Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 45
________________ काव्यम् श्रीपाल- एकदा ष्ठीव्यते लोकैरेकदा पूज्यते च तैः । न स्थिरा सर्व-संयोगा गहना कर्मणां गतिः ॥२९८॥ मयणामृत-8 राजमार्गे हयारूढो यावद्गच्छति चैकदा । "कोऽस्ति देवकुमारोऽसौ" पृच्छति कोऽपि नागरः ॥२९९॥ नृपजामातृत्वे श्रीपालस्य निर्वेदः विदेशाटनं च • "जामातास्ति नरेन्द्रस्या" वदल्लोकः पथि स्थितः । निशम्य तस्य वाक्यं स प्रत्येत्य गृहमागतः ॥३०॥ | सविषादं कुमारं तं दृष्ट्वा पृच्छति तज्जनिः । किं व्याधि बर्बाधते कोऽपि वपुषि वत्स वर्णय ॥३०१॥ | केनापि खण्डिताज्ञा किं केनाप्यनादरः कृतः । मदनाऽविनया किं वा कथं म्लानं तवाननम् ॥३०२॥ विद्यतेऽमीषु हे मात ! ह्येकमपि न कारणम् । तथापि श्रूयतामास्यं निष्प्रभं केन हेतुना ॥३०३॥ पित्रो नाम्ना गुणैर्नास्ति ख्यातिनिजै र्गुणै र्मम । किन्तु नृपस्य जामाताऽस्मीति श्वासुरकै र्गुणैः ॥३०४॥ उत्तमाः स्वगुणैः ख्याताः पितृगुणैश्च मध्यमाः । अधमाः मातुलैः ख्याताः श्वसुरैश्चाधमाधमाः ॥३०५॥ अम्बा वदति हे पुत्र ! निःशल्यं कुरु चोच्चलम् । गृहीत्वा पितृराज्यं त्वं संगृह्याथ चतुश्चमूम् ॥३०६॥ १. उच्चलम् = चित्तम् । 眾飄飄飄飄飄飄飄飄飄飄飄靈靈靈靈靈靈 盟盟飄飄盪盪强强强强强强强盟强强强强靈盟飄盪盤露露器 Jain Education Inter 11 2010_05 For Private & Personal use only ajainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146