Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 46
________________ शाकटायनाचार्यविरचितं केवलिभुक्तिप्रकरणम् । 'असति क्षुद्बाधेऽङ्गे लये न शक्तिक्षयो न संक्लेशः । आयुश्चानपवर्त बाधलयौ प्राग्वदधुनापि ॥२०॥ देशोनपूर्वकोटीविहरणमेवं सतीह केवलिनः । सूत्रोक्तमुपापादि न, मुक्तिश्च न नियतकाला स्यात् ॥२१॥ अपवर्त हेत्वभावोऽनपवर्तनिमित्तसंपदायुष्के । स्यादनपवर्त इति तत् केवलिभुक्ति समर्थयते ॥२२॥ आयुरिवाभ्यवहारो जीवनहेतु विनाऽभ्यवहृतेश्च । तिष्ठत्यनन्तवीर्यो विनायुषा[s]कालमपि तिष्ठेत् ॥२३॥ न ज्ञानवदुपयोगो वीर्ये कर्मक्षयेण लब्धिस्तु । तत्रायुरिवाहारोऽपेक्ष्येत न तत्र बाधास्ति ॥ २४ ॥ मासं वर्ष वापि च तानि शरीराणि तेन भुक्तेन । तिष्ठन्ति न चाकालं, ३न वान्यथा पूर्वमपि भुक्तिः ॥२५॥ तैलक्षये न दीपो न जलागममन्तरेण जलधारा । तिष्ठति तनोस्तथा स्थितिरपि न विनाहारयोगेन ॥२६॥ कायस्तथाविधोऽसौ जिनस्य यदभोजने स्थितिरितीदम् । वाङ्मानं नात्रार्थे प्रमाणमाप्तागमोऽन्यद् वा ॥२७॥ अस्वेदादि प्रागपि सर्वाभिमुखादि तीर्थकरपुण्यात् । स्थितनखतादि सुरेभ्यो नाक्षुद् देहान्यता वास्ति ॥२८॥ भुक्तिर्दोषो यदुपोष्यते न दोषश्च भवति निर्दोषे । इति निगदतो निषद्यार्हति न स्थानयोगादेः ॥२९॥ रोगादिवत् क्षुधो न व्यभिचारो वेदनीयजन्मायाः । प्राणिन्येकादश जिन इति जिनसामान्यविषयं च ॥३०॥ १. अत्र N. P. मध्ये इत आरभ्य कारिकाणामन्यथा क्रमः । तथाहि -- "आयुरिवा ॥ न ज्ञानव ॥ मासं वर्षं - - ॥असति क्षुद्बाधे ॥देशोनपूर्व .. ॥ अपवर्त ...॥ कायस्तथा ॥ अस्वेदादि ॥ भुक्तिर्दोषो । - ॥ रोगादिवत् ॥ तद्धेतुकर्म ॥ तैलक्षये ॥ परनाव ॥" P.I N. प्रतावप्येवमेव क्रमः, किन्तु तत्र “न ज्ञानव ॥' इति कारिका नास्त्येव ।। २. 'नपवयं P. । नपवत्यं N. || ३. न चान्यथा N. । चान्यथा P. ॥ ४. यदभोजनस्थिति P. S.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146