________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
अनेकान्तवादप्रवेश:
४
ङ्गात् । न हि श्रावणत्वं विरुद्धमपि घटादिसत्त्वे नाऽसत्तया विरुध्यते, तथोपलम्भात्, 'अनुभवप्रमाणकाश्च सन्तोऽर्थाधिगमे' इति, अन्यथा, तदभावप्रसङ्गात् । अभिन्ननिमित्तत्वेनापि विरोध: सिद्ध एव । नहि यदेव शीतस्पर्शस्य निमित्तं तदेवोष्णस्पर्शस्य, भेदाभावात्, तत्सङ्करोपलब्धिप्रसङ्गाच्च । न च सदसदादिधर्माणामभिन्ननिमित्तता, निमित्तभेदाभ्युपगमाद् । न चैकस्मिन्निमित्तभेदो न युक्तः, एकान्तेनैकत्वासिद्धेः
For Private and Personal Use Only
३
१. विरोधो हि असम्भवे सति भवति, निश्चयभाविनां च को नामासम्भवः ? । २. श्रावणत्वं हि घटादिसत्त्वेन सह विरुद्धमपि न हि सन् घटादिः श्रावणो नाम 1 परा सत्त्वेनापि सह न न विरुध्यते, अपि तु विरुध्यत एव, अन्यथा श्रावणत्वमसद्रूपमेव स्यात् । ततो यदि श्रावणत्वं घटादिसत्त्वेन सह विरुद्धं, कथं तर्ह्यसत्त्वेनापि सह विरुद्धं ? अथासत्त्वेन सह विरुद्धं कथन्तर्हि घटादिसत्त्वेनापि विरुद्धं ? सत्त्वेनासत्त्वेन च सहैकस्य विरोधो विरुद्धः, इत्येवं यथा नात्र विरोधकल्पना, तथा दृष्टत्वेन सम्भवाभावाद्, एवं न सदा तदाद्यात्मके वस्तुनि विरोधकल्पना न्याय्येति भाव: 1 ३. यद्यनुभवप्रमाणकाः सन्तो न भवन्ति तदा ते सन्त एव न स्युरित्यर्थः । ४. शब्द एव । ५. यदि हि शीतोष्णस्पर्शयोरेकत्वमेव स्यात् तदैतयोर्भेदो न स्यादित्यर्थः ।