Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 142
________________ श्रीपाल - मयणामृत Jain Education Inter XX चरमतीर्थपतेः श्रीवीरस्य पञ्चमान्मुदा । श्रीसुधर्मागणाधीशाद् द्वासप्ते तु पट्टके ॥११३६ ॥ 'तपा 'गच्छाधिपो लोके सूरिरानन्दसागरः । आगमोद्धार - कर्त्तृत्वादागमोद्धारको ऽभवत् ॥ ११३७॥ पट्टप्रभावकस्तस्य नमस्कार - प्रभावकः । वर्धमान - तपोमूर्तिः सूरिः श्रीचन्द्रसागरः ||११३८ ॥ तत्पट्टे संस्थितः श्रीमान् धर्मसागर - वाचकः । शुद्धाचार-विचाराणां यः प्रवर्तयिता भृशम् ॥११३९॥ तच्छिष्यस्त्वभयाब्ध्याख्यः सर्वागम-विशारदः । लीनः सदा महामन्त्रे सर्वशास्त्र - विचक्षणः ॥११४०॥ तच्छिष्याशोकवाद्धिश्च शोभते यः प्रकृष्टधीः । पन्यासपदधारी यः सदाऽशोकी च वर्तते ॥ १९१४१ ॥ तच्छिष्यः सुप्रसिद्धोऽस्ति व्याख्याने परमः पटुः । हेमचन्द्रोदधिर्नाम्ना ख्यातो गणिवरः क्षितौ ॥११४२॥ तदीयाss - सुशिष्येण रचितं सुगमं मुदा । सिरि- सिरिवाल - कहाऽनुसारं काव्यमुत्तमम् ॥ ११४३॥ मुनिकल्प - नभो - नेत्रमिते वैक्रमवत्सरे । राधे मासि सिते पक्ष एकादश्यां सुवासरे ॥११४४॥ सम्मेत- शैलतीर्थे च सङ्घमाला - दिने शुभे । श्रीश्रीपाल - कथाकाव्यं प्रत्यूषे पूर्णतां श्रितम् ॥ ११४५ ॥ 2010 05 For Private & Personal Use Only काव्यम् १३१ or jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146