Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 143
________________ काव्यम श्रीपालमयणामृत गुरोर्धाता गणेशो यः श्रीजिनचन्द्रसागरः । तेन सम्प्रेरितोऽस्म्यत्र श्रान्तोऽहं च यदा यदा ॥११४६॥ वसु-वह्नि-वियद्-बाहु-श्रीमद्विक्रम-वत्सरे । चातुर्मासं कृतं पुर्यां चन्द्रावत्यां त्रिसाधुभिः ॥११४७॥ वाचकस्य विनेयो यः श्रीपूर्णानन्दवारिधिः । बहुश्रुतो वयोवृद्धस्तत्त्वज्ञो हितचिन्तकः ॥११४८॥ | प्रेरितो पठितुं तेन श्रीश्रीपाल-कथां वरां । या पुराचार्य-हेमेन्दुश्चक्रे गीर्वाण-भाषया ॥११४९॥ अबुधेन मया सापि प्रथमं पठिता यदा । तदा कृतः सुसङ्कल्पः श्रीगुरूणामनुकम्पया ॥११५०॥ अधुना पूर्णतां प्राप्तं कथाकाव्यमिदं मम । नमस्कार-महामन्त्र-सारेण फलितं शुभम् ॥११५१॥ पठतां श्रृण्वतां नित्यं कल्याणं करुतात् सदा । श्रीश्रीपाल-कथाकाव्यं जयताज्जिन-शासने ॥११५२॥ 蠻蠻蠻蠻蠻靈飄飄飄飄靈靈靈靈靈靈靈靈靈認需 飄飄飄靈靈靈靈靈飄飄飄飄飄飄飄飄飄靈靈靈靈感 तैलाद् रक्षेज्जलाद् रक्षेद् रक्षेच्छिथिलबन्धनात् । परहस्तगतां रक्षेदेवं वदति पुस्तिका ॥ उदकाऽनलचौरेभ्यो मुर्खकेभ्यस्तथैव च । रक्षणीया प्रयत्नेन एवं वदति पुस्तिका ॥ Jain Education Intern 2010-05 For Private & Personal use only vw.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146