Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 49
________________ १४ शाकटायनाचार्यप्रणीतं स्वोपज्ञवृत्तिसमलकृतं स्त्रीनिर्वाणप्रकरणम् । इति वाङ्मानं नात्र प्रमाणमाप्तागमोऽन्यद्वा ॥३॥ यदेतदुक्तमेतद् वाङमात्रम्, न प्रमाणोपपन्नम् । अविकलकारणस्य हि भवतोऽन्यभावेऽभावाद् 'विरोध इति । स चाभावः प्रमाणात् प्रतिपत्तव्यः । तच्च प्रमाणं प्रत्यक्षमनुमानमागमो[2b] वा स्यात् । न प्रत्यक्षेणात्र प्रतीयते । नानुमानेन, अन्यथानुपपद्यमानस्य लिङ्गस्यानुपलक्षणात् । न च गणधर-प्रत्येकबुद्ध-श्रुतकेवलि-दशपूविणामविगीतं वचनमत्रोपलभामहे यथा देवादिषु सुर-नारएसु चत्तारि होति तिरिए जाण पंचेव [पञ्चसं० ४-१०] इति, येनात्र विरोधनिर्णयः स्यात् । न चान्यत्राभाव इत्यत्राप्यभावः । न हि बलाकायां कार्ष्याभाव इति काकेऽपि तदभावः । न चाप्रमाणकं शक्यमभ्युपगन्तुम्, अतिप्रसङ्गात् । जानीते जिनवचनं श्रद्धत्ते चरति 'चायिका[5] शबलम् । जिनवचनस्य यथावदवगमः सम्यग्ज्ञानम्, ‘इदमित्थमेव' इति तस्य श्रद्धानं सम्यग्दर्शनम्, तदुक्तस्य यथावदनुष्ठानं सम्यक्चारित्रम्, एतद् रत्नत्रयं नाम । अस्य सम्पत्तौ सर्वकर्मविप्रमोक्षलक्षणो मोक्षः । तदुक्तम् – सम्यग्दर्शन-ज्ञान-चारि[3a]त्राणि मोक्षमार्गः [तत्त्वार्थ. १।१] इति । प्रतीयते चैतत् त्रितयं स्त्रीषु । नास्यास्त्यसम्भवोऽस्याम् नास्य त्रितयस्य स्त्रीष्वसम्भवः प्रतीयते येनास्य स्त्रीषु विरोधोऽभ्युपगम्यते । अथोच्येत – अस्तु नामास्यात्र सम्भवः । न च तावता मुक्तिः, दीक्षानन्तरं सर्वेषां मुक्तिप्रसङ्गात् । अपि तु रत्नत्रयस्य प्रकर्षपर्यन्तप्राप्तौ, सा च न स्त्रीष्विति न तदस्ति । नादृष्टविरोधगतिरस्ति ॥४॥ रत्नत्रयप्रकर्षपयन्तोऽयोगिचरमक्षणो यदनन्तरं मुक्तिः सोऽस्माकमप्रत्यक्षः, न तादृशस्यास्माभिविरोधः शक्यते ग्रहीतुम् । अप्रतिपन्नविरोधस्य च न तस्य तत्राभावः शक्यो विज्ञातुम् । न चाविरोधी भावो निवर्तयति । १. अत्र 'विरोधगतिः' इति पाठः शोभन: प्रतीयते । दृश्यतां केवलिभुक्तिप्रकरणे पृ. 43a | तुलना --"द्विविधो हि पदार्थानां विरोधः - अविकलकारणस्य भवतोऽन्यभावेऽभावाद् विरोधगतिः शीतोष्णस्पर्शवत्, परस्परपरिहारलक्षणतया वा भावाभाववत् ।" इति बौद्धाचार्यधर्मकीतिविरचिते न्यायबिन्दौ तृतीयपरिच्छेदे ॥ २. “सुरनारएसु चत्तारि होति तिरिएसु जाण पंचेव । मणुयगदीए वि तहा चउदस गुणनामधेयाणि ॥" इति सम्पूर्णा गाथा दैगम्बरे पञ्चसंग्रहे चतुर्थे शतकप्रकरणे । अस्या व्याख्या -“अथ मार्गणास्थानेषु रचितगुणस्थानानि गाथाचतुर्दशकेन प्ररूपयति देवगत्यां नरकगत्यां च मिथ्यादृष्टयादीनि चत्वारि गुणस्थानानि । तिर्यग्गतौ मिथ्यादीनि पञ्च गुणस्थानानि त्वं जानीहि । मनुष्यगतौ मिथ्यादृगाद्ययोगान्तानि चतुर्दश गुणस्थानानि भवन्तीति जानीहि त्वं मन्यस्व ॥” इति दिगम्बरपञ्चसंग्रहान्तर्गतशतकटीकायाम्, पृ. ९८ [भारतीय ज्ञानपीठ, काशी] ॥ ३. चायिकाः ॥ ४. सम्यग्ज्ञानचारित्राणि S.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146