________________
स्त्रीनिर्वाणप्रकरणम् । निर्ग्रन्था (न्थी) व्यपदेशः शास्त्रे सर्वत्र नैव युज्येत । उपधेर्ग्रन्थत्वेऽस्याः पुमानपि तथा न निर्ग्रन्थः ॥ १२ ॥ 'अपरिग्रह एव भवेद् वस्त्राभरणाद्यलङ्कृतोऽपि पुमान् । ममकारविरहितः, सति ममकारे सङ्गवान् नग्नः ॥ १३ ॥' आचार्याद्यासक्तं स्वयमादित नो मुमुक्षुका लोभात् । उपसर्गाद्यासक्तमिवाम्बरमपरिग्रहस्तस्याः ॥ १४ ॥ काय ममकारेऽपि च सपरिग्रह एव नैव मुक्तः स्यात् । तत्र यथा संलग्ने नो ममकारस्तथा वस्त्रे ॥ १५ ॥ ग्राम गेहं च विशन् कर्म च नोकर्म चाववानोऽपि । अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥ १६ ॥'
-- इति सङ्ग्रहार्याः । संसक्तौ सत्यामपि चोदितयत्नेन परिहरन्त्यार्या । हिंसावती पुमानिव न जन्तुमालाकुले लोके ॥ १७ ॥ गृहिणो ममत्वयोगात् संयमसाधनगृहीत्यभावाच्च । अयतं चरतश्चरणं न विद्यते तेन नो मोक्षः ॥१८॥ त्रिस्थानोक्ता दोषास्त्रयो[5]पदेशा यते[:] सचेलत्वे । अपरिषहसहिष्णुत्वं ह्रीश्च जुगुप्सा च देहस्य ॥१९॥ वस्त्रं विना न चरणं स्त्रीणामित्यहतीच्यत, विनापि । पुंसामिति न्यवार्यत, तत्र स्थविरादिवन्मुक्तिः ॥२०॥ अर्शीभगन्दरादिषु गृहीतचीरो यतिन मुच्येत । उपसर्गे वा चीरेऽङ्गादिः संन्यस्यते चान्ते ॥२१॥
१. एताश्चतस्रः सङ्ग्रहार्याः N. P. मध्ये न सन्ति ।। २. योगशास्त्रस्वोपज्ञवृत्तौ [२-१०६] उद्धतेयं कारिका पृ० १४२ B ३. योगशास्त्रस्वोपज्ञवृत्तौ [२-१०६] उद्धृतेयं कारिका पृ० १४३ A || ४. ०न्त्यार्याः N. P.॥ ५. इदं कारिकाद्वयं N. P. नास्ति ।। ६. अस्या मूलकारिकात्वे सन्देहः, टीकायामव्याख्यातत्वात् ।। ७. 'स्त्रयोपदेशाय ते सचेलत्वे' इति S. टिप्पणानुसारेण पाठः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org