SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः व्यतिरिच्यमानमूर्तिर्धर्मिमात्रमेव स्यादिति ? ततश्चैवं धर्मधर्मिौ स्वभावभेदानासादनेनाप्रति-लब्धभेदौ कथं भेदनिमित्तं भवतः ? इति । न च स्वभावतोऽपि तयोर्भेदाभेदकल्पना युक्ता, पूर्वोक्त-दोषानतिवृत्तेः । भेदो वा स्यादभेदो वा द्वयं वा धर्मधर्मिणोः । भेदे नैकमनेकं स्यादभेदेऽपि न युज्यते ॥ १ ॥ द्वयपक्षोऽपि चायुक्तो विकल्पानुपपत्तितः । तेनानेकान्तवादोऽयमज्ञैः समुपकल्पितः ।। २ ।। किञ्च;-संविनिष्ठाश्च विषयव्यवस्थितयः, न च सदसद्रूपं वस्तु संवेद्यते, उभयरूपस्य संवेदनस्याभावात्; तथाहि नाक्षजे विज्ञाने सदसत्त्वे प्रतिभासेते, असत्त्वस्यारूपित्वात्, रूपित्वे वाऽसत्त्वविरोधात्, तथानुभवाभावाच्च । न च कार्यद्वारेणापि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते, यतः-नोभयरूपं कार्यमुपलभ्यते; न च १. स्वरूपाभेदात् २. एकमनेकं न युज्यते, एकत्वादेव । ३. ज्ञानायत्ताः । ४. अरसाद्युपलक्षणमिदम् । ५. नाक्षजज्ञानेन तुच्छानुभवः । ६. कार्यमत्र सजातीयम् । ७. इह मृदादिरूपं कारणं जैनैः सदसद्रूपमभ्युपगतम् । तच्च न कार्यद्वारेणावबोद्धं पार्यते । यतः-सर्वमपि कार्यमत्र लोके For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy