Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 40
________________ स्त्रीनिर्वाणप्रकरणम् । स्त्री नाम मन्दसत्त्वा मुक्त्यङ्गसमग्रता न तेनात्र । तत् कथमनल्पधृतयः सन्ति हि शीलाम्बुनिधिवेलाः ॥३३॥ 'ब्राह्मी सुन्दर्यार्या राजिमती चन्दना गणधरान्या[ :] । अपि देवासुरमहिता विख्याताः शीलसत्त्वाभ्याम् ॥३४॥ गार्हस्थ्यऽपि सुसत्त्वा विख्याताः शीलवतितमा जगति । "सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ॥ ३५॥ सन्त्यज्य राज्यलक्ष्मी पति-पुत्र-भ्रातृ-बन्धुसम्बन्धम् । पारिवाज्यवहायाः किमसत्त्वं सत्यभामादेः ॥३६॥ महता पापेन स्त्री मिथ्यात्वसहायकेन, न सुदृष्टिः । स्त्रीत्वं चिनोति, तन्न तदङ्गे पक्षपणेति निर्मानम् ॥३७॥ अन्तःकोटीकोटीस्थितिकानि भवन्ति सर्वकर्माणि । सम्यक्त्वलाभ एवाशेषाघक्षयकरो मार्गः ॥ ३८ ॥ 'अष्टशतमेकसमये पुरुषाणा'मादिरागमः सिद्धौ । स्त्रीणां, न मुख्ययोगे गौणोऽर्थो मुख्यहानिर्वा ॥३९॥ शब्दनिवेशनमर्थः, प्रत्यासत्या क्वचित् कयाचिदसः । तदयोगे, योगे सति शब्दस्यान्यः कथं कल्प्यः ॥ ४०॥ अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः, सति मुख्य धीः कथं गौणे ॥४१॥ स्तनजघनादिव्यङ्गये स्त्रीशब्दोऽर्थे, न तं विहायैषः । दृष्टः क्वचिद्, अन्यत्र त्वग्निर्माणवकवद् गौणः ॥४२॥ १. एतास्तिस्रः कारिका योगशास्त्रस्वोपज्ञवृत्तौ [३-१२०] उद्धृताः पृ० २०७ B ॥ २. देवमनुजमहिता: N. P. ॥ ३. न्यायावतारवातिकवृत्तौ [पृ० १२१] न्यायकुमुदचन्द्रे च [पृ० ८६९] उद्धृतेयं कारिका ॥ ४. शीता N. P. S. ॥ ५. सहाया: N. ॥ ६. क्षपणेऽपि P. ॥ ७. मुख्यहानं वा S. ॥ ८. दपि सः N. । 'दतः P. || ९. इयं कारिका P. नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146