________________
शाकटायनाचार्यविरचितं मुक्त्यङ्गमचेलत्वं नोच्येत तदन्यथा नरस्यापि । आचेलक्यायोग्याऽयोग्या सिद्धरदीक्ष्य इव ॥२२॥ इति जिनकल्पादीनां मुक्त्यङ्गानामयोग्य इति सिद्धेः । स्यादष्टवर्षजातादिरयोग्योऽदीक्षणीय इव ॥ २३ ॥ संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । योगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी ॥२४ ।। वस्त्राद् न मुक्तिविरहो भवतीत्युक्तं, समग्रमन्यच्च । रत्नत्रयान्न चान्यद् मुक्त्यङ्ग शिष्यते सद्भिः ॥ २५ ॥ प्रवाजना निषिद्धा क्वचित्त रत्नत्रयस्य योगेऽपि । धर्मस्य हानि-वृद्धी निरूपर्याद्भविवृद्धयर्थम् ॥ २६ ॥ अप्रतिवन्धत्वाच्चेत् संयतवर्गेण नायिकासिद्धिः । वन्द्यन्तां ता यदि तेनोनत्वं कल्प्यते तासाम् ॥ २७ ॥ सन्त्यूनाः पुरुषेभ्यस्ताः स्मारणवारणादिकारिभ्यः । तीर्थकराकारिभ्यो न तावता[5]सिद्धि रङ्गगतेः ॥२८॥ अर्हन् न वन्दते न च जिनकल्पादिरिति गणधरादीनाम् । प्राप्ताऽन्यथा[5]विमुक्तिः, स्थानं स्त्रीपुंसयोस्तुल्यम् ॥ २९ ॥ 'ये' यान्न मुक्तिभाजो वन्दन्ते ते तथैव मुच्यन्ते । इत्यप्यवन्दनं स्यानामोक्षोऽवन्दनात् तेन ॥३०॥'
इति सङ्ग्रहार्या । अपकृष्यते श्रिया स्त्री पुंसः सर्वत्र कि न तन्मुक्तौ । इत्यमुनाऽक्षेप्यस्त्रीपुंसाः सिद्धाः, सममरुक्त्वम् ॥३१॥ मायादिः पुरुषाणामपि देशादिप्रसिद्धयभावश्च । षण्णां संस्थानानां तुल्यो वर्णत्रयस्यापि ॥३२॥
१. ०रदीक्ष इव N. S. ॥ २. योग्ये N. ॥ ३. न च जिनकल्पादिरिति गणधरादीनाम्। अर्हन् न वन्दते न तावताऽसिद्धिरङ्गगतेः ।। P. || ४. 'अङ्गगतेः' शरीरगमनस्य अशरीरिभावस्येत्यर्थो भाति । अथवा 'अङ्ग' इत्यामन्त्रणे, 'गतेः' सिद्धिगतेरित्यर्थः॥ ५. इयं संग्रहार्या N. P. मध्ये नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org