Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 36
________________ ॥ श्रीशंखेश्वरपार्श्वनाथाय नमः ॥ ॥ श्रीसद्गुरुदेवेभ्यो नमः ॥ पापनीयपतिसङ्काग्रणीभदन्तशाकटायनाचार्थविरचिते ॥ स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणे ॥ तत्राचं ॥ स्त्रीनिर्वाणप्रकरणम् ॥ प्रणिपत्य भुक्ति-मुक्तिप्रदममलं धर्ममहतो दिशतः । वक्ष्ये स्त्रीनिर्वाणं केवलिभुक्ति च सङ्क्षपात् ॥१॥ अस्ति स्त्रीनिर्वाणं पुंवद् यदविकलहेतुकं, स्त्रीषु । न विरुध्यते हि रत्नत्रयसम्पद् निर्वृतेर्हेतुः ॥२॥ १. अत्रेदमवधेयम् - N. प्रतौ P. प्रतौ च केवला मूलकारिका एव सन्ति । A. प्रतौ S. प्रतौ च टीकाप्यस्ति । तत्र सटीकायाम् A. प्रतौ S. प्रतौ च स्त्री निर्वाणप्रकरणस्यान्ते “इति स्त्री निर्वाणपरिच्छेदः समाप्तः" इत्युल्लेखो दृश्यते । केवलिभुक्तिप्रकरणस्यान्त्यभागस्तूभयोरपि A. S. प्रत्योर्न लभ्यते, अतस्तत्र किं लिखितं स्यादिति न ज्ञायते। अथापि N. P. प्रत्योः स्त्रीनिर्वाणप्रकरणान्ते "इति स्त्री निर्वाणप्रकरणं समाप्तम् ।" इति, केवलिभक्तिप्रकरणान्ते च "इति केवलीभक्तिप्रकरणं ॥ इति स्त्रीनिर्वाण-केवलीर्य (य) भुक्तिप्रकरणं (णे)॥ कृतिरियं भगवदाचार्यशाकटायनभदन्तपादानामिति ।।" इत्युल्लेखदर्शनादस्माभिरेवं नामोल्लेखोऽत्र विहितः। सटीकयोरनयोः प्रकरणयोः प्रारम्भे तु टीकायाम् ‘इति स्त्रीनिर्वाणपरिच्छेदः समाप्तः' इत्युल्लेखदर्शनात् 'स्त्रीनिर्वाणपरिच्छेदः' इति, तदनुसारेणैव च 'अथ केवलिभुक्तिपरिच्छेदः' इति नामोल्लेखोऽस्माभिविधास्यत इति ध्येयम् ॥ २. अत्रेदमवधेयम् -- टीकायां निर्दिष्टाः काश्चन कारिका: N. P. प्रत्यो व दृश्यन्ते। अपिच टीकायां व्याख्यानावसरे मूलकारिकाणां यः क्रम आदृतः सोऽपि N. P. प्रत्योरादृतात् कारिकाक्रमात् क्वचित् क्वचिद् भिद्यते । अतोऽस्माभिः S. प्रत्यनुसारेणैव कारिका निर्दिष्टाः क्रमश्च आदृतः; किन्तु इ. प्रतौ कुत्रापि मूलकारिकाणां संख्याङ्को न दृश्यते । केवलं पत्रत्रयमितायाम् A. प्रतौ स्त्रीनिर्वाणप्रकरणस्यान्त्यानां तिसणां कारिकाणामन्ते ५२, ५३, ५४ इत्यङ्काः क्रमेण दृश्यन्ते, अतस्तदनुसारेणैव कथञ्चित् सम्भाव्य पञ्चानां संग्रहार्याणां मूलकारिकासु समावेशं च विधाय ५२, ५३, ५४ तः प्राक्तनीमां मूलकारिकाणां संख्याङ्कस्तत्र तत्रास्माभिनिर्देक्ष्यत इत्यवगन्तव्यं सुधीभिः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146