Book Title: Anekantvad Pravesh
Author(s): Haribhadrasuri, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૯૧
અનેકાન્તવાદપ્રવેશ ભાવાનુવાદ तत्कालीनकरग्रहग्रहविधावब्दे ह्यभूद् वैक्रमे । तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः । कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो बह्वडशेन निवारितः खकरखो-ष्ठे पिण्डवाडापुरे ॥६।।
(वसन्ततिलका) तत्पट्टके भुवनभान्वभिधश्च सूरिः श्रीवर्धमानसुतपोनिधिकीर्तिधाम । न्याये विशारद इतीह जगत्पसिद्धो जातोऽतिवाक्पतिमति-र्मतिमच्छरण्यः ॥७॥ तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धुतेजास्तपःश्रुतसमर्पणतेजसा सः । पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु क्षान्त्येकसायकविदीर्णमहोपसर्गः ॥८॥ शिष्योऽस्य धीजलधिबोधनबद्धकक्षः वैराग्यदेशनविधौ परिपूर्णदक्षः सीमन्धरप्रभुकृपापरपात्रमस्तु श्रीहेमचन्द्रभगवान् सततं प्रसन्नः ॥९॥ कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेवश्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन श्री-जिनशासन-आराधना-ट्रस्ट विहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः ।
वि. सं. २०६३
For Private and Personal Use Only

Page Navigation
1 ... 216 217 218 219 220