________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनेकान्तवादप्रवेशः
किञ्च;- सदसद्रूपं वस्त्वभ्युपगच्छता सत्त्वमसत्त्वं च वस्तुधर्मतयाभ्युपगतं भवति । ततश्चात्रापि वक्तव्यम्; धर्मधर्मिणोः किं तावद्भेदः ? आहोश्चिदभेदः ? आहोश्चिद्भेदाभेदः ? इति । तत्र यदि तावद्भेदः, ततः सदसत्त्वयोर्भिन्नत्वात् कथमेकं सदसद्रूपम् ? इति । अथाभेदैः, ततः सद्सत्त्वयोरेकत्वम्, एकस्माद्धर्मिणोऽभिन्नत्वात्, तत्स्वरूपवद्, अतोऽपि कथमेकं सदसद्रूपम् ? इति । धर्मिणो वा भेदः, सदसत्त्वयोरभिन्नत्वात्, तत्स्वात्मवत्; इत्थमपि कथमेकमुभयरूपम् ? । अथ भेदाभेद:, अत्रापि येनाकारेण भेदः तेन भेद एव, येन चाभेदः तेनाभेद
८
Acharya Shri Kailassagarsuri Gyanmandir
1
१. धर्मिणः सकाशात् । २. एकमिति न स्याद्, अभेदहेतुत्वात्तस्य । ३. अभेदो हि द्विधा भवति सत्त्वासत्त्वधर्मौ धर्मिणा सहऽभिन्नौ विद्येते ? आहोश्चिद्धर्मी सत्त्वासत्त्वधर्माभ्यां सहऽभिन्नो भवति । इति विकल्पद्वयं निराकरोति । ४. धर्मिणो धर्मावभिन्नौ चेत् । ५. धर्मिणोरभेदे सति एकेन धर्मिणाऽभेदात् सत्त्वासत्त्वयोर्धर्मयोरेकत्वं स्यात् । ६. धर्मिस्वरूपवत् । ७. एकमेव हि तद् इति भावः । ८. वाशब्दः पक्षान्तरसूचकः । अथवा धर्मधर्मिणोरभेदे सति धर्मिण: पक्षस्यापि भेदः सत्त्वासत्त्वाभ्यां धर्माभ्यां द्वाभ्यां सहाभेदात् । ९. धर्म । १०. एकमिति न स्यात्, किं तूभयमेव स्यात् । ११. धर्मधर्मिणोः ।
For Private and Personal Use Only