________________
स्त्रीनिर्वाणप्रकरणम् ।
स्त्री नाम मन्दसत्त्वा मुक्त्यङ्गसमग्रता न तेनात्र । तत् कथमनल्पधृतयः सन्ति हि शीलाम्बुनिधिवेलाः ॥३३॥ 'ब्राह्मी सुन्दर्यार्या राजिमती चन्दना गणधरान्या[ :] । अपि देवासुरमहिता विख्याताः शीलसत्त्वाभ्याम् ॥३४॥ गार्हस्थ्यऽपि सुसत्त्वा विख्याताः शीलवतितमा जगति । "सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ॥ ३५॥ सन्त्यज्य राज्यलक्ष्मी पति-पुत्र-भ्रातृ-बन्धुसम्बन्धम् । पारिवाज्यवहायाः किमसत्त्वं सत्यभामादेः ॥३६॥ महता पापेन स्त्री मिथ्यात्वसहायकेन, न सुदृष्टिः । स्त्रीत्वं चिनोति, तन्न तदङ्गे पक्षपणेति निर्मानम् ॥३७॥ अन्तःकोटीकोटीस्थितिकानि भवन्ति सर्वकर्माणि । सम्यक्त्वलाभ एवाशेषाघक्षयकरो मार्गः ॥ ३८ ॥ 'अष्टशतमेकसमये पुरुषाणा'मादिरागमः सिद्धौ । स्त्रीणां, न मुख्ययोगे गौणोऽर्थो मुख्यहानिर्वा ॥३९॥ शब्दनिवेशनमर्थः, प्रत्यासत्या क्वचित् कयाचिदसः । तदयोगे, योगे सति शब्दस्यान्यः कथं कल्प्यः ॥ ४०॥
अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः, सति मुख्य धीः कथं गौणे ॥४१॥ स्तनजघनादिव्यङ्गये स्त्रीशब्दोऽर्थे, न तं विहायैषः ।
दृष्टः क्वचिद्, अन्यत्र त्वग्निर्माणवकवद् गौणः ॥४२॥ १. एतास्तिस्रः कारिका योगशास्त्रस्वोपज्ञवृत्तौ [३-१२०] उद्धृताः पृ० २०७ B ॥ २. देवमनुजमहिता: N. P. ॥ ३. न्यायावतारवातिकवृत्तौ [पृ० १२१] न्यायकुमुदचन्द्रे च [पृ० ८६९] उद्धृतेयं कारिका ॥ ४. शीता N. P. S. ॥ ५. सहाया: N. ॥ ६. क्षपणेऽपि P. ॥ ७. मुख्यहानं वा S. ॥ ८. दपि सः N. । 'दतः P. || ९. इयं कारिका P. नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org