Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 52
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । अतः स्त्रीणां निर्वाणाभावोऽप्युच्येत 'स्त्रियो न कदाचिन्निर्वान्ति' इति । न चैवमुच्यते । अतः प्रतिपद्यामहे 'अस्ति स्त्रीनिर्वाणम्' इति । अथ मन्येत – यद्यासां संयमः स्यादस्ति निर्वाणप्राप्तिरिति निषिध्येत, तदभावादेव निर्वाणाभाव इति न निर्वाणनिषेध इति । नैतदस्ति, तथा सति तपोविभवजन्मनां वादादिलब्धीनामपि[6b] निषेधो न क्रियेत । तथाऽन्येषामप्राप्तिमतां क्रियते च । अतो विज्ञायते ‘अस्ति संयमः' इति । किञ्च, स्त्रीति च धर्मविरोधे प्रव्रज्यादोविंशतौ स्त्रीति । बालादिवद् वदेयुर्न गभिणी बालवत्सेति ॥९॥ बाले बुड्ढे नपुंसे य जड्डे कीबे य बाहिए। तेणे राजावकारी य उम्मत्ते य अदंसणे॥ दासे बुट्ठ य मूढे य 'अणत्ते 'मुंगिय ति य। 'ओबद्धए य भयए सिक्खनिप्फेडिए ति य॥ गम्भिणी बालवत्सेति पव्वावेउं न कप्पइ ॥ [निशीथमाष्ये गा० ३५०६-८, पञ्चकल्पभाष्ये गा० १९८-२००] इति विंशतिरप्रव्राज्याः पठ्यन्ते । तत्र यदि स्त्रीत्येव धर्मेण विरुध्यते यथा बालादिः बालवृद्धादिवत् तत्र 'स्त्री' इत्येव पठ्येत 'स्त्री न प्रव्राजनीया' इति, न विशेषो ‘गर्भिणी बालवत्सा' इति । विशेषनिषेधो हि विशेषान्तरपरिग्रहे युज्यते । यदि न कस्यचिद् वि[7a]शेषस्य परिग्रहः सामान्येनैव निषिध्येत । अतो न स्त्रीत्येव धर्मविरोधः । एवन्तावत् स्त्रीत्वमनिर्वाणकारणं नेत्युक्तम् । यदि वस्त्रादविमुक्तिः अथैवमुच्येत - वस्त्रपरिग्रहः, स स्त्रीणामस्ति, तस्मान्न ता विमुच्यन्ते । येषां परिग्रहयोगो न ते विमुच्यन्ते यथान्ये गृहस्थाः । अन्यथा पुंसामपि वस्त्रग्रहणं स्यात्, अनर्थकस्त्याग इति । नैतदस्ति, मण-परमोधि-पुलाए आहारग-खवग-उवसमे कप्पे। संजमतिय-केवल-सिज्झणा य जंबम्मि वोच्छिण्णा ।।३०७६।। मणग्रहणाद् वाक्यैकदेशानुकरणाद् मनःपर्यायज्ञानम्, परमावधिरुत्कृष्टमवधिज्ञानम्, पुलाकलब्धिः, आहारकशारीरकलब्धिः, क्षयोपशमश्रेणिद्वयम्, कल्पग्रहणाज्जिनकल्पः, संयमत्रिक परिहारविशुद्धि-सूक्ष्मसम्पराय-अथाख्यातानि, केवलज्ञानम्, सिद्धगमनं च। एतेऽर्था जम्बुनाम्नि सुधर्मगणधरशिष्ये व्यवच्छिन्नाः। तस्मिन् सति अनुवृत्ताः, तस्मिन् परिनिर्वाणे व्यवच्छिन्ना इति।" इति स्वोपज्ञटीकासहिते विशेषावश्यकभाष्ये उद्धृतेयं प्राचीना गाथा पृ० ५९४ ॥ १. ऋणातः S टिप्पण्याम् ॥ २. क्षत्तांगुल्यादिः S टिप्पण्याम् ।। ३. उबद्धए य भडए S॥ ४. एतत्तावत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146