Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 141
________________ काव्यम् श्रीपालमयणामृत 靈器靈靈靈靈靈靈靈靈靈靈飄飄飄靈靈靈靈靈靈靈靈靈靈靈認 भव्याब्जान् कुमार्गं च बोधयश्च निवारयन् । तत्रतो व्यचरन्मह्यां वीर जिनो दिनेशवत् ॥११२८॥ नवपदप्रभावस्य कथाऽपूर्वा प्रकाशिका । पठतां श्रृण्वतां नित्यं करोतु सर्व-मङ्गलम् ॥११२९॥ व्याकरणं नैव जानामि तत्त्वं जानामि नैव हि । अबुधोऽस्मि ततः विद्भिः क्षन्तव्या स्खलना मम ॥११३०॥ * यदक्षर-परिभ्रष्टं मात्रा-हीनं च यद् भवेद् । क्षन्तव्यं तद् बुधैः सर्वं कस्य न स्खलना भवेद् ॥११३१॥ केवलं भक्तिभावेन मया कथा प्रगुम्फिता । स्वाध्याये सिद्धचक्रस्य भवनिस्तारकारणम् ॥११३२॥ अथ प्रशस्तिः श्री सूर्यपुरतः सो महोत्साहेन प्रस्थितः । सम्मेत-शैलयात्रार्थं 'छ-रि' पालन-तत्परः ॥११३३। • आगमोद्धारकदीक्षा-शताब्दे-शुभ-वासरे । स्फार-संख्यैः सुसंयुक्तः श्रमणादि-चतुर्विधैः ॥११३४॥ | तदा विहारमध्ये तु स्थित्वा तरुतलेषु हि । कथा-काव्यमिदं रम्यं रचितं च कियद्-दिनैः ॥११३५॥ 靈靈靈靈靈靈靈靈靈靈驗盟靈靈靈靈靈靈靈靈靈靈靈靈靈靈 Jain Education Inter 18 2010-05 For Private & Personal Use Only लाwjainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146