Book Title: Stree Nirvan Kevalibhukti Prakarane Tika Author(s): Shaktayanacharya, Jambuvijay Publisher: Atmanand Jain SabhaPage 56
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । अजयं चरमाणस्स पाणभूयाणि हिंसओ। बज्झए पावए कम्मे से होति कडुगे फले ॥ जयं तु चरमाणस्स दयाविक्खिस्स भिक्खुणो। नवे न बज्झए कम्मे पोराणे य विधूयए ॥ [ ] इति । तस्माद् यथा त्रैलोक्ये म्रियमाणेषूत्पद्यमानेषु च प्राणिषु पुरुषस्य न दोषसम्बन्धः तद्वदस्या अपि ममत्वरहिताया यत्नवत्याः । चेलसंसर्गेऽपि मोक्षे गृहिणो मोक्षः कस्मा[11]न्न भवतीति चेत्, 'गृहिणो ममत्वयोगात् संयमसाधनगृहीत्यभावाच्च । अयतं चरतश्चरणं न विद्यते तेन नो मोक्षः ॥१८॥ यथाऽऽाया वृत्तं न तथा गृहिणोऽस्ति । न हि गृही तत्र ममत्वरहितः, न च संयमसाधनार्थं वस्त्रं गृह्णाति, न च शास्त्रचोदितयत्नयोगी मिथ्यादर्शनादियोगादिति न तस्य मोक्षः । यद्यार्यिकावद् यत्नवान्, यतिरेव स्यात्, न गृही । तथा च पठन्ति - हिरिमाणे एगेण वत्थेण परिव्वएज्जा [ ] इत्यादि । तथा "त्रिस्थानोक्ता दोषाः ३त्रयोपदेशाय ते सचेलत्वे । अपरिषहसहिष्णुत्वं ह्रीश्च जुगुप्सा च देहस्य ॥१९॥ इति । [म्रियतां वा जीवतु वा जीवोऽ यताचारस्य निश्चिता हिंसा। प्रयतस्य नास्ति बन्धो हिंसामात्रेण समितस्य ॥३॥१७॥ इति छाया] अशुद्धोपयोगोऽन्तरङ्गच्छेदः, परप्राणव्यपरोपो बहिरङ्ग : । तत्र परप्राणव्यपरोपसद्भावे तदसद्भावे वा तदविनाभाविप्रयताचारेण प्रसिध्यदशुद्धोपयोगसद्भावस्य सुनिश्चितहिंसाभावप्रसिद्धः तथा तद्विनाभाविना प्रयताचारेण प्रसिध्यदशुद्धोपयोगासद्भावपरस्थ परप्राणव्यपरोपसद्भावेऽपि बन्धाप्रसिद्धया सुनिश्चितहिंसाऽभावप्रसिद्धेश्चान्तरङ्ग एव छेदो बलीयान्, न पुनर्बहिरङ्गः। एवमप्यन्तरङ्गच्छेदायतनमात्रत्वाद् बहिरङ्गच्छेदोऽभ्युपगम्यतेव।" इति प्रवचनसारस्य. अमृतचन्द्रसूरिकतायां तत्त्वदीपिकाभिधायां वृत्तौ पृ० २९१-२९२ ।। १. इयं कारिका N. P. प्रत्योर्नास्ति ।। २. इयं कारिका N. P. प्रत्योर्नास्ति । अतो ग्रन्थकारेण मूलरूपेणेयं कारिका विवक्षिता आहोस्वित् पूर्व "तथा च पठन्ति" इत्युल्लिख्य ग्रन्थान्तरादियमुद्धता इति सन्दिग्धमत्र । किञ्च, अस्याः कापि व्याख्या ग्रन्थकृता न विहिता, अतोऽपि अस्या मूलत्वे सन्देहः। ३. 'ज्ञानदर्शनचारित्ररूपत्रयोपदेशाय, ते दोषाः' इति S. प्रतौ टिप्पण्यां लिखितमस्ति । 'त्रयोऽपदेशा यतेः सचेलत्वे' इति पाठोऽत्र साधुरिति त्वस्माकं मतिः । अपदेशाः प्रत्यया इत्यर्थः । एते च त्रयः प्रत्ययाः स्थानाङ्गे इत्थं निर्दिष्टा: "तिहिं ठाणेहिं वत्थं धरेज्जा, तं० हिरिपत्तितं दुगुंछापत्तियं परीसहवत्तियं [सू. ३।३।१७१] । व्याख्या -- वस्त्रग्रहणकारणान्याह --तिहीत्यादि । ह्री लज्जा संयमो वा प्रत्ययो निमित्तं यस्य धारणस्य तत् तथा, जुगुप्सा प्रवचनखिसा विकृताङ्गदर्शनेन मा भूदित्येवं प्रत्ययो यत्र तत् तथा, एवं परीषहाः शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत् तथा, आह च -- “वेउवि वाउडे वाइए य हीरिखद्धपजणणे चेव। एसिं अणुग्गहट्ठा लिंगुदयट्ठा य पट्टो उ” । [ओघनि० ७२३] तथा "तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा। दि8 कप्पग्गहणं गिलाणमरणट्ठया चेव ॥" [ओघनि० ७०७] इति ।"-- इति सटी के स्थानाङ्गसूत्रे तृतीय स्थाने तृतीय उद्देशे पृ० १३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146