Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 102
________________ काव्यम् श्रीपालमयणामृत 靈靈靈靈靈靈靈靈蒙蒙蒙蒙眾激靈跟靈靈靈靈靈靈靈靈靈靈靈 प्रेषयति नरान् स्वस्य स्त्रीणामानयनाय सः । ताश्च स्वभ्रातृभिः सार्धं तत्रायाताश्च सत्वरम् ॥७९८॥ क्रमेणाथ कुमारोऽपि स्वपरिवार-सङ्कलः । ससैन्यः प्राप्तवान् स्थानाभिधानं नगरं मुदा ॥७९९॥ कुमारस्य श्रियं दृष्ट्वा प्रीणात्यैवं स मातुलः । दृष्ट्वा कान्तं कान्तायुतं मदनापि प्रमोदिता ॥८००॥ | राज्यकार्ये क्षमं ज्ञात्वा जामातरं महोत्सवैः । निजराज्येऽभ्यषिञ्चत्तं वसुपालोऽपि मातुलः ॥८०१॥ राजेव राजते राजा मुकुटच्छत्र-चामरैः । स नरश्रेष्ठः सामन्त-मन्त्र्याद्यैश्च प्रणम्यते ॥८०२॥ उज्जयिनीमार्गन्तःसोपारके तिलकसुन्दरीवृत्तान्तः | कालान्तरेण चाल्पेन चचालोज्जयिनी प्रति । श्रीपालो मातृनत्यर्थं चतुरङ्गचमूयुतः ॥८०३॥ श्रीपाल-नरनाथाय भुवः सारं प्रढौक्यते । पदे पदे नरेन्द्राद्यैः पुण्यकर्म-प्रभावतः ॥८०४॥ सुखं सुखं प्रयाणैः स प्राप्तः सोपारकं पुरम् । राजतेऽत्र महासेनो महासेनो नरेश्वरः ॥८०५॥ ॐ भक्तिर्न दर्शिता तेन श्रीपालो पृष्टवानतः । सिद्धचक्र-प्रभावेण सर्वपूज्यो तथापि हि ॥८०६॥ 靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈燃靈靈靈鐵路 Jain Education Inter 201005 For Private Personal use only

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146