Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 114
________________ काव्यम् श्रीपालमयणामृत 激飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈飄飄 तत्सङ्ग्रामे प्रभज्यन्ते रथाः पर्पटवत् तयोः । भिद्यन्ते हस्तिनस्तत्र कुष्माण्डफलवत् तथा ॥८९९॥ च्छिद्यन्तेऽश्वगणाः सर्वैश्चिर्भटीवद्भटैस्तदा । म्रियन्ते सुभटास्तत्र 'कृत्यन्ते हा ! यथाऽर्जुनम् ॥९००॥ भग्नां सेनां निजां दृष्ट्वा जितसेन धराधरः । शीघ्रमुत्थाय युद्धार्थं रिपुसेनां प्रतर्जितः ॥९०१॥ यावद् शत्रुभटाँस्तत्र संहरति कृतान्तवत् । लघुभूपशतेनाथ सप्तभिः संप्रवेष्टितः ॥९०२॥ तमधः पातयित्वाथ जीवन् बद्धश्च लीलया । उपश्रीपालमानीतस्तेनापि स विमोचितः ॥९०३॥ वक्ति भूपोऽपि हे तात ! सङ्क्लेशं मा विचिन्तय । किन्तु स्वकीय-भूमि त्वं भुङ्क्षव सौख्येन पूर्ववत् ॥९०४॥ श्रुत्वा तद्वचनं राजाऽजितसेनो व्यचिन्तयत् । अविमृष्टं कृतं कार्यं हा हा किं भावि मामकम् ॥९०५॥ वृद्धोऽप्यहं महापापी परद्रोह-परायणः । परोपकार-रक्तोयं पुनर्बालोऽपि सात्त्विकः ॥९०६॥ • गोत्र-राज-शिशुद्रोहै-नश्यत्यनुक्रमेण हि । कीर्ति-नीतिः सुगत्यादि र्हा व गच्छामि साम्प्रतम् ॥९०७॥ १. कृत्-कर्तने । २. अर्जुनम्-तृणम् । १०३ _Jain Education interEST 2010_05 For Private & Personal Use Only Jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146