Book Title: Agam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
निरयावलिकासूत्र 'चिरादिकम् ' इति-चिरः बहुकालिकः आदिः निवेशो यस्य तत् तथा, 'पूर्वपुरुषेति पूर्वपुरुषैः प्राचीनपुंभिः प्रज्ञप्तम्-उपादेयतया प्रतिबोधितम्, सच्छत्रम्, सध्वजम्, सघण्टम्, सपताकम्, एतत्सर्व स्पष्टम्, कृतवितर्दिकम् रचितवेदिकम्, 'लाइये त्यादि लाइयं-गोमयमृत्तिकादिना भूम्युपलेपनम् च उल्लोइयं-भित्तिसमुदायस्य सेटिकादिभिः संमृष्टीकरणं च; लाइयोल्लोइये; ताभ्यां महितं-पूजितं प्रशस्तम् परिष्कृतमिति यावत्, एवम्भूतं चैत्यमासीत् ।।
तत्र व्यन्तरायतनभूमौ अशोकवरपादपः अशोकाख्यो महावृक्षोऽस्ति, तस्याधस्तटे 'पृथिवीशिलापट्टकः । पटक इव पट्टकः, आसनरूपेण परिणता पृथिवीशिलेत्यर्थः, अभवत् आसीत्, तस्य शास्त्रान्तरे वर्णनमित्थमाह
"विक्खंभायामसुप्पमाणे, आइणग-रूय-बूर-नवणीय-तूलफासे, पासाईए, दरिसणिजे, अभिरूवे, पडिरूवे” इति । छाया– विष्कम्भायामसुप्रमाणः, अजिनक-रूत-बूर-नवनीत-तूलस्पर्शः, प्रासादीयः, दर्शनीयः, अभिरूपः, प्रतिरूपः, इति ।
'विष्कम्भे'-ति-विस्तारदाम्यां समुचितप्रमाणोपेतः ‘अजिनके' ति-अजिनमेवाऽजिनक-मृगचर्म, रूतं कार्पासः, बूरः स्निग्धवनस्पतिविशेषः, नवनीतं-दुरपविकारविशेषः, तूलं-अर्क-शाल्मलीवृक्षजातम्, तद्वत्स्पर्शः कोमलस्पर्शः, इत्यर्थः, 'प्रासादीय' इत्यादिपदानां व्याख्या पूर्वोक्तरीत्याऽवगन्तव्या। एवम्भूतः पृथिवीशिलापट्टक आसीत् ॥ २ ॥
___ वहाँ उसी स्थान पर एक बड़ा अशोक वृक्ष था । उसके नीचे मृगचर्म, कपास, बूर (वनस्पति), मक्खन और आंकडे (अर्क) की रूई (तूल) के समान स्पर्शवाला, उचित प्रमाण से लम्बा चौडा आसन के आकारसा बना हुआ पृथ्वीशिलापट्ट था, जो दर्शनीय अभिरूप प्रतिरूप था ॥ २ ॥
ત્યાં એ જગ્યા ઉપર એક મેટુ અશોક વૃક્ષ હતું. તેની નીચે મૃગચર્મ, કપાસ, બૂર (વનસ્પતિ) માખણ અને આકડાના રૂ જેવું સુવાળું અને ઉચિત પ્રમાણથી લંબાઈ પહોળાઈ વાળું આસનના આકાર જેવું પૃથ્વીશિલાપટ્ટ હતું જે દર્શનીય અભિરૂપ અને પ્રતિરૂપ હતું. (૨)
શ્રી નિરયાવલિકા સૂત્ર