________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः व्यतिरिच्यमानमूर्तिर्धर्मिमात्रमेव स्यादिति ? ततश्चैवं धर्मधर्मिौ स्वभावभेदानासादनेनाप्रति-लब्धभेदौ कथं भेदनिमित्तं भवतः ? इति । न च स्वभावतोऽपि तयोर्भेदाभेदकल्पना युक्ता, पूर्वोक्त-दोषानतिवृत्तेः । भेदो वा स्यादभेदो वा द्वयं वा धर्मधर्मिणोः । भेदे नैकमनेकं स्यादभेदेऽपि न युज्यते ॥ १ ॥ द्वयपक्षोऽपि चायुक्तो विकल्पानुपपत्तितः । तेनानेकान्तवादोऽयमज्ञैः समुपकल्पितः ।। २ ।।
किञ्च;-संविनिष्ठाश्च विषयव्यवस्थितयः, न च सदसद्रूपं वस्तु संवेद्यते, उभयरूपस्य संवेदनस्याभावात्; तथाहि नाक्षजे विज्ञाने सदसत्त्वे प्रतिभासेते, असत्त्वस्यारूपित्वात्, रूपित्वे वाऽसत्त्वविरोधात्, तथानुभवाभावाच्च ।
न च कार्यद्वारेणापि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते, यतः-नोभयरूपं कार्यमुपलभ्यते; न च
१. स्वरूपाभेदात् २. एकमनेकं न युज्यते, एकत्वादेव । ३. ज्ञानायत्ताः । ४. अरसाद्युपलक्षणमिदम् । ५. नाक्षजज्ञानेन तुच्छानुभवः । ६. कार्यमत्र सजातीयम् । ७. इह मृदादिरूपं कारणं जैनैः सदसद्रूपमभ्युपगतम् । तच्च न कार्यद्वारेणावबोद्धं पार्यते । यतः-सर्वमपि कार्यमत्र लोके
For Private and Personal Use Only