Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 112
________________ श्रीपाल - मयणामृत प्रेषयत्यथ भूनाथः पितृराज्याप्तिमिच्छुकः । स्वपितृव्यं प्रतिक्ष्मापं दूतं नाम्ना चतुर्मुखम् ॥८८१॥ गत्वा चम्पां भ्रमँस्तत्र पुरशोभां च पश्यति । शृत्वाऽभिख्यां स्वनाथस्य पितॄणां स प्रमोदितः ॥८८२ ॥ संभाषते सदो गत्वाऽजितसेनं नराधिपम् । श्री श्रीपाल - नरेन्द्रस्य कीर्ते वृद्धि र्भवेद्यथा ॥८८३ ॥ पित्रास्थापि पदे बालो वसुधा वहनेऽक्षमः । इति ज्ञात्वा सुतो भातुस्त्वया प्रोत्थापितः पदात् ॥८८४॥ कुशलत्वं तु तस्याद्य विद्यते राज्य - पालने । रक्षणायास्ति तत्पार्श्वे बलमप्यतुलं तथा ॥८८५ ॥ वन्द्यते राज-राजेन्द्रैः स भक्तै भगवान् यथा । क्षति र्न कोऽपि मे नाथे ततो राज्यं प्रदीयताम् ॥८८६ ॥ भूपोऽप्यजितसेनश्च प्रोचे निशम्य तत्कथाम् । क्रोधाग्निज्वालया दग्धो वह्निना दारुवत्तदा ॥८८७॥ बालकोऽयमिति ज्ञात्वा मुक्तोऽस्ति कृपया मया । किं न संस्मर्यते तेनापकारो खलु मे महान् ॥८८८ जीवस्तदा विमुक्तस्स क्षति र्हा हा कृता मया । मुक्तो बाल-फणी काले महाफण-धरो भवेत् ॥८८९ ॥ रुष्टोऽस्ति यमराजोऽद्य नूनं तव प्रभुं प्रति । सिंहवच्च प्रबुद्धोऽस्मि शत्रुं हन्तुं समुद्यतः ॥८९०॥ Jain Education Inter0032010_05 For Private & Personal Use Only 8888888 काव्यम् १०१ jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146