Book Title: Stree Nirvan Kevalibhukti Prakarane Tika Author(s): Shaktayanacharya, Jambuvijay Publisher: Atmanand Jain SabhaPage 63
________________ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलङ्कृतं स्त्रीनिर्वाणप्रकरणम् । किञ्च, देशादिप्रसिद्धयभावश्च षण्णां संस्थानानां तुल्यो वर्णत्रयस्यापि । न हि निर्वाणजुषां सर्वेषामपि तेषां भूम्यादयः प्रसिद्धा एव[21a] भवन्ति, नियमहेत्वभावात् । यदि च तदभावादनिर्वाणमतिप्रसङ्गः। सन्ति हि भूयिष्ठा अप्रसिद्धनिर्वाणभूम्यादयः । न ह्यत्रात्र इमे इमे निर्वाणा इति षण्णामपि संस्थानानां त्रयाणामपि वर्णानां साकल्येन तद्देशादिप्रसिद्धिरस्ति । अथ तेषां तदभावेऽपि मुक्तिः, कस्तवार्यिकासु प्रद्वेष: ? तस्मात् कारणसाकल्ये न कश्चित् कार्य निषेद्धमीश्वर इति स्त्रीनिर्वाणकारणवैकल्यमेव दर्शनीयम् । तच्चाशक्यम् । अथोच्यते - स्त्री नाम मन्दसत्त्वा मुक्त्यङ्गसमग्रता न तेनात्र । स्त्रियो नाम मन्दसत्त्वा भवन्ति । न हि तासां पुरुषाणामिव सत्त्वाधिकतास्ति । मन्दसत्त्वानां च 'सर्व सत्त्वे प्रतिष्ठितम्' [ ] इति कथं कातरदुर्विगाहं रत्नत्रयं समग्रतामनु भवेदिति । तत् कथमनल्पघृतयः सन्ति हि शीलाम्बुनिधिवेलाः ॥३३॥ इह हि सत्त्वं तपःशील[21b]धारण एषितव्यम्, नान्यदनङ्गत्वात् । तच्चानल्पधृतिबलमार्यासु सुदुर्धरतपःशीलवहासु दृश्यते । प्रसिद्धाश्च सत्त्वेनार्याः शासने श्रूयन्ते - ब्राह्मी सुन्दर्या राजिमती चन्दना गणधरान्या[:] । अपि देवासुरमहिता विख्याताः शीलसत्त्वाभ्याम् ।। ३४ ॥ ब्राह्मयादीनां भगवतीनामन्यासामपि सकलनरामरलोकमहितानामार्याणां सकलभुवनातिशायि शीलं तदनुमेयं च महत् सत्त्वं विख्यातम् । गार्हस्थ्येऽपि सुसत्त्वा विख्याताः 'शीलवतितमा जगति । "सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ॥३५॥ लोकेऽपि 'सीतादयो गृहस्थाश्रमेऽप्यभेद्यशीला महासत्त्वाः श्रूयन्ते । ता एव कथमशेषसंसारज्वरनिर्वहणी परित्यक्तसर्वभोगां भागवतीं दीक्षां महापुरुषानुत्ती(ची)र्णां सत्त्वविवर्धिनीमुपादाय विसत्त्वाः [22a]विशीलाश्च भवेयुः ? किञ्च, सन्त्यज्य राज्यलक्ष्मी पतिपुत्र भ्रातृ[बन्धु]सम्बन्धम् । पारिवाज्यवहायाः किमसत्त्वं सत्यभामादेः ॥३६॥ नारायणभार्याणां प्रसिद्धपरित्यागमहिमानां निर्व()ढसंयमभराणामशक्तिकल्पनां प्रति कथमप्यविषयाणामुदाहरणेन स्त्रीणामसत्त्वकल्पना प्रतिक्षिप्यते । १. योगशास्त्रस्वोपज्ञवृत्तौ [३-१२० पृ० २०७ B] न्यायावतारवातिकवृत्ती [पृ० १२१] चोद्धृतेयं कारिका । न्याय कुमुदचन्द्रेऽपि उद्धृता, तत्र च 'शीलवतया' इति पाठः पृ० ८६९ ।। २. शीताSU Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146