Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत
飄飄飄飄飄飄靈飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄
विराध्याराध्य लब्धानि पञ्चमं पदमेव हि । रुक्मणिरोहिणीभ्यां हि दुःखानि च सुखानि च ॥११०१॥ सम्यग्दर्शनशुद्धत्वात् श्लाघनीयाः सतामपि । कृष्णसत्यकि-मुख्यास्ते नारीषु सुलसा सती ॥११०२॥
सम्यग्ज्ञानं समाराध्य जाता शीलवती बुधा । विराधना-फलं प्राप्तं माषतुषेन साधुना ॥११०३॥ | भवे शिवकुमारस्य लब्ध्वा चारित्रमुत्तमम् । भूत्वा जम्बूकुमारश्च सुखेनाप्तं शिवं पदम् ॥११०४॥ | नवमं पदमाराध्य सिद्धचक्रस्य सम्मदात् । वीरमत्या तु सम्प्राप्तं धर्मामरद्रवः फलम् ॥११०५॥
हे ! राजन् ! किं बहूक्तेन ह्यस्याराधनया खलु । तीर्थकरस्त्वमागामि-भवे नूनं भविष्यसि ॥११०६॥ | एवं गणेश्वरो यावद् विरतो देशनाद् विभुः । श्रेणिकेशपुरस्तावच्चतु नविभाकरः ॥११०७॥ नरः कोऽपि समागत्य वर्धापयति भूपतिम् । श्रीवीरागमनोदन्तै र्दानं नृपोऽपि दत्तवान् ॥११०८॥ वीरप्रभोः देशना
盟靈靈靈靈靈飄飄飄飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈器
१. द्रवः = दु ६-१ ।
१२७
Jain Education Inter
2010.05
For Private & Personal use only
ainelibrary.org

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146