________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्ह । श्रीहरिभद्रसूरिविरचितअनेकान्तवादप्रवेशः
टिप्पनकसहितः । जयति विनिर्जितरागः सर्वज्ञस्त्रिदशनाथकृतपूजः । सद्भूतवस्तुवादी शिवगतिनाथो महावीरः ॥१॥
इह केचिदनादिकर्मवासनोद्भूतमहामोहाकुलीकृतचेतसो यथास्थितं सदसन्नित्यानित्याद्यनेकरूपं वस्त्वनुभवन्तोऽपि न प्रतिपद्यन्ते; प्रत्यवतिष्ठन्ते चकथमेकमेव घटादिरूपं वस्तु सच्चासच्च भवति ? तथाहि-सत्त्वमसत्त्वपरिहारेण व्यवस्थितम्, असत्त्वमपि सत्त्वपरिहारेण, अन्यथा तयोरविशेषात् ततश्च तद्यदि सत्, कथमसत् ? अथासद्, कथं सत् ? इत्येकत्र सदसत्त्वयोर्विरोधात् । तथा चोक्तम्यस्मात्सत्त्वमसत्त्वं च विरुद्धं हि मिथो द्वयम् । वस्त्वेकं सदसद्रूपं तस्मात् खलु न युज्यते ।।१।। १. आदिशब्दाज्ज्ञानादि । २. अर्थक्रियासमर्थं च सद्, अन्यदसदुच्यते ।
समावेशो न चैकत्र तयोः प्रोक्तो विरोधतः ॥ १ ॥ ३. तत्त्वानापत्त्या । ४. अभेदात् । ५. एवकारार्थे ।
For Private and Personal Use Only