Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 130
________________ श्रीपाल - मयणामृत 'षट्कारणेच्छुना चक्रे कायोत्सर्गस्त्रियोगतः । निवृत्यैवं महीनाथः विस्तृतभाव-पूजनात् ॥ १०२८ ॥ मङ्गलैर्वाद्य-निस्वानैः शासनं च प्रभावयन् । साधर्मिकस्य वात्सल्यं सङ्घपूजां करोति च ॥ १०२९ ॥ ( युग्मम् ) एवं क्षितीश्वरः पट्ट- देव्यादिसज्जनैर्युतः । श्रद्धया सिद्धचक्रं स नित्यमाराधयद् भृशम् ॥१०३०॥ सुता भुवनपालाद्यास्तस्यासन् नव संख्यकाः । राज्ये गज - रथानां च सहस्त्रनवकं स्थितम् ॥१०३१ ॥ नवलक्ष-तुरंगानां पत्तीनां नवकोट्यः । नव शतानि वर्षाणि नीत्याराज्यमपालयत् ॥१०३२॥ पुत्रं भुवनपालाख्यं श्रीपालो महपूर्वकम् । राज्यपीठेऽथ संसिक्तः योगक्षेम वह क्षमं ॥१०३३॥ निवृत्तो राज्य कार्येषु संलीनो धर्म-कर्मसु । स्वान्ते स्फटिक - संकाशे स्तौति नवपदं यथा ॥१०३४॥ नवपदस्तुति: ( तात्त्विकचिन्तनम् ) तृतीयस्मिन् भवे येन जिनगोत्रमुपार्ज्यते । संसेव्य - विंशतिस्थानं तमर्हन्तं नमाम्यहम् ॥१०३५॥ चतुर्दशमहास्वप्नैः सूच्यन्ते यस्य सद्गुणाः । राजकुले हि सूते यस्तमर्हन्तं नमाम्यहम् ॥१०३६॥ १. 'वंदणवत्तियाए' इत्यादि - षट्कारणानि (निमित्तानि ) Jain Education Intel 2010_05 For Private & Personal Use Only काव्यम् ११९ vodww.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146