________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः । एव ? तदेवमपि नैकमुभयरूपम्। अथ येनैवाकारेण भेदस्तेनैवाभेदः, येनैव चाभेदः तेनैव भेदः इति ? एतदप्यचारु, विरोधात्; तथाहि-यदि येनाकारेण भेदः, कथं तेनैवाभेदः ? अथाभेदः, कथं भेदः ? इति । अथ येनाप्याकारेण भेदः, तेनापि भेदश्चाभेदश्च, इत्युभयम्, येनापि चाभेदः, तेनाप्यभेदश्च भेदश्च, इत्युभयमेव ? अत्रापि येनाकारेण भेदः, तेन भेद एव; येन चाभेदः, तेनाभेद एव; इति तदेवावर्तते ।
किञ्च, भेदाभेदमभ्युपगच्छतावश्यमेवेदमङ्गीकर्तव्यम्, इह धर्मधर्मिणोधर्मधर्मितया भेदः, स्वभावतः पुनरभेदः; स्वभावतोऽपि हि तयोर्भेदेऽङ्गीक्रियमाणे परस्परतः प्रविभक्तरूपं पदार्थद्वयमेवाङ्गीकृतं स्यात्, न पुनरेकं द्विरूपम्, इति । तदत्रापि निरूप्यते, न ह्यनासादितस्वभावभेदयोर्धर्मधर्मिणोर्धर्मधर्मितयाऽपि भेदो युज्यते । तथाहि-यदि यो धर्मस्य स्वभावः, स एव धर्मिणोऽपि, एवं सति असौ धर्मी धर्म एव स्यात्, तत्स्वभावत्वात्, धर्मस्वरूपवद्; धर्मो वा धर्मिस्वभावा
१. भेदाभेदाङ्गीकारे तत्त्वतः पूर्वोक्तदोषानतिक्रमात् । २. चक्रकमनवस्था वा । ३. नियतस्वरूपतया । ४. वस्तुतः । ५. धर्मधर्मिरूपम् । ६. वस्तु । ७. धर्मधर्मिनियतरूपतया । ८. वस्तुत्वलक्षणः ।
For Private and Personal Use Only