Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 37
________________ शाकटायनाचार्यविरचितं रत्नत्रयं विरुद्धं स्त्रीत्वेन यथाऽमरादिभावेन । इति वाङ्मात्रं, नात्र प्रमाणमाप्तागमोऽन्यद् वा ॥३॥ जानीते जिनवचनं, श्रद्धत्ते, चरति चायिका[5]शबलम् । नाऽस्याऽस्त्यसंभवोऽस्यां, नादृष्टविरोधगतिरस्ति ॥४॥ सप्तमपृथिवीगमनाद्यभावमव्याप्तमेव मन्यन्ते । निर्वाणाभावेनाऽपश्चिमतनवो न तां यान्ति ॥५॥ विषमगतयोऽप्यधस्ताद् उपरिष्टात् तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥६॥ वादविकुर्वाणत्वादिलब्धिविरहे श्रुते कनीयसि च । जिनकल्प-मनःपर्यवविरहेऽपि न सिद्धिविरहोऽस्ति ॥७॥ वादादिलब्ध्यभाववदभविष्यद् यदि च सिद्धयभावोऽपि । साऽऽसामवारयिष्यत यथैव जम्बूयुगादारात् ॥८॥ 'स्त्री'ति च धर्मविरोधे प्रवज्यादोषविंशतौ 'स्त्री'ति । बालादिवद् वदेयुर्न गर्भिणी बालवत्से'ति ॥९॥ यदि वस्त्रादविमुक्तिः , त्यज्येत तद्, अथ न कल्पते हातुम् । मुक्त्यङ्ग प्रतिलेखनवद्, अन्यथा देशको दुष्येत् ॥१०॥ त्यागे सर्वत्यागो ग्रहणेऽल्पो दोष इत्युपादेशि । वस्त्रं गुरुणाऽऽर्याणां परिग्रहोऽपीति भुक्त्यादौ ॥११॥ " यत् संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहाऽर्हन् । अस्तैन्यबाहिरव्युत्सर्गविवेकैषणादिसमितीनाम् । उपदेशनमुपदेशो ह्यपधेरपरिग्रहत्वस्य ।।" १. योगशास्त्रस्वोपज्ञवृत्तौ [३-१२०] उद्धृतेयं कारिका पृ० २०८ A ॥ २. तासामवारयिष्यद् N. P. ॥ ३. गुर्विणी N. ४. दृष्येत P. । दृष्येत् N. ॥ ५. "अस्मिन्नर्थे भगवदाचार्यशिवस्वामिनः सिद्विविनिश्चये युक्त्यभिधायि आर्याद्वयमाह" इति [१०१९] वक्ष्यमाणटीकाग्रन्थानुसारेण अनयोरार्ययोर्ग्रन्थान्तरादुद्धतत्वादत्र कारिकाङ्कोऽस्माभिर्न दत्त इति ध्येयम् ॥ ६. अस्तेय S. I (अस्तेय?) । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146