Book Title: Stree Nirvan Kevalibhukti Prakarane Tika Author(s): Shaktayanacharya, Jambuvijay Publisher: Atmanand Jain SabhaPage 53
________________ १८ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । त्यज्येत तत् यदि वस्त्रादेनिर्वाणाभावः, तत्त्यागान्निर्वाणं प्राप्नोति । शक्यते च तत् त्यक्तुम् । न हि तत् प्राणाः । प्राणा अपि त्यज्यन्ते, किं पुनरन्यत् । न हि तदभावे मुक्त्युपगतौ मुक्त्यर्थमुत्थितः कश्चिज्जनो मुक्ति विनाश्य बालिशश्चीरं गृहणाति । अथ न कल्पते हातुम् । अथोच्यत -- नो कप्पति निग्गंथीए अचेलाए होत्तए' [बृहत्कल्पे उ. ५ सू० १६] [7b]इत्यागमे आप्तैः स्त्रीणां वस्त्रत्यागो निषिध्यते । तस्माद् यद्यपि वस्त्रं त्यक्तुं शक्यते तथापि न वस्त्रत्यागः स्त्रीणामस्तीति निर्वाणाभावः । अथाप्तवचनमुल्लङ्घय वस्त्रं त्यज्येत, न सूत्रोल्लङ्घने चरणम् । आप्तादेशकारिता हि चरणमिति नितरां निर्वाणाभाव इति । एवं तर्हि मुक्त्यङ्ग प्रतिलेखनवत्, । यदि भगवद्भिरर्हद्भिर्मोक्षमार्गप्रणायैः स्त्रीणां वस्त्रमुपदिष्टं वस्त्रत्यागो निषिद्धः तद् । वस्त्रं तासां मुक्त्यङ्गं प्रतिपत्तव्यम्, प्रतिलेखनादिवत् । अन्यथा देशको दुष्येत् ॥१०॥ यदि न तद् मुक्त्यङ्गं परिग्रहो मुक्तेः प्रतिबन्धकः, तत्त्यागो मिथ्यादर्शनादित्यागवद् युक्तः । तं वारयन् ग्राहयन् वस्त्रं मोक्षप्रतिबन्धि हिंसादेरुपदेष्टेव अर्हद्-गणधर-स्थविरादिर्यस्यायमुपदेशः स दोषदूषितः स्यात् । [8a] ततश्च न कस्यचिद् मुक्तिः स्यात् । अथैवं मन्येत -- त्यागे सर्वत्यागो ग्रहणेऽल्पो दोष इत्युपादेशि । वस्त्रं गुरुणाऽऽर्याणां परिग्रहोऽपि, यदि वस्त्रं स्त्रीभिस्त्यज्येत सर्वस्यैव शीलराशेस्त्यागस्ताभिः कृतो भवति, 'अभिभूयन्ते हि प्रायेण विवृताङ्गोपाङ्गसन्दर्शनसञ्जातचित्तभेदैः "पुरुषैरङ्गना अपाकृतप्रावरणा इव घोटिका घोटः । गवारवादावपि सर्वत्र प्रायेण स्त्रीप्रकृतिरभिभाव्या, पुरुषप्रकृतिरभिभाविका । कुलस्त्रियश्च प्रकृत्या लज्जाभूयिष्ठा वस्त्रत्यागे दीक्षामेव त्यजेयुः । वस्त्रे तु वस्त्रस्य परिग्रहरूप १. "नो कप्पइ निग्गंथीए अचेलियाए हुतए" इति बृहत्कल्पे ॥ २. “वा ज्वलादि-दु-नी-भू-ग्रहा-ऽऽस्रोर्णः" [सि. ५-१-६२] इति सूत्रेण बहुलाधिकारात् सोपसर्गादपि नीधातोः णप्रत्यये 'प्रणायैः' इति पाठोऽपि साधुः स्यात् । अत्रारुचौ तु सुधीभि : 'प्रणयः' इति 'प्रणायकैः' इति वा पाठः कल्पनीयः ।। ३. अभिभूयते ॥ ४. पुरुषैरनंगाः। ॥ ५. “अभिभूयन्ते प्रायेण विवृतांगोपांगसन्दर्शनजनितचित्तभेदैः पुरुषैरंगना अकृतप्रावरणा भोटिकेव घोटकैः" --- न्यायकुमु० पृ० ८७३ । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146