Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
श्रीपालमयणामृत
काव्यम्
欢發飄飄盟毁毁毁靈靈激器靈飄飄飄飄飄飄蒙蒙激發靈驗
सकृद्वा पञ्चकृत्वोवाऽसंख्य-कृत्वो भवे क्रमात् । यद् भव्यै र्लभ्यते तस्मै दर्शनाय नमो नमः ॥१०७१॥ पुद्गलार्धपरावृत्तिः यन्मात्र-स्पर्शनात्खलु । शिष्टा भवस्थितिस्तस्मै दर्शनाय नमो नमः ॥१०७२॥ येन विनाऽप्रमाणं हि ज्ञानं च चरणं मुधा । मोक्षस्यासम्भवस्तस्मै दर्शनाय नमो नमः ॥१०७३॥ भक्ष्य-पेय-सुकृत्यानां सेतरेषां प्रबोधकम् । हेयोपादेय तत्त्वानां चार्हज्ज्ञानं प्रणौमि तद् ॥१०७४॥ अष्टाविंशति-भेदैश्च चत्वारिंशत्शतैस्त्रिभिः । यज्ज्ञानं भ्राजते धुर्यं मतिज्ञानं नमामि तद् ॥१०७५॥
श्रुतज्ञानं महाज्ञानं शासनं येन तिष्ठति । चतुर्दशप्रकारैर्यच्छोभते तन्नमाम्यहम् ॥१०७६॥ | यदवधिविभौ च सम्यग्मिथ्याविभेदतः । सप्तधा ह्यागमे प्रोक्तं तज्ज्ञानाभ्यां नमोऽस्तु मे ॥१०७७॥
यस्याधिकारमात्रेण सम्यक्त्वं दृश्यते खलु । विपुल द्विधाभिन्नं ज्ञानं तुर्यं नमाम्यहम् ॥१०७८॥ | सर्वकर्मक्षयप्राप्यमुपयोगद्वयान्वितम् । सूर्यकोटीप्रभादीप्रं-केवलं तन्नमाम्यहम् ॥१०७९॥ जिनेन्द्रैः प्रतिपन्नं यत्परिपाल्य प्ररूपितम् । पुनः प्रदत्तमन्येभ्यस्तच्चारित्रं नमाम्यहम् ॥१०८०॥
网張靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈駕飄飄盪盪蜜蜜露
१२४
Jain Education InterX
2010_05
For Private & Personal use only
wjainelibrary.org

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146