________________
છતાં હું ચારિત્રવાનું કહેવાઉં છું પરંતુ ગૃહસ્થ કહેવાતો નથી માટે કથંચિત્ અભિન્ન પણ છે માટે ક્રિયા અને કર્તા (ક્રિયાવાનું) ભિન્નભિન્ન છે એકાંતે ભિન્ન કે અભિન્ન માનવા જશો તો અમુક ચોક્કસ વ્યવહારનો નાશ થશે.
कश्चिदाह-कल्पनाशिल्पिनिर्मिता सर्वाऽपि प्रमाणफलव्यवहतिरिति विफल एवायं प्रमाणफलालम्बनः स्याद्वादिनां भेदाभेदप्रतिष्ठोपक्रम इति तन्मतमिदानीमपाकुर्वन्ति
પ્રમાણ અને તેના ફળનો વ્યવહાર કલ્પિત છે એમ કોઈક વાદિનો મત છે તેનું ખંડન જણાવે છે.
संवृत्या प्रमाण-फलव्यवहार इत्यप्रामाणिकप्रलापः,. परमार्थतः स्वाभिमतसिद्धिविरोधात् ॥ ६-२१ ॥ ..
સૂત્રાર્થ- પ્રમાણ અને ફળનો વ્યવહાર કલ્પના વડે જ કરાયેલો છે એમ કોઇ કહેતો એ અપ્રમાણિક માણસનું પ્રલાપ (બકવાશ).માત્ર જ છે વાસ્તવિક शते पोताना टनी सिद्विभा विरो५ माये छ. . .
नन्वयं प्रमाण-फलव्यवहारः संवृत्या-कल्पनयैव भवति न तु परमार्थतोऽस्ति तस्माद् व्यर्थ एव तद्विषयकभेदाभेदविचार इति चेत्, न, प्रमाणफलव्यवहारस्य काल्पनिकत्वाङ्गीकारे वस्तुतः स्वाभिमतसिद्धिरेव न स्यात्, तथाहि-भवता-प्रमाण-फलव्यवहारस्य काल्पनिकत्वं परमार्थवृत्त्याऽङ्गीकरणीयम्, अन्यथा स्वेष्टविधातः स्यात् । तच्च काल्पनिकत्वं प्रमाणात् स्वीक्रियते, अप्रमाणाद् वा ? न तावदप्रमाणात्, तस्य स्वाभिमतसिद्धिं प्रत्यकिञ्चित्करत्वात् । यदि प्रमाणात, तदपि प्रमाणं काल्पनिकम्, अकाल्पनिकं वा? यदि काल्पनिकं तर्हि कथं काल्पनिकात् प्रमाणात् प्रमाणफलव्यवहारस्य परमार्थतः काल्पनिकत्वसिद्धिः? तथा च प्रमाणफलव्यवहारस्य सत्यत्वमेवायातम्, यदि अकाल्पनिकं प्रमाणफलग्राहकं प्रमाणं तर्हि 'सर्वोऽपि प्रमाणफलव्यवहारः काल्पनिकः' इति प्रतिज्ञाविरोध: एकत्र प्रमाणस्याकाल्पनिकत्वस्वीकारात् । तस्मात् प्रमाणफलव्यवहारः परमार्थभूत एवाभ्युपगन्तव्य इति ॥ २१ ॥
વિશેષાર્થ-આ જગતમાં પ્રમાણ અને પ્રમાણફળનો વ્યવહાર કાલ્પનિક
૨૧૮