Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 55
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । अपरिग्रह एव भवेद् वस्त्राभरणाद्यलकृतोऽपि पुमान् । ममकारविरहितः, सति ममकारे सङ्गवान् नग्नः ॥१३॥ आचार्याद्यासक्तं स्वयमादित नो मुमुक्षुका लोभात् । उपसर्गाद्यासक्तमिवाम्बरमपरिग्रहस्तस्याः ॥१४॥ काये ममकारेऽपि च सपरिग्रह एव नैव मुक्तः स्यात् । तत्र यथा संलग्ने नो ममकारस्तथा वस्त्रे ॥१५॥ ग्राम गेहं च विशन् कर्म च नोकर्म चाददानोऽपि । अपरिग्रहो[s]ममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥१६॥ इति सङ्गहार्याः । एवमपि वस्त्रवत्या वस्त्रे जन्तुत्पत्तेः शयनादिषु हिंसाऽवश्यम्भाविनी । तत्र प्रथमव्रतमेव तावदहिंसालक्षणं नास्ति, कथं मुक्तिरि[10a]ति चेत्, संसक्तौ सत्यामपि चोदितयत्नेन परिहरन्त्यार्या । हिंसावती पुमानिव न जन्तुमालाकुले लोके ॥ १७ ॥ नायं नियमोऽवश्यं चेलग्रहणमात्रेण संसक्तिर्भवतीति । अन्तर्मुहुर्तसिद्धा अनन्ता इति श्रूयन्ते । न च संसक्त्यां सत्यामपि तदैव तत्र जन्तुमरणम् । मरणेऽपि यथा शरीरादौ न प्राणव्यपरोपणं भवति तथा चेलेऽपि स्यात् । न च सत्यपि व्यपरोपणेऽहदुक्तेन यत्नेन परिहरन्त्याः प्रमादाभावे हिंसा भवति । प्रमादो हि हिंसा नाम । तथा च पठन्ति – प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा [तत्वार्थ. ७८] इति । अन्यथा पिण्डोपधिशय्यासु स्थान-शयन-गमना-ऽऽकुञ्चनप्रसारणा-ऽऽमर्शनादिषु च शरीरं क्षेत्रं लोकं च परिभुजानो 'जले जन्तुः स्थले जन्तुराकाशे जन्तुरेव च। जन्तुमालाकुले लोके कथं भिक्षुरहिंसकः॥ [10b]हिंसकत्वेऽपि अर्हदुक्तयत्नयोगे न बन्धः । तद्विरहे एव यत्नः। तथा च पठन्ति - 'जियउ व मरउ य जीवो अजयाचारस्स निच्छओ बंधो। पययस्स नत्थि बंधो हिंसामित्तेण दोसेण ॥ १. तत्त्वार्थराजवातिके [पृ० ५४१] उद्धृतोऽयं श्लोकः ।। २. 'बन्धः' इति पाठः साधुर्भवेत् ।। ३. "मरद व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा। पयदस्स णत्थि बंधो हिंसामित्तेण समिदस्स ।।३।१७॥" इति कुन्दकुन्दाचार्यविरचिते प्रवचनसारे दृश्यते। " अथान्तरङ्ग-बहिरङ्गत्वेन छेदस्य द्वैविध्यमुपदिशति-- मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा । पयदस्स पत्थि बंधो हिंसामित्तेण समिदस्स ॥३।१७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146