वयं मूछिता वस्त्रं ग्रहीतुमर्हति, अपि तु अर्हदादेशो वस्त्रग्रहणमिति न परिग्रहः । किञ्च, अङ्गादिः संन्यस्यते चान्ते ॥२१॥ मारणान्तिकी संलेखनां योषिता [तत्त्वार्थ ७।१७] इति मरणान्ते शरीरमादिं कृत्वा सर्व एव संयोगास्त्यज्यन्ते, तत्र कुतो वस्त्रं प्रच्छन्नप्रदेशगताया वस्त्रेणाङ्गसङ्गेऽपि मोक्ष[14a]प्रतिबन्धिनि मोक्षकामायाः ? सोऽपि परिहर्तुं शक्यत इति । न च वस्त्रात् स्त्रीनिर्वाणाभावः । अथोच्येत - मुक्त्यङ्गमचेलत्वं नोच्येत तदन्यथा नरस्यापि । आचेलक्यायोग्या[5]योग्या सिद्धेरदीक्ष्य इव ॥२२॥ आचेलक्यं मुक्तेः कारणम्, मुक्यर्थिनां कर्तव्यतयोपदिश्यमानत्वात्, मिथ्यादर्शनादित्यागवत् । अन्यथा पुरुषाणामपि तद् नोपदिश्येत, मुक्यर्थिनां मुक्तेरप्रयोजकत्वात्, सम्यग्दर्शनादित्यागवत् । तस्य च मुक्त्यङ्गस्याऽऽचेलक्यस्यायोग्या स्त्री, तस्या [आचेलक्यनिषेधात् । अतश्च मोक्षकारणायोग्यायाः स्त्रियोऽदीक्षाहस्य बालादेरिव मोक्षाभाव इति । इति जिनकल्पादीनां मुक्त्यङ्गानामयोग्य इति सिद्धेः । स्यादष्टवर्षजातादिरयोग्योऽदीक्षणीय इति ॥२३॥ एवं ब्रुवतस्तेऽतिप्रसङ्गः, जिनकल्पादिष्वप्यस्य न्यायस्य तुल्यत्वात् । तथाहि - जिनकल्पो यथालन्दविधिः परिहार इति मुक्त्यङ्गम्, मुक्यर्थिनः कर्तव्यतयोपदेशात्, सम्यग्दर्शनादिवत् । अन्यथा मुक्यथिनस्तन्न कस्यचिदप्यादिश्यत, मुक्तेरप्रयोजकत्वात्, सम्यग्दर्शनादित्यागवत् । तस्यैवं मुक्त्यङ्गस्य जिनकल्पादेरयोग्यो यस्याष्टौ वर्षाणि जातस्य तदादिः, १. वीक्ष इव _N. S. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146