Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈激
स्तुत्वैवं च नमस्कृत्याऽजितसेनं मुनि नृपः । स्थापयति पितृस्थाने तस्य पुत्रमनन्तरम् ॥९१६॥ प्रादिशत् पितृ-साम्राज्ये ह्यन्तर्विगाहनाय च । नृपामात्यादयः सर्वे सज्जीभूता महामहैः ॥९१७॥ ततः स्नानादिकं कृत्वा सुरभिणाऽथ वारिणा । हरिचन्दन-लिप्ताङ्गः श्वेताम्बर-विराजितः ॥९१८॥
मुकुटाद्यैरलङ्का-रैर्भूषितः कृत-मङ्गलः । नारीगीतरवापूर्णदिगन्तश्छत्र-शोभितः ॥९१९॥ | वाद्यमानोरुवादित्रो भट्टोद्धष्ट-जयारवः । वरकुञ्जरमारूढो बहुनृपैः समावृतः ॥९२०॥ | श्रीपालस्य चम्पापुरीप्रवेशः राज्यपालनं च
चम्पापुर्यां मुहूर्तेऽथ श्रीपालाधिपतिः क्रमात् । देवपुर्यामिवेन्द्रोऽथ प्रविशति महामहैः ॥९२१॥ | पश्यन् नगर-शोभां च जनहर्षोद्भवां खलु । नृपास्थानीप्रविष्टोऽथ नागरभिनन्दितः ॥९२२॥ स्थापयित्वा पितुः पट्टे तत्र सर्वैनरेश्वरैः । कृतो राज्याभिषेकश्च नागरैरपि नन्दितः ॥९२३॥ प्रस्थाप्य पट्टराज्ञीत्वे सती मदन-सुन्दरीम् । लघुपट्टाभिषेकञ्च शेषाणां कृतवान्नृपः ॥९२४॥
跟露露器强强强强强强靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈露出
१०५
SRw.jainelibrary.org
Jain Education Inte
l
For Private & Personal Use Only
2010 05

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146