Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 45
________________ शाकटायनाचार्यविरचितं केवलिभुक्तिप्रकरणम् । ज्ञानावरणीयादेर्शानावरणादि कर्मणः कार्यम् । क्षुत् तद्विलक्षणाऽस्यां न तस्य सहकारिभावोऽपि ॥१०॥ क्षुद्बाधिते 'न जाने, न चेक्ष३' इत्यस्ति ननु विपर्यासः । तद्वेद्यं सहकारि तु तस्य, न तद् वेद्यसहकारि ॥११॥ ज्ञानावरणादीनामशेषविगमात् क्षुधि प्रजातायाम् । अपि तज्ज्ञानादीनां हानिः स्यादितरवत् तत्र ॥१२॥ नष्टविपाकः (का) क्षुदिति प्रतिपत्तौ भवति चागमविरोधः । शीतोष्ण-क्षुद्-उदन्यादयो हि ननु वेदनीय इति ॥ १३ ॥ 'उदये फलं न तस्मिन्नुदीरणेत्यफलता न वेद्यस्य । नोदीरणा फलात्मा तथा भवेदायुरप्यफलम् ॥ १४ ॥ अनुदीर्णवेद्य इति चेद् न क्षुद्, वीर्य किमत्र, न हि वीर्यम् । क्षुदभावे, क्षुदभावे न स्थित्यै क्षुधि तनोविलयः ॥१५॥ अपवर्तते[5] कृतार्थ नायुर्ज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं वीर्य किं गततृषो भुक्तिः ॥१६॥ ज्ञानाद्यलयेऽपि जिनेऽमोहेऽपि स्यात् क्षुदुद्भवे भुक्तिः । वचन-गमनादिवच्च प्रयोजनं स्वपरसिद्धिः स्यात् ॥१७॥ ध्यानस्य समुच्छिन्नक्रियस्य चरमक्षणे गते सिद्धिः । सा नेदानीमस्ति स्वस्य परेषां च कर्तव्या ॥१८॥ रत्नत्रयेण मुक्तिर्न विना तेनास्ति चरमदेहस्य । भुक्त्या तथा तनोः स्थितिरायुषि नन्वनपवयेऽपि ॥१९॥ १. णास्यान्न तस्य N.॥ २. क्षुद् बाधते N.॥ ३. 'ननु क्षुबाधिते पुरुषे 'नाहं जाने, न चेक्षे' इति विपर्यासोऽस्तीति चेत्' इत्याशयोऽत्र भाति । तुलना -- “अस्मदादौ हि क्षुत्प्रभवपीडाक्रान्ते ज्ञानादेरभाव: सुप्रतीतः, 'क्षुत्पीडितोऽहं न किच्चिज्जानामि, न किच्चित् पश्यामि, उत्थातुमपि न शक्नोमि' इति प्रतीतेः।"-- न्यायकुमुदचन्द्रे पृ० ८६१ पं० २३ ॥ ४. विगमा क्षुधि P.॥ ५. उदयं P.॥ ६. क्षुदुद्गते भुक्तिः S.॥ ७. चरमे N.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146