Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
683
श्रीपाल- Wl इत्येवं बोध्यमानोऽपि सन्तोषरहितो नृपः । मृगयार्थं गतः सप्त-शत-वण्ठै र्वने तदा ॥९५०॥ मयणामृत
* धर्मध्वजयुतं तत्र मुनि प्रेक्ष्य नृपोऽवदत् । कश्चामरकरोऽत्राऽयं कुष्ठिरूपश्च दृश्यते ॥९५१॥ | नृपवाक्याच्च वण्ठैस्तै मुनिश्रेष्ठ उपद्रुतः । श्वेव विताड्यते साधुः क्षमावाँल्लोष्टु-यष्टिभिः ॥९५२॥
यथा यथा मुनिश्रेष्ठस्ताड्यते स्म तथा तथा । प्रावर्धत रसः शान्तः स्वभावालम्बनेन हि ॥९५३॥ | भूपते हृदि वर्धन्ते हर्षोर्मय इवोदधौ । सत्कारयन्ति ह्यात्मानं कृत्वाऽप्यागांसि पापिनः ॥९५४॥ | तथान्यस्मिन्दिनेऽगच्छदाखेटाय स कानने । मुनिमेकं नृपोऽपश्यत्सरितायाः तीरे स्थितम् ॥९५५॥ | तं प्रेक्ष्याथ मुनि शान्तं कराभ्यां सहसा नृपः । पातयित्वा सरिन्नीरे न्यकार्षीत् त्वरितं तथा ॥९५६॥
गृहमागत्य देवी सा ज्ञापिता ऋजुभावतः । तयापि बोधितस्तत्र मधुरवचनै र्यथा ॥९५७॥ | अन्येषामपि जीवानां पीडा तु दुःखदा खलु । पुनर्नूनं मुनीनां तु हा ! दारुण-फल-प्रदा ॥९५८॥ मुनिघातस्तु जन्तूनां दीर्घ-संसार-कारणम् । भवेच्च दुर्लभा बोधिरेवमुक्तं जिनागमे ॥९५९॥
靈靈靈靈綴飄飄飄飄飄飄飄强强强强强强臨
१०९
___JainEducation inm
2
010_05
For Private Personal use only
voww.jainelibrary.org

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146