________________
॥ श्रीशंखेश्वरपार्श्वनाथाय नमः ॥
॥ श्रीसद्गुरुदेवेभ्यो नमः ॥
पापनीयपतिसङ्काग्रणीभदन्तशाकटायनाचार्थविरचिते ॥ स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणे ॥
तत्राचं
॥ स्त्रीनिर्वाणप्रकरणम् ॥
प्रणिपत्य भुक्ति-मुक्तिप्रदममलं धर्ममहतो दिशतः । वक्ष्ये स्त्रीनिर्वाणं केवलिभुक्ति च सङ्क्षपात् ॥१॥ अस्ति स्त्रीनिर्वाणं पुंवद् यदविकलहेतुकं, स्त्रीषु ।
न विरुध्यते हि रत्नत्रयसम्पद् निर्वृतेर्हेतुः ॥२॥ १. अत्रेदमवधेयम् - N. प्रतौ P. प्रतौ च केवला मूलकारिका एव सन्ति । A. प्रतौ S. प्रतौ च टीकाप्यस्ति । तत्र सटीकायाम् A. प्रतौ S. प्रतौ च स्त्री निर्वाणप्रकरणस्यान्ते “इति स्त्री निर्वाणपरिच्छेदः समाप्तः" इत्युल्लेखो दृश्यते । केवलिभुक्तिप्रकरणस्यान्त्यभागस्तूभयोरपि A. S. प्रत्योर्न लभ्यते, अतस्तत्र किं लिखितं स्यादिति न ज्ञायते। अथापि N. P. प्रत्योः स्त्रीनिर्वाणप्रकरणान्ते "इति स्त्री निर्वाणप्रकरणं समाप्तम् ।" इति, केवलिभक्तिप्रकरणान्ते च "इति केवलीभक्तिप्रकरणं ॥ इति स्त्रीनिर्वाण-केवलीर्य (य) भुक्तिप्रकरणं (णे)॥ कृतिरियं भगवदाचार्यशाकटायनभदन्तपादानामिति ।।" इत्युल्लेखदर्शनादस्माभिरेवं नामोल्लेखोऽत्र विहितः। सटीकयोरनयोः प्रकरणयोः प्रारम्भे तु टीकायाम् ‘इति स्त्रीनिर्वाणपरिच्छेदः समाप्तः' इत्युल्लेखदर्शनात् 'स्त्रीनिर्वाणपरिच्छेदः' इति, तदनुसारेणैव च 'अथ केवलिभुक्तिपरिच्छेदः' इति नामोल्लेखोऽस्माभिविधास्यत इति ध्येयम् ॥
२. अत्रेदमवधेयम् -- टीकायां निर्दिष्टाः काश्चन कारिका: N. P. प्रत्यो व दृश्यन्ते। अपिच टीकायां व्याख्यानावसरे मूलकारिकाणां यः क्रम आदृतः सोऽपि N. P. प्रत्योरादृतात् कारिकाक्रमात् क्वचित् क्वचिद् भिद्यते । अतोऽस्माभिः S. प्रत्यनुसारेणैव कारिका निर्दिष्टाः क्रमश्च आदृतः; किन्तु इ. प्रतौ कुत्रापि मूलकारिकाणां संख्याङ्को न दृश्यते । केवलं पत्रत्रयमितायाम् A. प्रतौ स्त्रीनिर्वाणप्रकरणस्यान्त्यानां तिसणां कारिकाणामन्ते ५२, ५३, ५४ इत्यङ्काः क्रमेण दृश्यन्ते, अतस्तदनुसारेणैव कथञ्चित् सम्भाव्य पञ्चानां संग्रहार्याणां मूलकारिकासु समावेशं च विधाय ५२, ५३, ५४ तः प्राक्तनीमां मूलकारिकाणां संख्याङ्कस्तत्र तत्रास्माभिनिर्देक्ष्यत इत्यवगन्तव्यं सुधीभिः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org