Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 54
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । त्वात् सत्यपि दोषे तद् वस्त्रग्रहणमात्रं दोषः, अन्यत् पुनः सर्वमेव शीलमनुपालितं भवतीति तत्त्यागोपादानयोर्गुणदोषाल्पत्वबहु[8b]त्वनिरूपणेन भगवद्भिरर्हद्भिर्वस्त्रग्रहणं स्त्रीणामुपदिष्टं त्यागो निषिद्धः । ततश्च नाप्तस्य दोषः । न च निर्वाणम्, परिग्रहस्य सदोषत्वात् । इति भुक्त्यादौ ॥११॥ एतद् भुक्त्यादावपि समानम्, एवं पिण्डोपधिशय्यास्वपि वक्तुं शक्यम् । पिण्डोपधिशय्याश्च गृह्यमाणत्वाद् वस्त्रवत् परिग्रहः ‘अल्पो दोषो महान् गुणः' इत्युपदिष्टाः स्युः । ततश्च धर्मसाधनानामपि सूत्रविहितानां परिग्रहत्वमिति पिण्डाद्युपादायिनां पुरुषाणामपि मोक्षाभावः स्यात् । तन्न सूत्रविहितस्य यथासूत्रमुपादीयमानस्य धर्मसाधनस्य परिग्रहत्वं शक्यमभ्युपगन्तुम् । अस्मिन्नर्थे भगवदाचार्यशिवस्वामिनः सिद्धिविनिश्चये युक्त्यभ्यधायि आर्याद्वयमाह - यत् संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि त[9a]त् साधनमतोऽन्यदधिकरणमाहार्हन् । 'अस्तैन्य-बाहिरव्युत्सर्ग-विवेकैषणादिसमितीनाम् । उपदेशनमुपदेशो ह्युपधेरपरिग्रहत्वस्य ॥ किञ्च, निर्ग्रन्था(न्थी)व्यपदेशः शास्त्रे सर्वत्र नैव युज्यत । उपधेर्ग्रन्थत्वेऽस्याः , आगमे कल्पादौ सर्वत्र आमे तालपलंबे भिन्नेऽभिन्ने वा नो कप्पति निग्गंथीणं परिग्गहित्तए [बृहत्कल्पे उ.१ सू.१] इति स्त्रिया निर्ग्रन्था (न्थी)व्यपदेशः श्रूयते, स यद्युपधिः परिग्रहः स्यात् परिग्रहस्य ग्रन्थत्वाद् गृहस्थस्येव नोपपद्येत पुमानपि तथा न निर्ग्रन्थः ॥ १२ ॥ उपधेः संयमसाधनस्य परिग्रहत्वे पुरुषस्यापि निर्ग्रन्थव्यपदेशानुपपत्तिः तस्याप्योघाण्वौपग्रहिकोपधित्रयसद्भा[9b]वात् । १. अस्त्येयवा० S। (अस्तेय०?)। २. "नो कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए। कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे भिन्ने पडिगाहित्तए।" इति बृहत्कल्पे प्रथमोद्देशे प्रथम-द्वितीयसूत्रे। अत्र यद्यपि द्वितीयसूत्रे भिन्नं तालप्रलम्बमनुज्ञातम् तथापि भाष्ये वृत्तौ च 'भिन्नमपि न कल्पते' इत्यभिहितं विस्तरेण। तथाहि -- "जइ वि निबंधो सुत्ते तहवि जईणं न कप्पइ आमं । जइ गिण्हइ लग्गति सो पुरिमपदनिवारिए दोसे ॥१००१।। यद्यपि सूत्रे निबन्धः 'कल्पते भिन्नम्' इतिलक्षणः तथापि यतींनां न कल्पते आमं भिन्नमपि, यदि गृहणाति ततः स पूर्वपदे पूर्वसूत्रे निवारिता ये दोषास्तान् लगति प्राप्नोति ।"--बृहत्कल्पभाष्यटीका पु० ३१५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146