________________
Shri Mahavir Jain Aradhana Kendra
१६
www.kobatirth.org
अनेकान्तवादप्रवेश:
अबादिद्रव्यत्वेनासत् तथा पार्थिवत्वेनापि असदेव स्यात्, तदसत्त्वाव्यतिरिक्तत्वात्तत्सत्त्वस्य । एवं यदि 'इहक्षेत्रसत्त्वमेव पाटलिपुत्राद्यसत्वम्, ततश्च तद्यथेह
पाटलिपुत्रादावपि स्यात्, इह
सत् तथा सत्त्वाव्यतिरिक्तत्वात् तत्रासत्त्वस्य; यथा वा पाटलिपुत्रादावसत् तथेहापि स्यात्, तदसत्त्वाव्यतिरिक्तत्त्वादिहसत्त्वस्य 1 एवं यदि 'घटकालसत्त्वमेव मृत्पिण्डकपालकालासत्त्वम्, ' ततश्च तद्यथा घटकाले सत् एवं मृत्पिण्डकपालकालेऽपि स्यात्, तत्सत्त्वाव्यतिरिक्तत्वात्तदसत्त्वस्य; यथा वा मृत्पिण्डकपालकालेऽसत् तथा घटकालेऽपि स्यात्, तदसत्त्वाव्यतिरिक्तत्वात्तत्सत्त्वस्य । एवं यदि 'श्यामत्वसत्त्वमेव रक्तत्वाद्यसत्त्वम्, ' ततश्च तद्यथा श्यामत्वेन सत् एवं रक्तत्वादिनापि स्यात्, तत्सत्त्वाव्यतिरिक्तत्वादितरासत्त्वस्य; यथा वा रक्तत्वादिनाऽसत् एवं श्यामत्वेनापि स्यात्, तदसत्त्वाव्यतिरिक्तत्वात्तत्सत्त्वस्य ततश्च तदितररूपापत्त्यादिनाऽवस्तुत्वप्रसङ्गः, इति । अथोच्येत, - नहि नः किञ्चिदबाद्यसत्त्वं निरुपाख्यं
1
२
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
*
१. अबाद्यसत्त्वस्य परमार्थतोऽभावात्, इत्यर्थः I २. तस्य पार्थिवद्रव्यादिसत्त्वस्य अबादिद्रव्यत्वरूपापत्त्यादिना । ३. बौद्धेन । ४. अस्माकं बौद्धानाम् ।