________________
शाकटायनाचार्यविरचितं
रत्नत्रयं विरुद्धं स्त्रीत्वेन यथाऽमरादिभावेन । इति वाङ्मात्रं, नात्र प्रमाणमाप्तागमोऽन्यद् वा ॥३॥ जानीते जिनवचनं, श्रद्धत्ते, चरति चायिका[5]शबलम् । नाऽस्याऽस्त्यसंभवोऽस्यां, नादृष्टविरोधगतिरस्ति ॥४॥ सप्तमपृथिवीगमनाद्यभावमव्याप्तमेव मन्यन्ते । निर्वाणाभावेनाऽपश्चिमतनवो न तां यान्ति ॥५॥ विषमगतयोऽप्यधस्ताद् उपरिष्टात् तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥६॥ वादविकुर्वाणत्वादिलब्धिविरहे श्रुते कनीयसि च । जिनकल्प-मनःपर्यवविरहेऽपि न सिद्धिविरहोऽस्ति ॥७॥ वादादिलब्ध्यभाववदभविष्यद् यदि च सिद्धयभावोऽपि । साऽऽसामवारयिष्यत यथैव जम्बूयुगादारात् ॥८॥ 'स्त्री'ति च धर्मविरोधे प्रवज्यादोषविंशतौ 'स्त्री'ति । बालादिवद् वदेयुर्न गर्भिणी बालवत्से'ति ॥९॥ यदि वस्त्रादविमुक्तिः , त्यज्येत तद्, अथ न कल्पते हातुम् । मुक्त्यङ्ग प्रतिलेखनवद्, अन्यथा देशको दुष्येत् ॥१०॥ त्यागे सर्वत्यागो ग्रहणेऽल्पो दोष इत्युपादेशि । वस्त्रं गुरुणाऽऽर्याणां परिग्रहोऽपीति भुक्त्यादौ ॥११॥ " यत् संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहाऽर्हन् । अस्तैन्यबाहिरव्युत्सर्गविवेकैषणादिसमितीनाम् ।
उपदेशनमुपदेशो ह्यपधेरपरिग्रहत्वस्य ।।" १. योगशास्त्रस्वोपज्ञवृत्तौ [३-१२०] उद्धृतेयं कारिका पृ० २०८ A ॥ २. तासामवारयिष्यद् N. P. ॥ ३. गुर्विणी N. ४. दृष्येत P. । दृष्येत् N. ॥
५. "अस्मिन्नर्थे भगवदाचार्यशिवस्वामिनः सिद्विविनिश्चये युक्त्यभिधायि आर्याद्वयमाह" इति [१०१९] वक्ष्यमाणटीकाग्रन्थानुसारेण अनयोरार्ययोर्ग्रन्थान्तरादुद्धतत्वादत्र कारिकाङ्कोऽस्माभिर्न दत्त इति ध्येयम् ॥
६. अस्तेय S. I (अस्तेय?) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org