Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
श्रीपाल - मयणामृत
283 284 285 286 287 2888888
Jain Education Interna
साध्नुवन्ति त्रिभी रत्नैः सावधान - तया शिवम् । विमुक्ताः मन्युमुद्भ्यां येऽप्रमत्तास्ते हि साधवः ॥१११९॥ काव्यम् मोहक्षायोपशम्यत्वात् शमादिपञ्च - लक्षणम् । विशुद्ध- परिणामं यत् स्वात्मनो दर्शनं ध्रुवम् ॥ ११२०॥ यज् ज्ञानावरणीयस्य क्षयोपशम-भावतः । शुद्धावबोधस्तत्त्वानां ज्ञानमात्मनि कथ्यते ॥ ११२१ ॥ कषायनोकषायै र्यद् विकलं शुद्ध-लेश्यकम् । निज - भाव स्थितात्मत्वमेव चारित्र मुच्यते ॥ ११२२ ॥ इच्छानिरोधत: शुद्ध-संवर-सम-भावतः । कर्मणां निर्जरां कुर्वन्नात्मैव प्रोच्यते तपः ॥ ११२३ ॥ संज्ञाय चेवमात्मानं नवपदमयं जनाः । श्रीपालवत्स्युस्सदा यूयं स्वात्मसंलीनमानसाः ॥११२४॥ इत्याकर्ण्य सुमाहात्म्यं नवपदस्य विस्तृतम् । तेन प्रोगत - रोमाञ्चो भावोर्मिपूर्ण मानसः ॥ ११२५॥ नवपद्यैवं मे ह्यात्मा तत्वत्रयी मता बुधैः । प्रकृष्ट-पुण्य-हेतुत्वात्तद्ध्यानात्तन्मयोऽस्महम् ॥११२६॥ इति प्रतीत्य भूपालः श्रेणिकः सत्त्व तत्त्वदृक् । परमानन्द-मग्नः स स्वीयं धाम जगाम सः ॥ ११२७ ॥ १. शोक । २. आनन्द |
2010 05
For Private & Personal Use Only
१२९
XXww.jainelibrary.org

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146