Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत
靈器靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈跟靈靈靈爆强网
कुमारणोज्जीविता कन्या राज्ञा विवाहिता कथयित्वाऽथ तद्वृत्तं महासेनः पिता सुधीः । स्वपुत्री दत्तवान् तस्मै कुमाराय रसेश्वरः ॥८१७॥ एवमष्ट-प्रियायुक्तः स्वमातुर्नति-तत्परः । मदन-सुन्दरी-संग-समुत्सुकमना हि सः ॥८१८॥ वधू-वरूथिनीयुक्तः प्रयाति मालवं प्रति । देशान् जित्वा महाराष्ट्र-सौराष्ट्र-लाटकान् पथि ॥८१९॥ वर्धितवारिकुल्या'वत् स्वबलौघ-विवर्धितः । एवं श्रीपाल-भूपेन्द्रः प्राप्तवान् मालवान् क्रमात् ॥८२०॥ पर-चक्रागमं श्रुत्वा मालवेन्द्रश्चराननात् । घृत-धान्यादि सङ्गृह्य बलानि स्वानि सज्जति ॥८२१॥ नृपादेशेन रक्ष्यन्ते गोपुराण्यपि सर्वतः । धावमानै जनै भीत्या जातः कोलाहलः पुरे ॥८२२॥ ततः श्रीपाल-सैन्येन दुर्गस्तु परिवेष्टितः । आद्यो जम्बूद्वीपो वृत्तो लवणोदधिना यथा ॥८२३॥ एवमावासिते सैन्ये स्वयं यामे निशादिमे । श्रीपालो व्योम-मार्गेण प्राप्तवान् मातृ-मन्दिरम् ॥८२४॥ १. वरूथिनी = सैन्यम् । २. कुल्या = नदी ।
盟飄飄飄飄飄飄飄飄飄靈飄飄盟飄飄盪盪盤盤靈靈靈靈靈盟网
ARTwiainelibrary.org
Jain Education in
2010/05
For Private & Personal Use Only

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146