Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 94
________________ काव्यम् श्रीपालमयणामृत 靈靈靈靈靈靈蒙蒙蒙靈靈靈靈靈靈靈飄飄飄飄飄靈靈靈驗 मार्गोऽस्ति चात्रतस्तस्य त्रिंशद्योजनमानकः । श्रुत्वा व्यसर्जयत् तस्मै प्रदाय कंठ-मण्डनम् ॥७३२॥ कुमारः कुब्जरूपेण हारतः काञ्चने पुरे । गत्वा मण्डपमास्थित्य कलां च तस्य पश्यति ॥७३३॥ राजमानां सभासीनां भूषितां रत्न-भूषणैः । राजमालां भ-मालां च गगने वरमण्डपे ॥७३४॥ तन्मण्डपे प्राविशन्द्वार-पालेन वारितो यदा । सुवर्ण-वलयं दत्त्वा वारितं स्वप्ररोधनम् ॥७३५।। प्रविश्याऽथ निषण्णश्च तत्रोपशालभञ्जिकाम् । प्रेक्ष्य तत्कुब्जकं रूपं पृच्छन्ति तं नरेश्वराः ॥७३६॥ आगतोऽसि कथं कुब्ज ! त्वमत्र राज-मण्डपे । वक्ति कुब्जोऽपि तेभ्यस्तु प्रसन्नास्यः प्रमोदतः ॥७३७॥ येन कार्येण सर्वेऽपि यूयं सम्मीलिता इह । नरेशा: केवलं तस्मै कार्यायैवाहमागमम् ॥७३८॥ भूपेन्द्रास्तं हसित्वोचुः कंदर्प-रूपवानहो । धन्या तदैव कन्यैषा सुरूपं त्वां वरिष्यति ॥७३९॥ रम्भारूप-धरा तत्र कुमारी शिबिकास्थिता । पुष्पमालाधरा धन्या शुभ्र-वस्त्रा समागता ॥७४०॥ निसर्ग-स्वरूपं प्रेक्ष्य श्रीपालस्य प्रशंसति । निजात्मानं "महाधन्याऽद्वितीयाऽस्मीति विष्टपे ॥७४१॥ 幽靈靈靈靈蒙蒙蒙蒙蒙靈靈靈靈靈靈靈飄飄飄靈靈靈激激 _Jain Education inte| ForLijainelibrary.org For Private & Personal Use Only 1 2010_05

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146