Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
Catalog link: https://jainqq.org/explore/003028/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुप्रकाशनम् - ५ श्रीहेमचन्द्राचार्यः । (जीवनचरितम्) | आलेखनम् मुनिकल्याणकीर्तिविजयः Mule यात्माययोनिमपसमाएरोशिमाच्या दिव्यमतिमसाधुरस्तादामनेसियाशासीय निधिसूवाताममलालयादवानाधारय नसस्यति मुरासुरनारधाराशिवायनयताति वाकयाऽपिसाधिका यस्यज्ञानन वज्ञावितिसादावसामकृतात्रयस्य ज्ञानमानदं वाचिकास्मनोगतम वाड्यासरावाद्यसरचताधा तिसम्यानावधीस्तारमासादायसमाधितातमा कसाखियामामाययसम्पकिंकर प्रस्तोत्र कचियचित्रावासरखतीदिनघकोमा राममिनाजन्ममाफलाहाछापशारपियशः Jain Education Internationa Page #2 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुप्रकाशनम् - ५ ॥ श्रीहेमचन्द्राचार्यः ॥ (जीवनचरितम्) आलेखनम् मुनिकल्याणकीर्तिविजयः भरा दय: जय LATES EUR प्रकाशक श्रीभद्रङ्करोदय शिक्षण ट्रस्ट, गोधरा वि.सं. २०६७ ई. २०११ Jain Education Internationa Page #3 -------------------------------------------------------------------------- ________________ श्रीहेमचन्द्राचार्यः (जीवनचरितम्) आलेखनम् मुनिकल्याणकीर्तिविजयः सर्वाधिकाराः स्वायत्ताः प्रथमं मुद्रणम् : वि.सं. २०६७, ई. २०११ प्रकाशक : श्रीभद्रङ्करोदय शिक्षण ट्रस्ट, गोधरा प्रतिकृतयः २५० मूल्यम् : १००/ मुखपृष्ठपरिचयः श्रीहेमचन्द्राचार्यैर्विरचितस्य वीतरागस्तवस्य षोडशतमशताब्धा हस्तलिखितप्रतेः प्रथमं पत्रम् । प्राप्तिस्थानम् : आ. श्रीविजयनेमिसूरीश्वरजी जैन स्वाध्याय मन्दिर १२, भगतबाग, जैन नगर, पालडी, शारदामन्दिर रोड, अमदावाद - ३८०००७ मुदणम् : क्रिष्ना ग्राफिक्स मो. ९८९८६५९९०२ Jain Education Internationa Page #4 -------------------------------------------------------------------------- ________________ समर्पणम् वात्सल्यपूर्णहृदयेभ्यस्तेजोमूर्तिभ्यः परमगुरुभ्यः पूज्यपादाचार्यवर्यश्रीविजयसूर्योदयसूरीश्वरेभ्यः साश्रु साञ्जलि च समर्प्यते ग्रन्थोऽयम्....... Jain Education Internationa Page #5 -------------------------------------------------------------------------- ________________ यस्तेजसाऽर्यमसमः प्रबलप्रतापः कारुण्यपूर्णनयनो हतदैन्यतापः । लोकोपकारनिरतो नितरां सदा यः सूर्योदयं गुरुवरं तमहं स्मरामि ॥ Jain Education Internationa IV Page #6 -------------------------------------------------------------------------- ________________ हृद्गतम् विश्वविश्रुतवैदुष्याणां कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्याणामाचार्यपदस्य नवमशताब्दी निमित्तीकृत्य नन्दनवनकल्पतरोः षड्विंशशाखायां तेषां जीवनचरितादेरालेखनं कृतमासीत् । तच्चाऽत्र नन्दनवनकल्पतरुप्रकाशन श्रेण्याः पञ्चमपुस्तकत्वेन स्वतन्त्रतया प्रकाश्यते इत्ययमानन्दस्य विषयः । एतन्माध्यमेन विद्वज्जगत् श्रीहेमचन्द्राचार्याणां गुणैर्वैदुष्येण प्रतिभया च परिचितं स्यादित्येतया भावनया प्रयत्नोऽयं कृतोऽस्ति । स च साफल्यं प्राप्नुयादित्याशासमानः ― मुनि कल्याणकीर्तिविजयः V Jain Education Internationa Page #7 -------------------------------------------------------------------------- ________________ अनक्रमः कलिकालसर्वज्ञश्रीहेमचन्द्राचार्याणां जीवनचरितम् श्रीहेमचन्द्राचार्याणां शिष्यवृन्दम् श्रीहेमचन्द्राचार्याणां प्रमुखसाहित्यसृष्टिः श्रीहेमचन्द्राचार्याणां काव्यसृष्टिः श्रीहेमचन्द्राचार्याणां प्रशस्तिः परिशिष्टम् Jain Education Internationa Page #8 -------------------------------------------------------------------------- ________________ ॥ श्रीहेमचन्दाचार्यः॥ (जीवनचरितम्) VII Jain Education Internationa Page #9 -------------------------------------------------------------------------- ________________ निःसीमप्रतिभैकजीवितधरौ निःशेषभूमिस्पृशां पुण्यौघेन सरस्वती-सुरगुरू स्वाङ्गैकरूपौ दधन् । यः स्याद्वादमसाधयन्निजवपुर्दृष्टान्ततः सोऽस्तु मे सद्बुद्धयम्बुनिधिप्रबोधविषये श्रीहेमचन्द्रः प्रभुः ॥ VIII Jain Education Internationa Page #10 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्दाचार्याणां जीवनचरितम् अयि भोः ! संस्कृतभाषा-काव्य-साहित्य-तर्क-योगपुराणेतिहासप्रभृतिविद्याध्ययनाध्यापन-सर्जनादिपटिष्ठा विद्वज्ज्येष्ठाः ! परिचितचरा एव तत्रभवतां भवतां पाणिनि-मम्मटानन्दवर्धनामरसिंहकालिदासाक्षपाद-पतञ्जलि-व्यासादयो महर्षयो महाकवयो ग्रन्थकाराश्च । एतैविना हि समग्रा अपि पूर्वोक्ता विद्याशाखाः शून्यायेरन् खलु ! किन्त्वेतेषामेव विविधदेशेषु विविधकालखण्डेषु च सञ्जातस्थितिकानां समन्वय एकस्मिन्नेव देशे एकत्र चैव कालखण्डे एकस्यां चैव व्यक्तौ सञ्जात इति वार्ता कदाचित् कर्ण-नयन-मनोगोचरा स्यात् तदा सा किं श्रद्धेया भवेत् खलु ? नैव । असम्भवितमेवैतत् किल ! तथाऽपि एतस्मिन्नेव भारते देशेऽसम्भवितमपि तथाऽश्रद्धेयमप्येतत् सञ्जातमेव । कदा? कुत्र? - इति प्रश्नावलिरुत्तिष्ठेतैव नो मनस्येतत् श्रुत्वा । अरे ! इदामिदानीमेवाऽस्मिन्नेव सहस्राब्देऽत्रैव च गूर्जरदेशेऽसम्भवितमप्यश्रद्धेयमपि चैतत् सञ्जातं कलिकालसर्वज्ञानां श्रीमतां हेमचन्द्राचार्याणां जीवने । तेषां नित्यस्मरणीयमभिधानं केषां देश-विदेशीयानां विदुषामविदितं ननु ! विश्वस्यैकमनुपमं च महाव्यक्तित्वं, भारतीयसंस्कृतेर्यशउज्ज्वला गौरवगाथा, गूर्जरदेशं भाषा-साहित्य-संस्कारैः समृद्धीकुर्वज्जीवत् तपः, ज्ञानमहार्णव-(Ocean of knowledge)तया अतिशायिप्रज्ञ * अपार श्रुतकूपारदृश्यतया सञ्जातकलिकालसर्वज्ञप्रसिद्धेः । (कुमारपालचरितसङ्ग्रहे) Jain Education Internationa Page #11 -------------------------------------------------------------------------- ________________ (Intellectual giant)तया च सर्वत्र प्रथितं सार्वकालिकं सार्वदेशिकं विश्वजनीनं व्यक्तित्वं किलैतत्-इति तु सर्वथाऽविज्ञापनीयमेव विदुषां खलु । एवंस्थितेऽपि ऐदंयुगीनानां विद्याचणानां विद्यार्थिनां जिज्ञासूनां च कदाचित् जायेताऽपि जिज्ञासा यत् - कथङ्कारमेते विश्वस्याऽनुपमं महाव्यक्तित्वं सम्पादितवन्तः ? कथङ्कारं चैते ज्ञानमहार्णवतया अतिशायि-प्रज्ञतया च जगति प्रसिद्धाः ? कथं च गूर्जरदेशं भाषा-साहित्य-संस्कारैरेते समृद्धीकृतवन्तः ? कथङ्कारं चैतेषु पाणिनि-मम्मटानन्दनवर्धनामरसिंह-कालिदासाक्षपादपतञ्जलि-व्यासादीनां महर्षीणां महाकवीनां ग्रन्थकाराणां च समन्वयः ? इत्यादि । एताः सर्वाः अन्याश्चाऽनुक्ताः सर्वा अपि जिज्ञासाः शमयितुमेवाऽयमुपक्रमो रचितोऽस्ति । किन्तु, स्थीयतां क्षणम् । तैहि विश्वजनीनैर्महात्मभिर्यो देश-कालावलङ्कृतावास्तां तावपि प्रथमं जैयौ खलु ! अतः ऐदम्प्राथम्येन तावेव प्रथमं विचारयामः । तत्राऽपि प्रथमं तावत् तेषां देशं-जन्मभूमिं कर्मभूमिं विचरणभूमिसर्वमप्येकमेवगूर्जरदेशं विचारयामः, सहैव तादात्विकी कालपरिस्थितिमपि किञ्चिद् विलोकयामः । गूर्जरराज्यस्य (गूजरातस्य) अद्यैका स्वतन्त्रा स्वारस्यपूर्णा चाऽभिव्यक्तिरस्ति । बहुशो गूर्जरजनानन्ये जना निर्बलतया भावयन्तः किञ्चिद् हीनतया प्रेक्षन्ते । किन्तु गूर्जरसदृशाः साहसिकाः पराक्रमिणो धीराश्च जना अत्यल्पाः सन्ति । प्राच्यकाले समग्रोऽपि सामुद्रिकवाणिज्यव्यापारः प्रायशो गूर्जरजनाधीन एवाऽऽसीत् । वाणिज्यमाध्यमेन ते सर्वत्राऽपि जगति गच्छन्ति स्म, वसन्ति स्म, तत्रत्यैश्च जनैः सहाऽऽनुकूल्येन सम्मिलन्ति स्म चाऽपि । गूर्जरवणिजो जावा-सुमात्रा-ब्रह्मदेशनेपाल-चीन-पारसकूल-आफ्रिका-ग्रीस-रोमप्रभृतिदेशेष्वपि Jain Education Internationa Page #12 -------------------------------------------------------------------------- ________________ वाणिज्यार्थं भ्रमणं कुर्वन्ति स्म । तत्रत्यां संस्कृति कलादिसमृद्धिं चाऽत्राऽऽनयन्ति स्म, अत्रत्यां च तत्र तत्र नयन्ति स्म । अरे ! आफ्रिकीयदेशेषु वाणिज्यार्थं वसितुं गताः सर्वप्रथमं विदेशिनो गौर्जरा एव । यूरपीयास्तु ततो बहुकालान्तरं तत्र प्राप्ताः । इयं च परम्पराऽऽधुनिकैौजरैरपि अक्षुण्णतया रक्षिताऽस्ति । अद्य सर्वत्राऽपि जगति स्वीयवाणिज्यकलया गूर्जराः प्रसिद्धाः सन्ति । गूर्जरधनिकानां नामानि सम्प्रति वैश्विकसामयिकेष्वपि सादरं गृह्यन्ते । न चैतावत्, गूर्जरा वैज्ञानिकाः, सारस्वताः, विविधशाखीया विद्वज्जनाश्चाऽद्य विश्वप्रसिद्धाः सन्ति । सर्वतोऽप्यधिकं त्वेतद् यद् - गूर्जरजना मूलत एव निरुपद्रविणः, शान्ताः, दयालवः, अहिंसकाः, मिलनशीलाः, सहिष्णवः, संस्कारिणश्च सन्ति । अत्र प्रश्नोऽयं जायते यद् ईदृश्या गूर्जरप्रजायाः मूलं कुलं च कुत्र वर्तते ? इति । किन्त्वस्योत्तरं प्राप्तुमितिहासपृष्ठानि अवलोकनीयानि । विक्रमात् पूर्वं तृतीयशताब्द्यामैदम्प्राथम्येन गूर्जरप्रदेशस्य सौराष्ट्रस्य चोल्लेखाः प्राप्यन्ते मौर्यकालीनेष्वशोकादीनां शिलालेखेषु - गिरिनारपर्वतस्य तलहट्टिकायाम् । यद्यपि तदात्वे गूर्जर-इति नामोल्लेखो नाऽऽसीत् । एकतो गिरिनगरं सौराष्ट्रदेशश्च, अन्यतो वलभीसाम्राज्यं, मध्ये चाऽविकसितोऽर्धविकसितो वाऽऽनर्तप्रदेशो दक्षिणे च लाटदेश आसीत् । (उत्तरे च राजस्थानप्रदेशे मरुभूमौ श्रीमालनगरे गूर्जराणां राज्यमासीत् ।) अत्र च विक्रमस्य प्रथमशती यावन्मौर्यवंशीयानां साम्राज्यमासीत् । ततो द्वितीयात् पञ्चमं शतकं यावदत्र क्षत्रपवंशीयनृपाणां शासनमासीत् । अथ च तत्काले भिन्नमालनगरे (श्रीमालनगरे) गूर्जराणां साम्राज्यं किञ्चिदिव दुर्बलं जातम् । अतस्ते शनैः शनैः ततो निःसृत्याऽऽनर्तादिप्रदेशेषु समागतास्तत्रैव चोषिताः । इतश्च पूर्वभारते मगध-वङ्गोत्कलादिदेशेषु वारं वारं Jain Education Internationa Page #13 -------------------------------------------------------------------------- ________________ दुर्भिक्ष-दुष्कालादयः प्राकृतिकविपत्तयः समजायन्त । तथा मगधेष्वपि शुङ्गवंशीया राजानस्तदात्वे शासति स्म । तैश्चाऽत्याचारं कृत्वा जैना बौद्धाश्च साधवो भृशं पीडिताः । अतः सर्वमेतत् सम्मुखीकर्तुमशक्नुवन्तोऽथाऽपि च स्वस्य मार्गस्य चाऽस्तित्वं रक्षितुं बद्धादरास्ते पूर्वभारताच्छनैः शनैः निःसृत्य पश्चिमं मध्यं दक्षिणं च भारतं प्रति प्रस्थिताः । तत्राऽपि जैनानां द्वौ विभागावपि प्रायशस्तदात्व एव सञ्जातौ । तयोश्च दिगम्बराः साधवो मुख्यतो दक्षिणभारतं प्राप्ताः, श्वेताम्बराश्च मध्यं पश्चिमं च भारतं प्राप्ताः । तत्र च राजस्थानं पूर्वमेव जैन साधुभिर्भावितमासीत् । अतो बहवो जैनसाधवस्तत्रैव समागताः । तानेवाऽनुसरन्तो जैनश्रावका गृहस्थाश्चाऽपि समागताः । ते च स्वेन सह भाषां, जैनसंस्कृति, जैनग्रन्थान्, लिपि, लेखनकलां, मुख्यतश्चाऽहिंसामयं दयापूर्णं च धर्ममपि समानीतवन्तः । अनेन राजस्थाने मेवाडप्रदेशे मरु-(मारवाड)प्रदेशे च शनैः शनैः जैनधर्मप्रसारो जातः । अथ च राजस्थानादपि जैनसाधवो विहृत्य विहृत्य दक्षिणे सौराष्ट्रदेशे, वलभीप्रदेशे, लाटप्रदेशे चाऽपि गताः । तत्र च पूर्वमेव बौद्धानां प्रसर आसीत् । ते हि अशोकस्य कालादेव राज्याश्रयं प्राप्ताः सन्तोऽत्र बद्धमूलाः सञ्जाताः । (तेषां स्थानानि अद्याऽपि गिरिनगरे (जूनागढ) तालध्वजे (तलाजा-[भावनगरं]) च द्रष्टुं शक्यानि ।) एतेषां त्रयाणामपि प्रदेशानां मध्यविभाग आनर्तप्रदेशतयोपलक्ष्यमाणोऽथाऽपि विकसितो नाऽऽसीत् । तत्र हि बहुश आभीरजातयोऽन्याश्च तादृश्यो यायावरजातयो वसन्ति * श्रीपार्श्वनाथसन्तानीयाः श्रीरत्नप्रभसूरिप्रमुखा आचार्या भगवतो महावीरस्य निर्वाणादचिरमेवाऽत्र समागता आसन् । तैश्चाऽत्रोपकेशनगरे लक्षशो जना जैनधर्मेण भाविताः उपकेश(ओसवाल)गोत्रस्य च स्थापनाऽपि कृता। Jain Education Internationa Page #14 -------------------------------------------------------------------------- ________________ विक्रमस्य सप्तमे शतके समग्रे भारते विचरितो ह्यु-एनत्सांगः स्वपरिभ्रमणलेखेषु मो-ला-पो (मालवः), फ-ल-पी (वलभी), कु-चे-लो (गूर्जर:-भिन्नमालः), सु-ला-चा (सुराष्ट्रा), युह-शं-तो (उज्जयन्तः-गिरिनगरम्) इत्यादीनुल्लिखन् कथयति यदेते प्रदेशा अतीव समृद्धाः सन्ति । अत्र बौद्धानां शतशो विहाराः सन्ति, अन्येषामपि च धर्माणां मन्दिरादिस्थानानि सन्ति - इति । इतश्च भिन्नमाल(श्रीमाल)प्रदेशे गूर्जरज्ञातीया राजपुत्राः क्षत्रियाश्च किञ्चिदिव दुर्बला जाता आसन् । अतस्ते शनैः शनैस्ततो निःसृत्याऽऽनर्त-सौराष्ट्रादिप्रदेशेषु समागत्य तत्रैव वसन्ति स्म । अत आनर्तप्रदेशोऽपि शनैः शनैर्विकासं प्राप्तः । एतेन जैनसाधवोऽपि तत्र विहरन्तः समागताः । तत्रत्यांश्च जनान् धर्मसंस्कारादिषु मार्गदर्शनं कृतवन्तः । तथा च स प्रदेशो धर्मसंस्कारादिभिः समृद्धो जायमान आसीत्। अथ च तदात्वे श्रीमालदेश-लाटप्रदेश-सौराष्ट्रप्रदेशवलभीप्रदेशादिषु जैनानां बौद्धानां च मध्ये बहवो वाद-विवादा जायन्ते स्म । बौद्धाश्च राज्याश्रयं प्राप्तत्वात् अधिकसमर्था आसन्, अतोऽपि जैनास्तेषां साम्मुख्यं कर्तुं किञ्चिदिवाऽशक्ता आसन् । तावता वलभीप्रदेशे स्थितेन प्रभावकेण महाजैनाचार्येण मल्लवादिगणिक्षमाश्रमणेन बौद्धैः सह वादं कृत्वा ते जिताः । तत्राऽयं पणबन्ध आसीत् -- यदि जैनाः पराजिता भवेयुस्तदा तैबौद्धानां शिष्यत्वमङ्गीकर्तव्यं, यदि च बौद्धाः पराजिताः स्युस्तदा तैर्देशत्यागः कर्तव्यः । ततश्च बौद्धा (श्रीमालदेशाल्लाटप्रदेशं यावत्) देशत्यागं कृत्वा निर्गताः ।* इतश्च विक्रमस्य नवमे शतके वलभीप्रदेशस्य * बौद्धानां पश्चिमभारतान्मल्लवादिना, दक्षिणभारतादकलङ्कदेवेन, शेष भारताच्च शङ्कराचार्येण देशत्यागः कारितः ।। Jain Education Internationa Page #15 -------------------------------------------------------------------------- ________________ तुरुष्कैर्भङ्गः कृतः । अन्यतः पूर्वोत्तरभारते शङ्कराचार्यस्य प्रभावेण शिष्टा जैना अपि ततो निर्गत्य पश्चिमभारतं समागताः । श्रीमालप्रदेशाच्चाऽधिकाधिक-गूर्जरा आनर्तादिप्रदेशेषु समागताः । अतस्तदात्व एव गूर्जराणामाधिक्यात् स प्रदेशः गूर्जरदेशतया प्रसिद्धो जातः । गूर्जरेष्वपि मुख्यतः चापोत्कट (चावडा) वंशीयाः क्षत्रिया एव तत्र प्रबला आसत्, अतस्ते एवाऽत्र प्रदेशे शासका जाताः । प्रारम्भे तु गूर्जरदेशो लघुरेवाऽऽसीत्, किन्तु शनैः शनैः तच्छासकानां शौर्य-पराक्रम-नीतिबलेन तस्य सीमानो विस्तार प्राप्ताः । देशस्य प्रजाभिरपि निकटस्थ-मालवदेश-श्रीमालदेशवलभीप्रदेशादीनां संस्कृति-संस्कारादीनामाधारेण स्वसंस्कृतिसंस्कारादयोऽङ्करिता वृद्धि प्रापिताश्च । किन्तु तासां(प्रजानां) धर्मसंस्कार-प्रेम-दया-ऽहिंसादयस्तु जैनमुनिभिरेवाऽऽमूलमारोपिता अङ्करिताः पल्लविताश्च । जैनाचार्यैहि जानद्भिरजानद्भिर्वा गूर्जरप्रजानां मानसं संस्कर्तुं पूर्णतया प्रयतितमस्ति । यतः पूर्वोत्तरदेशेभ्यो निःसृतानां जैनानां प्रथममाश्रयस्थानं राजस्थानप्रदेशस्ततश्च गूर्जरदेशो जातोऽतस्तौ द्वावपि देशौ संस्कर्तुं धर्मसमृद्धं च कर्तुं जैनसाधुभिः स्वीयं सर्वं सत्त्वं व्यापारितमिति यदि कथ्येत तदा नाऽस्ति अतिशयोक्तिः । इतिहासविदोऽपि वदन्ति यद् भिन्नमाल-वलभ्योः पतनानन्तरं गूर्जरदेशं गूर्जराणां शासनं च स्थापयितुं द्रढयितुं च जैनमन्त्रिभि नश्रेष्ठिभिश्चैवाऽत्यधिकतया प्रयतितं साफल्यं च प्राप्तमस्ति । कथनमिदं सर्वथा वास्तविकमस्ति । गूर्जराणां प्रथमस्य राज्ञो वनराज-चापोत्कटस्य मन्त्रिणो जाम्बश्रेष्ठिन आरभ्य आधुनिकसमये श्रेष्ठिश्रीलालभाई-दलपतभाई इत्येनं तथा श्रेष्ठिश्रीकस्तूरभाई-लालभाई-इत्येनं यावत् पश्येम तदा ज्ञायते Jain Education Internationa Page #16 -------------------------------------------------------------------------- ________________ यद् राजकीयपरिस्थितिषु जैनानां वर्चस्वं प्रभावश्च कीदृशोऽस्तीति । यद्यप्यैदंयुगीना जैनश्रेष्ठिनो न तथा राजकीयप्रभावयुताः सन्ति तथाऽपि तथ्यमेतत् तु जगद्विदितमस्ति यद् भारतदेशस्याऽधिकांशं वाणिज्यं जैनश्रेष्ठिन एव कुर्वन्तीति । एवं च गूर्जरदेशस्य तत्प्रजानां च संस्करणे समृद्धीकरणे च मुख्यभागो जैनानामस्ति । ब्राह्मणा-नामन्येषामपि धर्मिणां तत्र भागोऽस्त्येव - इति तु सर्वथा स्वीकार्यमेव, तथाऽपि अहिंसादया-निरुपद्रविता-दिगुणान् प्रजानां मानसे प्रवाहयितुं स्थिरीकर्तुं च जैनाचार्यैर्यथा यावच्च प्रयतितं तथा तावच्च नाऽन्यैः । अद्यत्वे गूर्जरराज्यादन्यानि राज्यानि पश्येम, यत्र पुरा ब्राह्मणादीनामेव वर्चस्वमासीत्, तत्र हिंसा-मांसभक्षण-मद्यपानादयः सर्वथा सुलभाः । ननु ब्राह्मणजातीया एव मांसाहारं कुर्वाणा अपि दृश्यन्ते कुत्रचित् । एतद्वैपरीत्येन यत्र पूर्वं जैना आधिक्येनोषितास्तत्राऽहिंसा-शान्त्यादीनि विलोक्यन्तं एव । - गूर्जरदेशमेवाऽधिकृत्य वदेम तदा गूर्जरदेशे चापोत्कटवंशीयानां शासनस्याऽऽद्यस्थापकस्य वनराजचापोत्कटस्य गुरवो जैनाचार्याः श्रीशीलगुणसूरय आसन्, येषां धर्मपूर्ण मार्गदर्शनं प्राप्य वनराजेन स्वीयवंशस्थापना न्याय्येन पथा दृढीकृता । ततश्च तदारभ्य गूर्जरदेशस्य राजधान्यां श्रीमदणहिल्लपुरपत्तने राजसभायां जैनसाधूनां स्थानं महत्त्वपूर्ण स्थिरं च जातम् । ततश्चौलुक्यवंशस्थापकस्य मूलराजदेवस्य शासनेऽपि जैनाचार्याणां स्थानमविचलमासीत् । तत्पुत्रेण चामुण्डराजेन तु स्वीये शासने श्रीमतो वीरगणिनो जैनमुनेराचार्यपदप्रदानमहोत्सवः कारित आसीत्, ते चाऽऽचार्या निजगुरुपदे स्थापिताः । तस्य पुत्रेण दुर्लभराजेन स्वीये शासने सर्वेषामपि जैनसाधूनां पत्तननगरे राज * यथा महाराष्ट्रे । + यथा कर्णाटके । Jain Education Internationa Page #17 -------------------------------------------------------------------------- ________________ वासायाऽनुमतिः प्रदत्ता । तदवसरे च समागता जैनागमटीकाकृतां श्रीमदभयदेवसूरीणां गुरुवर्या जिनेश्वरसूरयोऽन्ये च बुद्धिसागरव्याकरणरचयितारो बुद्धिसागरसूरयोऽपि तस्य राज्ञः सभायां धर्मबोधनार्थं नित्यं समागच्छन्ति स्म । अथ श्रीदुर्लभराजभ्रातृनागदेवपुत्रस्य (प्रथम)भीमदेवस्य तु मातुला एव प्रसिद्धजैनाचार्या द्रोणाचार्याभिधा आसन् । एतैर्हि श्रीमदभयदेवसूरिविरचितानामागमग्रन्थटीकानां संशोधनं कृतमासीत् । तेषां च शिष्यैः सूराचार्याभिधैर्हि भोजराजप्रेषितायौँ गाथाया यथोचितमुत्तरं प्रदत्तमासीत् धारां च गत्वा भोजराजस्य सभापण्डिताः स्वीयप्रतिभाबलेन निर्जिताः ।। भीमदेवस्य पुत्रः कर्णदेवोऽपि जैनाचार्याणामुपदेशान् शृणोति स्म तेभ्यश्चाऽऽदरं प्रदत्ते स्म । तत्पुत्रः सिद्धराजो जयसिंहो विद्वान् नीतिमान् सर्वधर्म-मतसमन्वयेच्छुकश्चाऽऽसीत् । तस्य शासने पत्तने समागतानां श्रीमदभयदेवसूरीणां संयमादिगुणैराकृष्टः स तेभ्यो मलधारीति बिरुदं दत्तवान् । तेषामेव शिष्याणां मलधारिश्रीहेमचन्द्रसूरीणां प्रवचनं धर्मोपदेशं च श्रोतुं स यथावकाशं गच्छति स्म । तेषामुपदेशेन स राजा स्वीयराज्ये अशीतेर्दिनानाममारिघोषणमपि कारितवान् । तस्य सभायामेव वादिश्रीदेवसूरयो वादे दिगम्बराचार्यं कुमुदचन्द्राभिधं पराजितवन्तः । ततश्चाऽस्माकं चरित्रनायकाः कलिकालसर्वज्ञा: श्रीहेमचन्द्रसूरयोऽपि तस्य राज्ञो विद्याक्षेत्रे धर्मक्षेत्रे चाऽनन्या मार्गदर्शकाः सञ्जाताः। * भोजराजप्रेषिता गाथा - हेलानिद्दलियगइंदकुंभपयडियपयावपसरस्स। सीहस्स मएण समं न विग्गहो नेव संधाणं ॥ सूराचार्यस्योत्तरम् - अंधयसुयाणकालो, भीमो पुहवीइ निम्मिओ विहिणा। जेण सयं पि न गणियं का गणणा तुज्झ एक्कस्स ॥ Jain Education Internationa Page #18 -------------------------------------------------------------------------- ________________ तस्य राज्ञोऽन्वये सञ्जातस्य श्रीकुमारपालस्य तु ते पदे पदे प्रष्टव्या गुरव एवाऽऽसन् । तेषामुपदेशेन चाऽनेनाऽष्टादशसु देशेषु जीवदयाऽमारिघोषणं च प्रवर्तितम् । तदारभ्यैव गूर्जरदेशे यज्ञ-यागादिष्वपि जीववधो निषिद्धो जातः । मांसभक्षणं मद्यपानं च सर्वथा प्रतिषिद्धं जातम् । ततोऽपि वीरधवलस्य राज्ञः शासने वस्तुपालतेजःपालयोश्च तन्महामात्य-सेनापत्योः जैनमन्त्रिणो राज्यकार्यकोंः सतोर्जेनाचार्याणां विजयसेनसूरिप्रमुखाणां मार्गदर्शनं प्राधान्यं भजति स्म । एवं नैके गूर्जरदेशीया राजानस्तदनन्तरमपि जैनसाधूनां मार्गदर्शनेनोपदेशेन च हिंसा-मद्यपानादि-निवारणां कृतवन्तः । अरे ! मोगलबादशाह-अकब्बरोऽपि जैनाचार्यश्रीहीरविजयसूरीणां गुणै रञ्जितहृदय-स्तेभ्यः सकाशाद् धर्मोपदेशश्रवणं कृतवान्, तेषां प्रेरणया च समग्रे देशे षाण्मासिकीममारिघोषणां (अहिंसाघोषणां) कारितवान् । अस्तु तावत् । प्रकृतं प्रस्तुमः । एवं च जैनसाधूनां सततं विचरणेन संस्कारदानेन च गूर्जरदेशस्य प्रजाः शान्ता दया-परोपकारसहिष्णुता-ऽहिंसादिगुणोपेताः जाता:* । तासां कुलं मूलं चाऽतीव गौरवशालि गभीरं च वर्तते । __ अथ च गूर्जरप्रदेशस्यैव प्रजाजनानामन्यतमा आसन् कलिकालसर्वज्ञाः श्रीहेमचन्द्राचार्याः । तैर्हि कथं निजजीवनं ज्ञान-दर्शन-संयमोपशम-योगादिगुणैः प्रोज्ज्वलं कृतं, कथं च कल्पनातीतो विशालो ग्रन्थराशिविरचितो, गूर्जरदेशश्च भाषा+ दृश्यताम् - आइन्-ए-अकबरी, अकबरनामा च । * लोकमान्यतिलकेन स्वीये प्रवचने एकदा कथितमिदम् । 9 Jain Education Internationa Page #19 -------------------------------------------------------------------------- ________________ संस्कार-दयादिगुणैः समृद्धीकृत्य कथं हेमयुगः प्रवर्तित इत्येतज्ज्ञातुं चलन्तु भो रसिकजनास्तेषां जीवनचरित्रयात्रायां प्रतिष्ठामः । किन्तु स्थीयतां क्षणं, प्रथमं तावत् तेषामेव गुणगभीरां गौरवशालिनी पवित्रां च गुरुपरम्परामपि जानीमहे यत्र सञ्जाताः प्रत्येकं गुरुभगवन्तः स्व-परहितैकरता ज्ञानिनो विशुद्धाचरणनिष्ठा जिनशासनसमर्पिताश्चाऽऽसन् । जैनानामन्तिमतीर्थकृतां श्रीमतां महावीरस्वामिनां प्रमुखशिष्याणां श्रीसुधर्मस्वामिनां परम्परायां कालक्रमेण चतुरशीतिर्गच्छाः संभूताः । तेषामन्यतमोऽस्ति पूर्णतल्लगच्छः । तस्मिंश्च गच्छेऽन्यदा श्रीदत्तसूरयो नाम्नाऽऽचार्या आगमज्ञा अत्यन्तं प्रभावकाश्च सञ्जाताः । ते ह्येकदा चारं चारं वाग्जर्डदेशे रत्नपुरनगरे समागताः । तैः सह तेषां बहुश्रुतः शिष्यसमुदायोऽप्यासीत् । अथ च तस्मिन्नगरे यशोभद्रो नाम्ना भद्रपरिणतिर्दानी च राजा शास्ति स्म । मुनयश्चैते साचार्या राजप्रासादाभ्यर्णदेशे एव वसतिं याचित्वा स्थिताः । तान् वन्दितुं प्रत्यहं बहवो भाविकजनाः समागच्छन्ति स्म । तेषां च विज्ञप्त्याऽऽचार्यभगवन्तस्तेभ्यो धर्मदेशनामपि श्रावयन्ति स्म । संसारस्वरूपबोधिनी सुमधुरां धर्मदेशनां श्रुत्वा नैके जनाः संवेगवासिताः सन्तो मुनिदीक्षां गृह्णन्ति स्म नैके च श्रावकोचितव्रतानि गृह्णन्ति स्म । एवमेव दिनानि व्यतियन्ति स्म । अथैकस्यां रात्रौ यशोभद्रो नृपः स्वप्रासादगवाक्षे उपविष्टः आसीत् स्वीयपरिवारेण सह । तावता तेन निकटवसतौ स्थितानां मुनीनां स्वाध्यायपरायणानां मधुरध्वनिः श्रुतः । तच्छ्रवणेनाऽऽह्लादितहृदयस्य तस्य चित्ते संवेगो जागृतः, चिन्तितं च तेन यद्- “धन्याः खल्वेते मुनयो ये निष्पापाः सन्तः केवलमात्मसाधने धर्माराधने च निरताः समयाकुर्वन्ति । तदेतेषां पादपद्मप्रणत्याऽहमपि + मेवाडप्रदेशसमीपवर्ती प्रदेशः । 10 Jain Education Internationa Page #20 -------------------------------------------------------------------------- ________________ स्वीयमात्मानं विगतपापं धन्यं च करिष्यामि प्रात:काले" । प्रभाते च कृतसर्वकर्तव्यः स सर्वेणाऽपि मन्त्रिसामन्तान्तःपुरादिपरिवारेण परिकरितः सन् श्रीदत्तसूरीनाचार्यपादान् वन्दितुं तेषां वसतौ समागतः । तत्र च स आचार्यभगवत्पुरतो भूमौ स्वशिरो नामयित्वा भक्तिभावपूर्वकं वन्दितवान् साश्रुः साञ्जलिश्च विनिवेदितवान् - 'भगवन्तः ! धन्या यूयं ये खलु संसारासारतां विज्ञाय सर्वसङ्गत्यागं कृत्वाऽऽत्मकल्याणनिरताः परलोकं साधयथ । वयं त्विहलोकमात्रप्रतिबद्धाः भौतिकसुखरताश्चाऽऽरम्भपरिग्रहादिभिः केवलं पापमेव चिनुमः' । गुरुभिरपि तं लघुपापं हितकाक्षिणं च ज्ञात्वा तस्मै मानुष्यदौर्लभ्य-मोहप्राबल्यादिबोधिनीह-परोभयलोकसाधनप्रेरिका च धर्मदेशना प्रदत्ता । तां श्रुत्वा तस्य हृदये धर्मानुरागाङ्कराः प्रस्फुटिताः । तेन गुरुपादौ प्रणम्य कथितं - 'भगवन्तः । भवद्भिरुभयलोकसाधनी या प्रेरणा प्रदत्ता साऽपूर्वैव, यतः प्रियतमोऽपि जनः केवलमिहलोकसुखार्थमेव प्रेरयति खलु । तद्भवतां प्रेरणा मम हृदये लग्नाऽस्ति । उचितकालेऽहमवश्यं राज्यमिदं त्यक्त्वा भवतां चरणयोः शरणं स्वीकृत्य निजजनु सफलीकरिष्यामि ।' ततः स पुनः पुनः गुरुपादौ प्रणम्य स्वस्थानं गतः, आचार्यभगवन्तोऽपि सपरिवाराः कतिपयदिनानन्तरं ततोऽन्यत्र विहृत्य गताः । इतश्च राजाऽन्यदा शरत्काले स्वीयक्षेत्रेषु सञ्जातं धान्यजातं विलोकयितुं सीमनि गतवान् । तदात्वे च कर्षकैर्निष्फलं तृणादिकं पुञ्जीकृत्य ज्वालयितुमारब्धमासीत् । राज्ञाऽपि तमग्नि विलोकयता सहसा दृष्टं यदेका गर्भवती सर्पिणी तस्यैवाऽग्नेमध्ये कुतोऽप्यागता दग्धाऽस्तीति । तन्मनसि हाहाकारो जातः । पश्चात्तापक्लिन्नहृदयः स सबाष्पनेत्रश्चिन्तितवान् - 'नूनं गृहवासो हि महतां पापानां 11 Jain Education Internationa Page #21 -------------------------------------------------------------------------- ________________ जनिस्थानमस्ति । अस्य त्याग एव श्रेयस्करः' । एवं च तस्य चित्तं वैराग्यरङ्गरञ्जितं जातम् । स सत्वरमेव स्वनगरं प्राप्य कञ्चिच्छ्रावकमाकारितवान् पृष्टवांश्च- 'महाभाग ! पूज्याः श्रीदत्तसूरिभगवन्तोऽधुना किं वा स्थानं पावयन्ति ?' तेनोक्तं 'स्वामिन् ! अधुना ते भगवन्तो हि डिण्डुआणकपुरे विराजन्ते ' । श्रुत्वैतत् सन्तुष्टो राजा तं सम्मान्य प्रेषितवान् स्वयं च रात्रावेव कमप्यनापृच्छ्याऽश्वारूढो गुरुभगवतां पार्श्वे समागतः । ततः प्रभाते गुरुभगवतो वन्दित्वा साञ्जलिविज्ञप्तवान् - प्रभो ! मयि कृपां कृत्वा दीक्षादानेनाऽनुगृह्णन्तु माम्' । गुरुभगवद्भिरपि तस्य शुद्धभावं ज्ञात्वा तद्विज्ञप्तिरङ्गीकृता । ततस्तेन स्वकण्ठस्थितो बहुमूल्य रत्नहारः श्रावकेभ्यो दत्त्वा तन्मूल्येन नूतनं जिनमन्दिरं निर्मातुमुपरुद्धम् । श्रावकैरपि तदङ्गीकृत्य शीघ्रमेव मनोरम्यो जिनालयो निर्मापितो योऽद्याऽपि यशोभद्रनृपस्य मूर्तिमत् पुण्यमिव विलसतितराम् । * ततः प्रशस्ते दिने शुभे मुहूर्ते च राज्ञे गुरु भगवद्भिर्दीक्षा प्रदत्ता । दीक्षावसर एव राज्ञा प्रतिज्ञा कृता यद् - 'अद्यप्रभूति यावज्जीवमेकान्तरदिने उपवासः कर्तव्यः, तत्पारणके चाऽऽचम्लमेव कर्तव्यमिति । दीक्षानन्तरं च यशोभद्रमुनिर्यथाप्रतिज्ञं तीव्रतपश्चरणं शुद्धव्रतपालनं च कुर्वन् सहैव कठोरपरिश्रमेण श्रुतसागरमप्यवगाह्य क्रमश आचार्यपदमपि प्राप्तवान् । अतः परं यशोभद्रसूरय इति विख्यातास्ते बहुषु ग्राम-नगरादिषु विचरन्तो नैकान् भव्यजनान् प्रतिबोधयन्ति स्म यथोचितं साधुव्रतानि श्रावकोचितव्रतानि वा तान् ग्राहयति स्म । एवं च विपुलशिष्यपरिवारयुतास्तेऽन्यदा स्वपदे प्रद्युम्नसूरिरिति स्वीयं समर्थं शिष्यमाचार्यत्वेन स्थापयन्ति स्म । * आ. सोमप्रभसूरिः कुमारपालप्रतिबोधग्रन्थे कथयतीदम् । + आचाम्लमिति दिने एकवारमेव रूक्षः शुष्को रसहीनश्चाऽऽहारो ग्रहीतव्यः । 12 Jain Education Internationa Page #22 -------------------------------------------------------------------------- ________________ तत एकदा तीव्रतपः शोषितदेहास्ते विहरन्तः सपरिवारा उज्जयन्त(गिरनार) पर्वते समागताः । तत्र च द्वाविंशतीर्थकृतां श्रीनेमिनाथस्वामिनां जिनालये दर्शन - वन्दनादिकृत्वा तत्रैवोपविष्टाः सन्तः प्रद्युम्नसूरिप्रमुखान् स्वशिष्यान् कथयन्ति स्म यत् 'निश्चयनयेन तु राग-द्वेष- मोहादिरहितश्चिरासेवितज्ञान-दर्शनचारित्रश्चाऽऽत्मैव तीर्थम् । तथाऽपि प्रदेशोऽयं तीर्थकरपदाक्रान्तः कल्याणकत्रयपवित्रितश्च व्यवहारतस्तीर्थमस्ति । अथ च दुःखावहोऽयं देहोऽन्यत्राऽपि त्यक्तव्य एव तत् कथं नाऽत्र प्रशस्ततीर्थभूमौ त्यज्येत ?' इत्युक्त्वा शिष्यैर्वार्यमाणा अपि ते चतुर्विधमप्याहारं तदानीमेव प्रत्याख्यायाऽनशनं गृहीतवन्तः परमात्मप्रतिमासम्मुखमेव च दत्तदृष्टयो राग-द्वेषादिरहिताश्च परमतत्त्वसमापत्तौ लीना जाताः, दुःषमकाले चाऽपि पूर्वमहर्षीणां मार्गं सम्यगासेव्य त्रयोदशे दिने स्वर्गवासिनः सञ्जाताः । * - तदनन्तरं तेषां पट्टशिष्याः श्रीप्रद्युम्नसूरयोऽपि तपोव्रतपालन-ज्ञानाराधन-मुख्यकर्तव्येषु लीनाश्चिरकालं विहृत्य बहून् भव्यजनान् प्रतिबोधयन्तो जनोपकारं कृतवन्तः सहैव निजजीवनकृत्येषु तिलकायमानं शास्त्रग्रन्थानामलङ्कारायमाणं च स्थानकप्रकरणं नाम ग्रन्थं विरचितवन्तः । अथ तेषां मुख्यशिष्या आसन् जैनागमग्रन्थानां टीकाकृतां श्रीमतामभयदेवसूरीणां सोदरा भ्रातरः श्रीदेवचन्द्रसूरयो, यैर्हि स्वीयतपस्तेजसाऽदूष्यवैदुष्येण निर्मलयशोधवलिम्ना च निखिलं भुवनमाह्लादितं कृतम् । तैश्च प्राकृतापभ्रंशादिभाषामयं श्री शान्तिनाथतीर्थकृतां चरितं स्वगुरुविरचितस्थानकप्रकरणस्य वृत्तिं च विरचय्य जगते स्वीयवैदुष्यं परिचायितमस्ति यदुक्तं सोमप्रभाचार्यैः * श्रीनेमिनाथपरमात्मनां दीक्षा - केवलज्ञान - निर्वाणाभिधास्त्रयः कल्याणका (कल्याणकारिणः प्रसङ्गाः) उज्जयन्तगिरावेव सञ्जाताः । Jain Education InternationaFor Private Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ कयसुकयकुमुयबोहा, चउरचओरप्पमोयसंजणणी । संतिजिणचरियकहा, जुण्हव्व वियंभिया तत्तो ॥ १ ॥ जे ठाणएसु ठविया, पज्जुन्नमुणीसरेण धम्मदुमा | काऊण ताण विवई, ते जेण लहाविया वुद्धिं ||२|| (कुमारपालप्रतिबोधे) ईदृशा बहुश्रुतास्तपस्विनो योगिनश्चैते देवचन्द्रसूरय एव कलिकालसर्वज्ञानां श्रीहेमचन्द्राचार्याणां गुरव आसन् । तथा चैतादृश्यासीत् श्रीहेमचन्द्राचार्याणां गुणगौरविना गुरुपरम्परा । अथेदानीं तेषामेव हृदयाह्लादकर्यां जीवनचरितयात्रायां प्रस्थानं कुर्याम सर्वत्राऽप्रतिबद्धतया विचरन्तो देवचन्द्रसूरयोऽन्यदा गूर्जरदेशस्य धन्धुक्ककनगरे ( इदानींतने धन्धुकानगरे) समागताः । तानागतान् ज्ञात्वा भूयांसो नगरजनास्तान् वन्दितुं धर्मदेशनां श्रोतुं चाऽऽगताः । गुरुभिरपि संसारासारत्वप्रकाशनी उत्तमा धर्मदेशना दत्ता । तां श्रुत्वा सभामध्यस्थित एको देवकुमारसदृशः सुकुमारो वणिक्कुमार उत्थाय साञ्जलिर्व्यज्ञपयत् - 'प्रभो ! जन्म-जरामरणादिलहरीभिः संसारसमुद्रे हियमाणाय मे प्रव्रज्याप्रवहणदानेन तारयन्तु कृपया' । गुरुभगवद्भिरपि श्रुत्वैतदानन्द - विस्मयादिभावयौगपद्ययुतैः पृष्टं - 'कस्त्वं भो भाग्यशालिन् ! कौ च ते पुण्यशालिनौ मातापितरौ ?' तावता तस्य कुमारस्य समीपस्थितेन नेमिनाम्ना जनेन सविनयं निवेदितं - 'प्रभो! अयं चच्च श्रेष्ठिनतत्पत्न्याः शीलवत्या धर्मपरायणायाश्च चाहिणीनाम्न्या मे भगिन्याः पुत्रो निरुपमरूपवान् प्रकृष्टमतिवैभववान् जगदुद्धरणकरणमनोरथवांश्चाऽस्ति । यदाऽयं स्वमातुर्गर्भे समागतस्तदा तया स्वप्ने प्रथमं स्वीयगृहाङ्गणे विशालो रम्यश्चाऽऽम्रवृक्षः फलितो दृष्टः । तदनन्तरमेव स वृक्षस्तस्या गृहं 14 Jain Education Internationa Page #24 -------------------------------------------------------------------------- ________________ त्यक्त्वाऽन्यत्र विशाले रमणीये चोद्याने गतः । तत्र स वृक्षः स्वच्छाया-पर्ण-पुष्प-फलादिभिर्बहूनां जनानामुपकारकर आश्रयस्थानं च जात इत्यपि दृष्टम् । किञ्च, मातुः कुक्षिस्थेऽस्मिन् देशोऽयं निरुपद्रवोऽशिवादिरहितश्च जातः, सर्वत्र च सुकालः प्रवर्तितः । अस्य जन्मसमये दिङ्मुखानि विमलानि जातानि, जन्मस्थले च सगन्धोदक-कुसुमवृष्टिर्जाता, नभसि च दिव्यवादित्राणां नादः प्रसृतः । अस्य जन्मदिनोऽपि वैक्रमीय-११४५तमाब्दस्य कार्तिकी पूर्णिमाऽस्ति । जन्मन आरभ्याऽयं सर्वेषां प्रियः प्रसन्नताप्रदश्चाऽस्ति । अतोऽस्य नाम चङ्गदेव इति स्थापितम् । एतच्छ्रुत्वा चङ्गदेवस्य च सामुद्रिकलक्षणानि पश्यद्भिर्गुरुभगवद्भिर्मधुरस्वरेण कथितं - 'भोः ! अस्य मात्रा स्वप्ने यदुद्यानं दृष्टं तज्जिनशासनमस्ति । तत्र च व्रत-दीक्षाग्रहणपूर्वकं गतोऽयं समस्तशास्त्राणां परमार्थमवगाह्य तीर्थकरवल्लोकोपकारं करिष्यति । अतो भवान् अस्य माता-पितरौ बोधयित्वाऽस्मै दीक्षादानार्थमनुमति दापयतु । बहूनां लोकानामुपकारो भविष्यति' । ततश्चङ्गदेवस्य दीक्षानुज्ञार्थं तैः पित्रोर्बोधनाय बहु प्रयतितं किन्तु पितुरतीवप्रियत्वात् तेन सर्वथा निषिद्धम् । ततो गुरुभगवद्भिस्तन्माताऽऽकारिता कथितं च तत् तस्यै यत् सर्वमपि तन्मातुलस्य कथितमासीत् । तयाऽपि च कथितं - 'प्रभो ! अहमपि जानामि यदयं मे पुत्रो जिनशासनस्यैव न्यासरूपोऽस्ति । किन्तु अस्य पितुरयमतीव प्रियोऽस्ति । अतः सोऽनुमति नैव दास्यत्यस्मै दीक्षाग्रहणार्थम्' । 'अस्तु, यथाकालं सर्वमपि भविष्यती'त्युक्त्वा कतिचिद्दिनानन्तरं गुरुवस्ततो विहृत्य स्तम्भतीर्थं (खम्भातनगरं) प्रति प्रस्थिताः । चङ्गदेवोऽपि च धर्मैकचित्तो व्रतग्रहणे च तीवेच्छुकः पितुरनुपस्थितौ मातुलं मातरं चाऽऽपृच्छ्य गुरुभिः सहैव प्रस्थितः । 15 Jain Education Internationa Page #25 -------------------------------------------------------------------------- ________________ इतश्च वाणिज्यार्थमन्यत्र गतश्चच्चश्रेष्ठी यदा गृहं प्रत्यागतस्तदा स्वपुत्रं अपश्यन् व्याकुलो जातः, स्वपत्न्याश्च पार्वात् तस्य गुरुभिः सहगमनं ज्ञात्वा तया वारयन्त्याऽपि तत्कालमेव स्तम्भतीर्थनगरं प्राप्तः। तत्र च तदा जैनश्रावकः उदयननामा (गूर्जरदेशस्य महामात्यः) दण्डनायक आसीत् । तेन च चङ्गदेवस्य वृत्तं ज्ञातचरमासीत् । अतः सत्वरमेव स गुरुभगवतां पार्वे समागतं चच्च श्रेष्ठिनं यात्राश्रमापनयनाथ बोधनार्थं च स्वगृहमानीतवान् तस्य च यथोचितं सत्कारादि कृतवान् । ततश्चङ्गदेवमपि तत्राऽऽनीय तदुत्सङ्गे उपवेशितवान् । अथैतावताऽपि तस्य मनस्तापो व्याकुलता च नाऽपगताऽऽसीत् । स उग्रवचोभिरुक्तवान् – 'मन्त्रिवर्य ! अहमेनं गृहे नेतुमेवाऽऽगतोऽस्मि । यदि भवान् मे तथाकर्तुं रोधयेत् तदा मया न्यायार्थं सिद्धराजसदसि गन्तव्यं स्यात् । नाऽहं कुतोऽपि बिभेमि' । उदयनमन्त्रिणाऽपि तं भृशं सान्त्वयित्वा साञ्जलि कथितं – 'श्रेष्ठिवर्य ! भवतः पुत्रो भवदुत्सङ्ग एवोपविष्टोऽस्ति । भवान् हि तं गृहे नेतुमपि शक्तस्तथाऽत्राऽऽचार्यभगवतां चरणयोः समर्पयितुमपि शक्तः । यदि स गृहे स्थास्यति तदा भौतिकदृष्ट्या कदाचित् भवत्कुटुम्बस्य किञ्चिच्छ्रेयः साधयिष्यति । यदि धर्मशासनाय तं समर्पयिष्यति भवांस्तदा स स्वेन सह समग्रं देशमपि धर्मपरायणं कृत्वा दिगन्तव्यापिनी कीर्तिमर्जयिष्यति । किञ्च, पश्यतु भवान्, भवानस्ति वणिक् । वाणिज्यं कृत्वा धनं प्राप्नोति । भवाननुभवति यदधिकाधिकधनप्राप्त्याऽपि सन्तोषो नैव भवति । ततोऽप्यधिकं प्राप्तुं लालसा भवत्येव । नाऽयं केवलं भवदनुभवः । ममाऽपि कोटिशो धनमर्जयित्वाऽप्ययमेवाऽनुभवः । तथ्यमिदं पुत्रादिस्वजनमोहविषयेऽपि समानमेव । कियन्तमपि कालं सहाऽवस्थित्याऽपि प्रेम मोहो वा निवारयितुं न शक्यः । प्रत्युत घृतेनाऽग्निरिव वर्धत एव । प्रान्ते च काल एव 16 Jain Education Internationa Page #26 -------------------------------------------------------------------------- ________________ वियोजनेन बलादपि तं निवारयेत् । एतच्च संसारस्य सनातनं सत्यम् । भवानपि चैतज्जानात्येव । अन्यच्च, यच्छ्रेयस्करं कार्य कर्तुमस्मादृशां शरीराणि मनांसि च न प्रभवेयुस्तत्राऽस्य बालस्य शरीरं मनश्चाऽवश्यं प्रभवेत् । एवं स्थितेऽपि केवलं शरीरमोहेन भवांस्तं यदि रोधयिष्यति तदा सत्पथात् तं च्यावयिष्यति केवलम् । तथा कुर्वंश्च भवानस्याऽकल्याणमेव साधयिष्यति' । एतच्छ्रुत्वा किञ्चिदनिश्चितमनस्को जातश्चच्च श्रेष्ठी सहसाऽवदत् - 'भवदुक्तं सत्यं स्यात् । किन्तु धनार्थं पुत्रमपि विक्रीणीयामित्येतादृशोऽधमोऽहं नास्मि' । ___ ‘मा मैवं वदतु चिन्तयतु वा । नाऽहं मूर्योऽस्मि यद् भवन्तं तादृशं परिगणयेयम् । किन्तु भवानेव चिन्तयतु - पत्तनस्याऽग्रगण्यजनानामन्यतमत्वेन शोभिष्यमाणं रत्नमिदं धन्धुक्कनगरे धूलीधूसरं भवितुं कथं वा मंस्यते भवान् ? अपि च, देशस्य गौरवं न केवलं लक्ष्म्यां वाणिज्ये युद्धविद्यायां वा परन्तु धर्मसंस्कारप्रचार-प्रसारेणाऽपि भवति । पत्तनस्थप्रसिद्धजैनाचार्यश्रीशान्तिसूरिविषये तु भवताऽपि श्रुतं स्यादेव । एवं स्थितेऽपि केवलं लौकिककार्यार्थमेव यदि भवांस्तं गृहे नेष्यति तदाऽहं भवन्तं नैव वारयिष्ये, किन्त्वेतावत् तु भवन्तं कथयाम्येव यत् तस्य जीवनसमृद्धिं प्रकटीभवन्ती रोधयन् भवांस्तस्य स्वस्य च जीवनं महापातकयुतमेव करिष्यति । अतः परं भवदिच्छैव प्रमाणम्' - उदयन उक्तवान् । चच्चस्य चित्तं किञ्चिदिव विचारयितुं प्रवृत्तम् । शान्तिसूरेः कथास्तु तेनाऽपि श्रुता आसन् । 'मम पुत्रो महान् धर्मप्रभावको भविष्यति, कदाचित् स धन्धुक्कनगरे आगमिष्यति, तदा च तस्य चरणयोः सहस्रशो जना लोठिष्यन्ति, तस्याऽऽशिषो ग्रहीतुं नरा अहमहमिकयाऽऽगमिष्यन्ति । नरपतयश्च तस्य नामग्रहणेन 17 Jain Education Internationa Page #27 -------------------------------------------------------------------------- ________________ धन्यतामनुभविष्यन्ति । देश-विदेशेषु तस्य यशः प्रसरिष्यति........' स्वप्नं पश्यन्निव चच्चः सहसा जागृतो जातो निर्णयं च गृह्णन् स उदयनमन्त्रिणमवदत् - 'मन्त्रीश्वर ! भवदुक्तं मम सम्मतम् । एषोऽहं भवते मत्पुत्रं समर्पयामि' । मन्त्रिणोक्तं - ‘मा मैवं वदतु भवान् । भवता हि गुरुपादेभ्यः समर्पयितव्यः सः । धन्योऽस्ति भवान् । रत्नत्रय्याः पथि स्वपुत्रस्य समर्पणेन भवता महत् पुण्यमुपार्जितमस्ति । नूनं धन्योऽस्ति भवान्' । ततश्च चङ्गदेवं गृहीत्वा द्वावपि गुरुभगवतां वसतौ गतौ । तेषां च हस्तयोः समर्पितः स चच्चश्रेष्ठिना सानन्दम् । गुरुभगवद्भिरपि स्तम्भतीर्थनगर एव आलिगवसतौ श्रीपार्श्वनाथजिनचैत्ये वैक्रमीये ११५४तमाब्दे माघशुक्लचतुर्दशीदिने शनिवासरे उदयनमन्त्रिकारितमहोत्सवपूर्वकं चतुर्विधश्रीसङ्घस्योपस्थितौ मातापित्रोराशी:पुरस्सरं च दीक्षितश्चङ्गदेवः । तस्य च नाम मुनिसोमचन्द्र इति स्थापितम् । अथ च मुनिः सोमचन्द्रः कुशाग्रबुद्धिरत्यन्तं तेजस्वी चाऽऽसीत् । गुरवोऽपि श्रीदेवचन्द्रसूरयो महाविद्वांसो ज्ञानिनश्चाऽऽसन् । ततश्च जातो मणिकाञ्चनसंयोगः । तस्मिन् युगे लक्षणतर्क-साहित्यानि महाविद्यात्वेन परिगण्यन्ते स्म । सोमचन्द्रेण मुनिना स्वल्पेनैव कालेन तासु तिसृष्वपि विद्यासु तथाऽन्येष्वपि योग-तत्त्वज्ञान-पुराणेतिहास-दर्शनादिविषयेषु आगमेषु च पारगामित्वमधिकारश्च प्राप्तौ । ज्ञानाभ्यासेन सहैव च तेन निर्मलीमसं चारित्रमिन्द्रियजयोऽन्तर्मुखता, शुद्धवैराग्यमुपशमभाव-इत्यादिका गुणा अपि स्वीयजीवने साधिताः । किञ्च, सोमचन्द्रो मुनिर्यद्यपि शास्त्रेषु पारङ्गतो जातस्तथाऽपि तस्य हार्दोऽभिलाषस्तु वाग्देव्याः साधनां कृत्वा सिद्धसारस्वतीभवनस्याऽऽसीत् । तदर्थं हि काश्मीरदेशं गत्वा काश्मीरवासिनी 18 Jain Education Internationa Page #28 -------------------------------------------------------------------------- ________________ सरस्वती देवी आराधनीयेति निश्चित्य तेन स्वभावना गुरुभगवद्भ्यो निवेदिता । तैरपि प्रसन्नतया स्वीकृत्य काश्मीरदेशं प्रति विहर्तुमारब्धम् । अथ च पादचारेण गच्छतां तेषां कतिचिद्दिनानन्तरमेवैकदा स्वयं काश्मीरवासिनी वाग्देवी प्रत्यक्षीभूता कथितवती च 'वत्स ! तव भक्त्या साधनया च प्रसन्नाऽहं तेऽभिलाषं पूरयामीहैव । अतो न त्वया काश्मीरदेशं यावदागन्तव्यम्' । एवं च देव्या प्रदत्तेन वरदानेन मुनिः सिद्धसारस्वतो जातः । * अथाऽन्यदा मुनिः सोमचन्द्रः स्वीयगुरुभिः सह कस्यचिच्छ्रावकस्य गृहे तत्प्रार्थनया भिक्षार्थं गतवान् । स हि श्रावकः पूर्वमतीव धनवानासीत्, किन्तु कर्मोदयात् स निर्धनो जातः । तेन स्वकृते प्रगुणितं काञ्जिकं गुरुभगवद्भ्यः प्रदत्तम् । एतद् दृष्ट्वा परितः पश्यता मुनिना मन्दस्वरेण गुरुभगवद्भ्यः कथितं 'प्रभो! कियान् कृपणोऽयं श्रावको यः स्वगृहे कनकभरैः पूर्णे सत्यपि काञ्जिकं प्रदत्ते ?' । एतत् कथनं स श्रावकः श्रुतवान् । तेनाऽपि परितो दृष्टम् । तस्य गृहेऽङ्गाराणां राशिरेव सर्वत्र विकीर्ण आसीत् । किन्तु चतुरः स मुनेः सोमचन्द्रस्य कथनस्याऽऽशयमगवतवान्, यावच्च गुरवः किञ्चिद् विचारयेयुस्तावत् तेन स्वहस्ताभ्यां मुनिरुत्पाट्याऽङ्गारराशावेवोपवेशितः । पुण्यवतो मुनेः स्पर्शनेनैव स राशिः सुवर्णत्वेन परावृत्तो जातः । एतेन हृष्टः स * एवमेव अम्बिकादेव्यपि तस्योपरि प्रसन्नीभूता तस्मै वरं दत्तवतीत्यपि प्रबन्धैर्ज्ञायते । तथाहि - आचार्यदेवेन्द्रसूरिः मुनिः सोमचन्द्रः, मुनिर्मलयगिरिश्चेत्येभिस्त्रिभिरपि कठोरसाधनयाऽम्बिका देवी प्रसन्नीकृता त्रिभ्योऽपि यथेप्सितं वरं प्रददौ । तत्र देवेन्द्रसूरिणा तीर्थोद्धारस्य, सोमचन्द्रेण राजप्रतिबोधस्य, मलयगिरिणा च सिद्धान्तग्रन्थानां विवरणलेखनस्य वरं याचितम् । + अद्यत्वेऽपि प्राचीननगरेषु (निधानतया निखातं ) धनं खननकालेऽङ्गारराशित्वेन बहुधा प्रकटीभवति, किन्तु कस्यचिद् भाग्यवतः पुण्यैस्तदेव सुवर्णतयाऽपि प्रकटीभवति । , — 19 Jain Education Internationa Page #29 -------------------------------------------------------------------------- ________________ श्रावक उच्चैरुक्तवान् - 'प्रभो ! नाऽयं मुनिः सोमचन्द्रोऽपि तु हेमचन्द्रः, यतः प्रत्यक्षं स्वर्णपुरुषोऽयं शुद्धचारित्रनिष्ठश्च' । स गुरुभगवद्भयो विज्ञप्तवानपि यद् - 'गुरवः ! कृपया गुणगणनिधयेऽस्मै मुनये आचार्यपदप्रदानं कुर्वन्तु । तदर्थं च जायमानं सर्वमपि व्ययभारमहमेव निर्वक्ष्ये । तत्र च महोत्सवकरणस्य लाभमपि मह्यमेव ददतु' । इतश्च, यदा मुनिः सोमचन्द्रः प्रवचनं दत्ते स्म तदा जनास्तस्य वाण्यां सारल्यं, सरसत्वं, भाषाशुद्धिं, तार्किकतां, दृष्टान्तकथनं, गभीरतां, काव्यशक्तिं च विलोक्य मन्त्रमुग्धा इव विशुद्धानन्दमनुभवन्ति स्म, महामात्य उदयनस्तु तां श्रुत्वा गर्वमनुभवति स्म, किंबहुना ? गुरुभगवन्तोऽपि तदाकर्ण्य प्रसन्नतामनुभवन्ति स्म । अतस्तैरपि मुनेः सोमचन्द्रस्य सर्वतोग्राहि-विद्वत्तां विलक्षणप्रतिभा विशुद्धचारित्रनिष्ठां योग्यतां च निरीक्ष्य तस्यैकविंशे एव वयसि वैक्रमीये ११६६तमे वत्सरे वैशाखशुक्लतृतीया (अक्षयतृतीया)दिने आचार्यपदप्रदानं निर्णीतं, महामहोत्सवपुरस्सरं च नागपुर(नागौर)नगरे चन्दनादिभिर्दक्षिणकर्णं चर्चयित्वा सूरिमन्त्रं च श्रावयित्वा मुनये सोमचन्द्रायाऽऽचार्यपदं प्रदत्तम् । पदप्रदानावसरे च तस्य नामाऽपि परावर्त्य नूतनं नाम 'आचार्यहेमचन्द्रसूरि 'रिति स्थापितम् । इतः परं ते आचार्यहेमचन्द्रसूरय इति विश्रुता जाता जगति । तस्मिंश्चाऽऽचार्यपदप्रदानमहोत्सवे आचार्यश्रीहेमचन्द्रसूरीणां माता - चाहिणी अपि उपस्थिताऽऽसीत् । तया च तदवसरे दीक्षाग्रहणार्थं स्वभावना प्रदर्शिता । तदा गुरुभिरपि तद्भावनामङ्गीकृत्य सा दीक्षिता साध्वीसङ्के च प्रवेशिता । तदानीमेव च नूतनाचार्यैः स्वमातुरुपकाराणां वात्सल्यभावस्य च स्मृत्या तस्यै प्रवर्तिनी पदमपि प्रदत्तम् । * जैनसाध्वीनां सर्वोच्चं पदम् । 20 Jain Education Internationa Page #30 -------------------------------------------------------------------------- ________________ तदनन्तरं प्रायो वर्षाभ्यन्तर एवाऽर्थात् वैक्रमीये ११६७ तमे संवत्सरे गुरु भगवन्तः श्रीदेवचन्द्रसूरय इहलोकं त्यक्त्वा समाधिपूर्णमृत्युना स्वर्लोकमलञ्चक्रुः । आचार्याः श्रीहेमचन्द्रसूरयस्तु ततो विहृत्याऽहिल्लपुरपत्तनं प्राप्ताः । तदात्वे तत्र सिद्धराजो जयसिंहः शास्ति स्म । स ह्येकदा गजारूढः सन् राजमार्गेण सपरिवारो गच्छन्नासीत् । तावता तेन पुरतः समागच्छन्त आचार्याः श्रीहेमचन्द्रसूरयो दृष्टाः । अतः स तेषां सम्मुखं गत्वा सप्रणाममुक्तवान् - 'आचार्यवर्याः ! किं भवद्भिः किञ्चिद् वक्तव्यं वा ?' तदा प्रत्युत्पन्नमतिभिस्तैः सस्मितं कथितं " कारय प्रसरं सिद्ध ! हस्तिराजमशङ्कितम् । त्रस्यन्तु दिग्गजाः किं तैर्भूस्त्वयैवोद्धृता यतः ॥" एतच्छ्रुत्वा सिद्धराजोऽतीव प्रसन्नो जातः । स तान् स्वीयमास्थानमलङ्कर्तुमामन्त्रितवान् । सिद्धराजो जयसिंहो हि चौलुक्यवंशीयो नृप आसीत् । अतः प्रथमं चौलुक्यवंशस्य परिचयं प्राप्नुयाम । वैक्रमीये ८०२ तमे संवति वनराजचापोत्कटेनाऽऽनर्त्तप्रदेशे स्वीयराज्यस्य चापोत्कटवंशस्य च स्थापनं कृतम् । तदैव च अणहिल्लपुरपत्तननामकं नूतनं नगरं तेन स्वराज्यस्य राजधानीतयाऽऽवासितम्। तस्य गुरवो हि जैनाचार्याः श्री शीलगुणसूरय आसन् मन्त्रिणश्चाऽपि जैना आसन् । वनराजश्च गूर्जरक्षत्रिय आसीत् । अतस्तद्राज्यं गौर्जरत्रेत्यभिधं प्रसिद्धम् ।* स हि ८६८ तमे वैक्रमाब्दे १०९ वर्षवयसि स्वपुत्रं योगराजं नृपत्वेन संस्थाप्य स्वर्गतः । + योगराजोऽपि हि विंशत्यधिकशतवयाः ८९७ तमे संवति * गौर्जरत्रमिदं राज्यं वनराजात् प्रभृत्यपि । स्थापितं जैनमन्त्र्याद्यैस्तद्वेषी नैव नन्दति ॥ ( प्रबन्धचिन्तामणि:) + ७५२ त: ८६८ तमं वैक्रमाब्दं यावत् तस्य जीवनम् । 21 Jain Education Internationa Page #31 -------------------------------------------------------------------------- ________________ स्वपुत्राणामपराधस्य प्रायश्चित्तं कर्तुमग्नौ प्रविश्य मृतः । ततस्तत्पुत्रः क्षेमराजः ९२२तमं वर्षं यावद्देशं शासितवान् । तत: ९२२तमे वर्षे भूयडो नृपो जातः । तत: ९५१ तमे वर्षे वैरसिंहः ९७६तमे च वर्षे रत्नादित्यो राजाऽभवत् । ९९१ तमे वत्सरे सामन्तसिंहश्चापोत्कटो राजा जातः । किन्त्वेतावता हि कालेनैतेषां साम्राज्यं किञ्चिन्निर्बलमिव जातमासीत् । अथ च सामन्तसिंहस्याssस्थाने एकदा त्रयश्चौलुक्यवंशीया राजपुत्रा राज - बीज - दण्डकनामानः समागताः । तेषां च ज्येष्ठस्य राजस्याऽश्वपरीक्षण-शस्त्रचालनादिनैपुण्यं पराक्रमं च दृष्ट्वा प्रसन्नेन सामन्तसिंहेन स्वभगिनी लीलादेवी तस्य परिणायिता । राजोऽन्यदा कच्छदेशं गतवानासीत् । तदा तत्रत्येन नृपेण लाक्षाकेण सहसैव सोऽसिना निहतः । एतद् वृत्तं ज्ञात्वा तीव्रशोकाहता तत्पत्नी लीलादेवी तदसहमाना मृता । सा हि तदा गर्भवत्यासीत् । अतो मन्त्रिभिस्तदुदरं विदार्य कथमपि बालको रक्षितः । स हि मूलनक्षत्रे जातोऽतस्तन्नाम मूलराज इति स्थापितम् । स च स्वमातुलस्याऽत्यन्तं प्रियस्तत्पार्श्व एव वर्धमानो यथाक्रमं सर्वा अपि कलाः शिक्षितवान्, यौवनं च प्राप्तः । इतश्च, सामन्तसिंहो मद्यप आसीत् । अतो यदा कदापि पानमत्तः स मूलराजं नृपत्वेन स्थापयति स्म, मदापगमे तु स्वयं नृपो भवति स्म । राज्यमपि च तदानीं बहुभिः शत्रुभिराक्रान्तमासीत् । सामन्तसिंहस्य च तान् प्रतिकर्तुं सामर्थ्यं नाऽऽसीत् । अतो राजपुरुषाणां सूचनया साहाय्येन चैकदा मूलराजः स्वमातुलं हत्वा स्वयमेव नृपो जातो गूर्जरत्राराज्ये च चौलुक्यवंशं स्थापितवान् । १. असेव्या मातङ्गाः परिगलितपक्षाः शिखरिणो, जडप्रीति: कुर्मः फणिपतिरयं च द्विरसनः । इति ध्यातुर्धातुर्धरणिधृतये सान्ध्यचुलुकात्, समुत्तस्थौ कश्चिद् विलसदसिपट्टः स सुभटः ॥ (इति चौलुक्यक्षत्रियाणामुत्पत्तिः ।) 22 Jain Education Internationa Page #32 -------------------------------------------------------------------------- ________________ स हि बहुपराक्रमं कृत्वा शत्रुभ्यो देशं रक्षितवान् निष्कण्टकं च कृतवान् । तेन स्वपितृघातको लाक्षाकोऽपि निहतः, सौराष्ट्रदेशीयो महालुण्टाको ग्राहरिपुरपि वशीकृतः । एवं सौराज्यं कृत्वा, पितृसदृशमातुलवधपातकेन सन्तप्तहृदयो सिद्धपुरे रुद्रमहालयनामकं शिवमन्दिरं कारयित्वा कान्यकुब्ज - काश्यादिप्रदेशेभ्यो ब्राह्मणानाकार्य तांस्तत्र वासितेवान्, तान् अन्यांश्च ब्राह्मणान् महादानैः समृद्धीकृत्याऽन्यदा मातुलवधप्रायश्चित्तरूपेणाऽग्निस्नानं कृत्वा देहं त्यक्तवान् । मूलराजस्य पुत्रश्चामुण्डराजः १०५२तमे वैक्रमे संवति राजाऽभवत् । सोऽपि स्वपितुरिवाऽत्यन्तं पराक्रमी आसीत् । तस्य पराक्रमेण मालवेश: सिन्धुराजः कान्दिशीकीभूय रणाङ्गणात् पलायितस्तथा लाटसेनापतिं बारपनामानमपि स वशीकृतवान् । स १०६६तमे संवति शुक्लतीर्थेऽनशनं प्रपद्य स्वर्गतः । तदनु तस्य पुत्रो वल्लभराजो नृपो जातः, किन्तु केनचिदज्ञातव्याधिना स षण्मास्यैव मृतः । अतस्तस्य लघुभ्राता दुर्लभराज : १०६६तमे वैक्रमाब्दे राजाऽभवत् । तेन द्वादशाब्दीं यावन्न्याय्येन पथा राज्यं पालितं नैकानि च सत्कार्याणि विहितानि । ततः स वानप्रस्थत्वं स्वीकृत्य राज्यं च स्वीयलघुभ्रातुष्पुत्राय भीमदेवाय दत्त्वा तीर्थाटनमकरोत् । भीमदेव : १०७८ तमे वैक्रमीये वर्षे गूर्जरत्रादेशस्य राजा जात: । तस्य शासनस्य प्रारम्भ एव (१०८१तमे वैक्रमाब्दे, ३।१।१०२५तमे ऐसवीये दिनाङ्के) गझनीवास्तव्येन मोहम्मदाख्येन भीमदेवस्य पूर्णप्रतिकारे सत्यपि सोमनाथमहादेवस्य विश्रुतो देवालयो लुटितो विनाशितश्च । तस्य प्रतिगमनानन्तरं भीमदेवेन स्वीयं राज्यं व्यवस्थितं कृतम् । मित्रनृपाणां साहाय्येन स २. औदीच्या ब्राह्मणा इति विश्रुता एतेऽद्याऽपि तत्रैव वसन्ति । 23 Jain Education Internationa Page #33 -------------------------------------------------------------------------- ________________ सिन्धुदेशनृपं जितवान् काशीपति-कलचूरी-कर्णदेवाभ्यां च सह अवन्तीपतिं भोजराजमपि पराजितवान् । तस्य मन्त्री विमलः अर्बुद(आबु)पर्वतोपरि देवकुलपाटके( देलवाडा) विश्वविश्रुतं विमलवसतिनामकं जिनालय- मारासणशिलया निर्मापितवान् । तस्य त्रयः पुत्रा आसन् । क्षेमराजः*, मूलराजः (द्वितीयः), कर्णदेवश्च । क्षेमराजो हि राज्यग्रहणं निराकृत्य संन्यस्तं गृहीतवान् । मूलराजस्तु यद्यप्यत्यन्तं तेजस्वी आसीत् किन्तु लघुवयस्येव मृतः। अतो भीमदेवः वैक्रमीये ११२० तमे वर्षे कर्णदेवं राज्येऽभिषिक्तवान् । आशापल्ल्या भिल्लान् जित्वा कर्णदेवेन कर्णावती(अहमदाबाद)नगरं वासितम् । कर्णाटकस्य राज्ञो जयकेशिनः पुत्र्या मयणल्लदेव्या तस्योद्वाहो जातः । तयोः पुत्रः सिद्धराजो जयसिंहः आसीत् । अथ क्षेमराजपुत्रो देवप्रसादो यद्यपि कर्णदेवानन्तरं राज्याधिकारी आसीत्, तथाऽपि स्वपितृव्यस्य कर्णदेवस्येच्छा सिद्धराजाय राज्यदाने आसीदतस्तत्समाधानार्थं देवप्रसादेनाऽग्निप्रवेशं कृत्वा प्राणास्त्यक्ताः । कर्णदेवेनाऽपि सिद्धराजो जयसिंहोऽष्टवर्षमिते वयस्येव राज्येऽभिषिक्तः । सिद्धराजस्य च देवप्रसादपुत्रेण त्रिभुवनपालेन सह गाढमैत्र्यमासीत् । तौ द्वावपि समानबल-शीलौ समानशौर्यवन्तौ च सहैव सर्वमपि कलाकलापं शिक्षितवन्तौ । एवं सत्यपि त्रिभुवनपालस्तं सेवकवत् सेवते स्म, तदादेशानुसारं च वर्तते स्म । अथ च सिद्धराजो जयसिंहो लघुवयस्येव बहून् पराक्रमान् कृत्वा स्वीयराज्यं निष्कण्टकं कृतवान्, बर्बरकनामानं राक्षसकल्पं महाशूरं चाऽपि जितवानासीत् । तस्य शौर्यमनितरसाधारणं, कीतिर्दिगन्तव्यापिनी राजनीतिश्च दिग्विजयिनी आसीत् । स विद्वान् विद्यारसिकश्चाऽऽसीत् । तथाऽपि विक्रमादित्यस्येव शुभ्रं * क्षेमराजपुत्रो देवप्रसादः, तत्पुत्रस्त्रिभुवनपालः, तत्पुत्रश्च कुमारपालः । 24 Jain Education Internationa Page #34 -------------------------------------------------------------------------- ________________ यशः प्राप्तुं मालवदेशमिव च गूर्जरदेशमपि संस्कार-सरस्वतीभ्यां समृद्धीकर्तुं तन्मनसि महेच्छाऽऽसीत् । कस्मिन्नपि विषये गूर्जराणां लाघवं तं पीडयति स्म । गूर्जराः सुभटाः, विद्वांसः, साधवः, सुन्दर्यः समाजनेतारश्चेति सर्वेऽपि गौरवान्विता एव स्युरिति समीहा तं निद्रातुमपि न दत्ते स्म । गूर्जरदेशे इदं नास्तीति वचोऽपि तद्धृदये शल्यायते स्म । तस्याऽऽस्थानस्य वैभवं दृष्ट्वा महान्तो नरपुङ्गवाः महापण्डिताश्चाऽपि चकिता भवन्ति स्म । तत्र साधारणः पण्डितस्तु प्रवेष्टुमपि नाऽर्हति स्म । स साहित्यादारभ्य सौन्दर्य यावत् सर्वविषयेष्वपि रसं दर्शयति स्म, दार्शनिकचर्चासु तत्त्वज्ञाने चाऽप्यानन्दं प्राप्नोति स्म । तस्य महेच्छानां पार एव नाऽऽसीत् । स इच्छति स्म यद् गूर्जरदेशे पत्तननगरे चैकः कालिदासः स्यात् यः स्वीयकाव्यैर्गुर्जरदेशस्य गौरवं समुन्नतं कुर्यात्, योः रघुवंशसदृशीं तादृशीं कृतिमेकां रचयेत् यां श्रुत्वा पठित्वा च धन्यंमन्यः सर्वोऽपि गौर्जरो जनश्चौलुक्यवंशीयानां कीर्तिमाकालं गायेत्, यश्च विद्यासंस्कारादिभिनिसर्गत एव सर्वोत्तमः प्रतिभाशाली च साहित्यकारः स्यात्, ईदृशं साहित्यस्वामिनं स शोधयन्नासीत् समग्रेऽपि देशे । स्वान्वये सर्वोत्तमा शिल्पकला, सर्वश्रेष्ठं साहित्य, सर्वोदात्ताः प्रजाश्च वर्तेरन् इति तस्य महाकाङ्क्षाऽऽसीत् । तस्य महिमानं समग्रभारतवर्षस्याऽनेके राजानो भय-प्रशंसा-मैत्र्यादिभावैनिरीक्षमाणा आसन् । यदा पत्तने राजपाटिकायां व्रजतस्तस्य हेमचन्द्राचार्यैमिलनं जातं, तैश्च तस्य प्रशस्तिरूपः श्लोकः श्रावितस्तदाऽत्यन्तं प्रसन्नेन सिद्धराजेन चिन्तितं - 'नूनमेते महात्मानो मे सर्वानपि स्वप्नानभिलाषांश्च सफलीकरिष्यन्ति' । अतः स तान् स्वीयास्थाने आमन्त्रितवान् । हेमचन्द्राचार्यैरपि तस्य मनोरथाः स्वप्नाश्च लक्षिताः । अतस्तेऽपि तान् पूरयितुकामा इव प्रत्यहं सिद्धराजस्याऽऽस्थानं गन्तुमारब्धाः । 25 Jain Education Internationa Page #35 -------------------------------------------------------------------------- ________________ अथ च वैक्रमीये ११८१तमे संवति सिद्धराजजयसिंहस्य राजसभायां श्वेताम्बराचार्यवादि-श्रीदेवसूरि- दिगम्बराचार्यकुमुदचन्द्रयोर्मध्ये जैनसिद्धान्तानाश्रित्य वादो जात: । तत्राऽयं पण आसीद् यद् यदि श्वेताम्बराः पराजिताः स्युस्तदा तैः सर्वैरपि दिगम्बरत्वं स्वीकरणीयं, यदि च दिगम्बराः पराजिताः स्युस्तर्हि तैः सर्वैरपि देशत्यागः करणीयः * । किन्तु वादिश्रीदेवसूरिभिः प्रतिष्ठापितान् तर्कान् अन्यांश्च चतुरशीतिप्रश्नान् प्रत्युत्तरयितुमक्षमाणां दिगम्बराणां वाचो मुद्रिताः । तैः पराजयं स्वीकृत्य देशत्यागः कृत: । अस्मिंश्च वादावसरे श्रीदेवसूरीणां सहायकत्वेन श्रीहेमचन्द्राचार्या अप्यासन् । समाप्ते च वादे वादिश्रीदेवसूरीन् स्तुवद्भिर्हेमचन्द्राचार्यैरुक्तम् - यदि नाम कुमुदचन्द्रं नाऽजेष्यद् देवसूरिरहिमरुचिः । कटिपरिधानमधास्यत कतमः श्वेताम्बरो जगति ? || अनेन वादजयेन तुष्टो राजा जयमुपलक्ष्य राजविहारनामकं जिनप्रासादं निर्मापितवान् । तत्र च प्रतिष्ठावसरे बहवः पण्डिताः समागता आसन् । तेषु चैको महापण्डितो भागवतो देवबोधोऽप्यासीत् । तस्य विद्वत्ता प्रतिभाचाऽनन्यसाधारणी आसीत् । सहैव स गर्वोन्नतोऽप्यासीत् । तेन हि जिनप्रतिष्ठावसरे स्तुतिं कुर्वता कथितम् एको रागिषु राजते प्रियतमादेहार्धहारी हरो नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात् परः । दुर्वारस्मरघस्मरोरगविषव्यासङ्गमूढो जनः । शेषः कामविडम्बितो न विषयान् भोक्तुं न मोक्तुं क्षमः ॥ स्तुतिश्लोकमेनं श्रुत्वा तत्र स्थिताः सर्वेऽपि जना * राजमाता मयणल्लदेवी स्वीयपितृपक्षे दिगम्बरमतावलम्बिनी आसीत्, आचार्यकुमुदचन्द्रश्च तत्कुलगुरुरासीत् - इत्यतोऽयं पक्षपातः ॥ 26 Jain Education Internationa Page #36 -------------------------------------------------------------------------- ________________ विस्मयचकिता जातास्तस्य च धन्यवादान् कथितवन्तः । राज्ञाऽपि स स्वीयास्थाने समागन्तुमामन्त्रितः । राज्ञो मुख्य आस्थानकविर्हि श्रीपाल आसीत् । केनचित् कारणेन तस्य देवबोधकविना सह वैमनस्यं जातम् । अथैकदा देवबोधो हेमचन्द्राचार्यान् मिलितुं तदुपाश्रयं गतवान् । तदा तत्र श्रीपालः कविरप्युपविष्ट आसीत् । तेनाऽऽचार्या विज्ञप्ताः – “एनं माऽत्राऽऽगन्तुमनुमन्यध्वम्' । तदाऽऽचार्यैः कथितं - ‘एतद्धि नोचितम् । स हि सिद्धसारस्वतो महापण्डितश्च । यदि स निरभिमानीभूय स्वयमेवाऽत्राऽऽगच्छेत् तदा सोऽवश्यं सत्कर्तव्यः'। तत आगतं तं देवबोधपण्डितं हेमचन्द्राचार्याः सत्कृत्य स्वसमीप एवोपवेशितवन्तः समयोचितवचनैश्च तं प्रीणितवन्तः। एतेन तुष्टः स महापण्डितः हेमचन्द्राचार्यान् स्तुवन् कथितवान् - पातु वो हेमगोपालो दण्ड-कम्बलमुद्वहन् । श्लोकार्धमेनं श्रुत्वा श्रीपालः कविरन्ये च तत्र स्थिता जनाः किञ्चिद् रोषमिश्रितमाश्चर्यमनुभूतवन्तो यावत् तावत् तेनाऽन्यच्छ्लोकार्धमपि कथितं - षड्दर्शनपशुग्रामं चारयन् जैनगोचरे ॥ एतन्निशम्य सर्वेऽपि प्रसन्ना जातास्तं च महापण्डितं भूयो भूयः प्रशंसितवन्तः । तत आचार्यैरपि तेन सह सम्भाषणं कृतं श्रीपालकवेस्तस्य च वैमनस्यं निवार्य द्वयोरपि मैत्र्यं साधितम् । यतो हि साधोः प्रथमो धर्मस्तु वैरनिवारणमेव विद्यते । तथा हेमचन्द्राचार्याणामपि जीवनमन्त्रः सर्वत्र सौमनस्यं समन्वयश्चैवाऽऽसीत् । प्रवृत्तं सर्वं ज्ञात्वा सिद्धराजोऽपि प्रसन्नो जातस्तस्य वृत्तिश्च 27 Jain Education Internationa Page #37 -------------------------------------------------------------------------- ________________ हेमचन्द्राचार्यान् प्रत्यधिकाधिकं प्रह्वीभूता । यद्यपि तस्य देवबोधकवेः श्रीपालकवेश्चेत्युभयोरप्याशाऽऽसीत्, किन्तु देवबोधस्य प्रतिभावत्त्वेऽपि गर्विष्ठत्वात् श्रीपालकवेश्च साधुचरितत्त्वे ऽपि तादृशप्रतिभारहितत्वात् स आचार्यान् प्रत्येव समाकृष्टः । इतश्चाऽन्यान्यकार्यैः सह हेमचन्द्राचार्याणां विद्याकार्यमपि सन्ततं प्रवरीवर्ति स्म । आदिनं विविधग्रन्थानां परिशीलनं, संशोधनं, नूतनग्रन्थसर्जनं लेखनं चेत्येव तेषां प्रवृत्तिरासीत् । तथा तेषां जीवनमत्यन्तं विशुद्धमासीत्, तेषां व्यवहारो मनो-वाणीकर्मणामद्वैतपूर्वकः संयमयुतश्चाऽऽसीत्, एतेन सहोच्चाध्यात्मिकी भूमिकां, सर्वजीवै: सहाऽऽत्मौपम्यं, शत्रूनपि जयतो विनय-नम्रतामृदुतार्जवादिगुणांश्च दृष्ट्वा सनृपाः सर्वेऽपि जना अमन्त्रमाकर्षणमनुभवन्त इव तेषां समीपमागच्छन्ति स्म सर्वत्र च तान् स्तुवन्ति ― आचार्या बहवोऽपि सन्ति भुवने भिक्षोपभोगक्षमा नित्यं पामरदृष्टिताडनविधावत्युग्रजाग्रत्कराः । चौलुक्यक्षितिपालभालदृषदा स्तुत्यः स एकः पुनर्नित्योत्तेजितपादपङ्कजनख: श्रीहेमचन्द्रो गुरुः ॥ श्रीहेमचन्द्राचार्याणां हार्दिकी भावना तु समग्रेऽपि भारतवर्षे विहृत्य लोकानुग्रहकरणस्याऽऽसीत्, किन्तु राज्ञः सिद्धराज - जयसिंहस्याऽन्येषां चोपरोधात् तथागूर्जरदेशे विशेषतश्चाऽणहिल्लपुरपत्तने वासेऽधिकं परोपकारादिलाभं दृष्ट्वा ते तत्रैव स्थिताः । तत्र च प्रत्यहं राजास्थाने गच्छतां तेषां समुदारदृष्टि-सर्वग्राहिविद्वत्ता- तीव्रमेधाऽनन्यसदृशकाव्यप्रतिभा-समन्वयवादिताप्रमुखगुणानामधिकाधिकपरिचयेन राजा तान् प्रति विशेषसमादरवान् जातो, जातश्चाऽयं मणि- काञ्चनसंयोग उभयोः, यतः एक आसीत् युगनिर्माताऽन्यश्च संस्कारनिर्माता, एकः समरविजयी अन्य: 28 Jain Education Internationa Page #38 -------------------------------------------------------------------------- ________________ स्वविजयी, एकः काव्य-कलाप्रियोऽन्यः काव्य-कलासर्जकः, एकः प्रचण्डशक्तिमान् अन्यस्तु असाधारणपाण्डित्यवान् । राज्ञो हि स्वस्वप्ना आचार्यै रेव फलिष्यन्तीति श्रद्धा दृढा जाता ।। अथ च राज्ञो वृत्तिं तान् प्रत्येव प्रह्वीभूतां, तेषां च सर्वत्राऽधिकं महत्त्वं दृष्ट्वा बहूनां हृदयेषु ईर्ष्याग्निः प्रज्वलितः । चिन्तितं च तैर्यद् 'यद्येवमेव राजा एतादृशान् महत्त्वयुतान् करिष्यति तदाऽस्माकं काऽपि गणना नैव भविष्यति' । अतस्ते 'कथमपि हेमचन्द्राचार्याणां छिद्रान्वेषणं कृत्वा राज्ञे तन्निवेदनीयं राज्ञा च तिरस्कारणीयास्ते' इत्याशया छिद्रान्वेषणे प्रवृत्ताः । इतश्च चैत्यपरिसरे प्रत्यहं हेमचन्द्राचार्याणां धर्मोपदेशरूपाणि प्रवचनानि प्रवर्तन्ते स्म । बहवः श्रावकजना अन्येऽपि चाऽऽचार्यगुण-वाण्यादिभिः समाकृष्टाः प्रधानपूरुषास्तानि श्रोतुं समागच्छन्ति स्म । तदैकदाऽऽचार्यैः स्थूलभद्रमुनेः कथा श्राविता यथा - कथं स्थूलभद्रेण संसारत्यागः कृत, कथं चाऽऽत्मसाधनां कृत्वा कामविजयो जितेन्द्रियत्वं च साधितं, ततश्च कथं पूर्वपरिचितवेश्यागृहे चातुर्मास्यं कृत्वा षड्रसयुतं भोजनं गृह्णताऽपि मनसि स्मरस्याऽवकाशो न दत्तः प्रत्युत सा वेश्या धर्ममार्गे प्रतिबोध्य व्रत-नियमादि ग्राहितेति । धर्मकथां श्रुत्वेमां जनाः प्रसन्ना जाताः स्थूलभद्रमुनेश्च वैराग्यं प्रशंसितवन्तः । किन्तु तत्राऽवसरे कश्चनेालुरपि तत्रोपस्थित आसीत् । तेन च 'लब्धं मयेदं छिद्र'मिति हृष्यता द्वितीयदिने राजपर्षदि सर्वेषां पुरतः कथितं 'यदेते जैनाचार्याः कीदृगसमञ्जसं कथयन्ति ननु ? किं कश्चन वेश्यागृहेऽप्युषित्वा षड्रसमयं भोजनमपि च कृत्वा विरागी स्थातुं शक्तः खलु ? श्रूयताम् - विश्वामित्र-पराशरप्रभृतयो ये चाऽम्बु-पत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । 29 Jain Education Internationa Page #39 -------------------------------------------------------------------------- ________________ आहारं सघृतं पयो- दधियुतं ये भुञ्जते मानवा स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥' एतन्निशम्य सिद्धराजजयसिंहेन सादरमाचार्याः पृष्टाः 'प्रभो ! किमत्र तत्त्वम् ?' आचार्यैरपि स्वस्थतया कथितं - 'राजन् ! एतस्य कथनमुचितमेव, किन्तु तत् पामरानाश्रित्य । सिंहसदृशपराक्रमाणां त्वन्यदेव विलसितं यदुक्तम् --- सिंहो बली द्विरदशूकरमांसभोजी संवत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि कामी भवत्यनुदिनं बत कोऽत्र हेतुः ? ॥' एतच्छ्रवणेन प्रसन्नो नृपस्तमीर्ष्यालुं कथितवान् - 'भोः ! त्वयाऽत्र किमपि वक्तव्यं वा ?' तदा स एतत्प्रत्युत्तरं दातुमक्षमोऽधोमुख उपविष्टः । राजाऽपि च तं सभाजनांश्चोद्दिश्य कथितवान् - 'प्रत्युत्तरं दातुं यदि सामर्थ्यं न स्यात् तदा राजसभायां यथाकथञ्चित् कथनेन स्वीयलघुतैव प्रकटीभवति' । एतेन स लज्जितो जातः । अथैकदा केनचिदन्येनेर्ष्यालुना राजसभायां कथितं राज्ञे 'स्वामिन् ! एते जैना: सर्वथा नास्तिकाः सन्ति, ते प्रत्यक्षदैवतमपि सूर्यं न मन्यन्ते, तत्पूजादिकं च नैव कुर्वते' । एतच्छ्रुत्वा राज्ञाऽऽचार्याभिमुखमवलोकितम् । तदा हेमचन्द्राचार्यैः प्रत्युत्पन्नमतितया कथितं 'राजन् ! वयं जैना यथा सूर्यमाराधयामस्तथा तु न केऽप्याराधयन्ति । तस्मिन् नभस्तलस्थित एव वयं जलाशनादि गृह्णीमो नाऽन्यथा । - 30 Jain Education Internationa Page #40 -------------------------------------------------------------------------- ________________ अधाम धामधामेदं वयमेव हृदि स्फुटम् । यस्याऽस्तव्यसनं प्राप्ते त्यजामो भोजनोदके ।। अन्ये तु न परमार्थतः सूर्याराधकाः, यतः पयोदपटलैश्छन्ने नैव कुर्वन्ति भोजनम् । अस्तङ्गतेऽतिभुञ्जाना अहो भानोः सुसेवकाः ॥ अस्तङ्गते च सूर्ये भोजनादीनां त्यागादि महत्फलं प्राप्येत । एतदर्थे च महर्षिणा व्यासेनाऽप्युक्तम् ये रात्रौ सर्वदाऽऽहारं वर्जयन्ति सुमेधसः । तेषां पक्षोपवासस्य फलं मासेन जायते ॥' श्रुत्वैतत् प्रसन्नः सिद्धराजः सभासद उद्दिश्योक्तवान् - "विचार्यैव वक्तव्यं सर्वथा, न पुनरविचार्य'ति । एवमेवाऽन्यदा राजसभायां समागतेभ्यः सर्वेभ्योऽपि धर्मगुरुभ्योऽन्यपण्डितेभ्यश्च राज्ञा पृष्टं - 'मान्या धर्मगुरवो विद्वांसश्च ! अहं ज्ञातुमिच्छामि यदत्र जगति पात्रं किम् ?' तदा तदुत्तररूपेणाऽन्यान्यैर्धर्मगुरुभिः पण्डितैश्च स्वस्वसम्प्रदायानुसारं ये वर्तन्ते ये वाऽमुकं दर्शनं मन्यन्ते ते पात्रमिति प्रतिपादितम् । एतेन राज्ञः सन्तोषो नैव जातः । अथैतावताऽपि हेमचन्द्राचार्या मौनमाश्रित्यैवोपविष्टा आसन् । एतदुपलक्ष्य राज्ञा सादरमाचार्याः पृष्टा इममेवाऽर्थम् । एतद्विलोक्य बहव ईर्ष्यालवो हृष्टा जाता यदधुना जैनत्वादेते जैनमुनिरेव पात्रमिति कथयिष्यन्ति, तदा च तेऽपि साम्प्रदायिका मताग्रहिणश्चैवेति सिद्धं भविष्यति। ततश्च राजा जैनेभ्यो विमुखो भविष्यतीति । किन्तु हेमचन्द्राचार्याणां पिण्डमन्ययैव मृत्तिकया निर्मितमासीत् । तैरुक्तं - 'राजन् ! श्रूयताम् । पात्रपरीक्षा तु स्वविवेकनैव जायते न तु कस्यचित् कथनेन । एतदर्थे महाभारते 31 Jain Education Internationa Page #41 -------------------------------------------------------------------------- ________________ द्वैपायनर्षि-युधिष्ठिर-भीमानां संवादोऽस्ति, तं शृणोतु' । 'एकदा द्वैपायनर्षिर्हस्तिनापुरमागतो राजप्रासादे च युधिष्ठिरेण सह च काञ्चिद् आवश्यकी चर्चा कर्तुमुपविष्टः । तदा युधिष्ठिरेण भीममाहूय कथितं - "भोः ! भवान् द्वारि तिष्ठतु, कञ्चिदप्यन्तर्मा प्रवेशयतु" । सोऽपि तत् स्वीकृत्य द्वारि स्थितः । तावता तत्र द्वौ जनौ दानग्रहणार्थमागतौ । तत्र 'कस्मै दानं दातव्य'मिति निर्णीतुमक्षमो भीमोऽन्तर्गत्वा युधिष्ठिरं पृच्छति स्म "मूर्खस्तपस्वी राजेन्द्र ! विद्वांश्च वृषलीपतिः । उभौ तौ द्वारि तिष्ठेते, कस्मै दानं प्रदीयते ? ॥" तदा युधिष्ठिरेणोक्तं - "सुखासेव्यं तपो भीम ! विद्याकष्टदुरासदा । विद्वांसं पूजयिष्यामि, तपसा किं प्रयोजनम् ? ॥" भीमोऽपि विचारकोऽस्ति । तेनोक्तं - "बन्धो ! श्रूयतां तावत् - श्वानचर्मगता गङ्गा, क्षीरं मद्यघटस्थितम् । अपात्रे पतिता विद्या किं करोति युधिष्ठिर !? ॥" एतस्य श्रवणेन युधिष्ठिरस्याऽप्यसामञ्जस्यं जातम् । "किमधुनाकर्तव्य"मिति स चिन्ताकुलो जातः । तदा द्वैपायनर्षिणोक्तं "न विद्यया केवलया, तपसा चाऽपि पात्रता । यत्र ज्ञानं क्रिया चोभे, तद्धि पात्रं प्रचक्षते ।।" ततश्च द्वयोरपि युधिष्ठिर-भीमयोः समाधानं जातम् ।' 'अतो राजन् ! एवं विवेकेन ज्ञान-क्रियोभययुक्तं पात्रं निर्णेतव्यम्' । एतच्छ्रुत्वा राजा प्रसन्नो जातस्तस्य चाऽऽचार्यान् प्रति 32 Jain Education Internationa Page #42 -------------------------------------------------------------------------- ________________ समादरोऽधिको जातः । एवंरीत्यैवाऽन्यदा राज्ञा 'को धर्मो मया समाचरितव्यः ?' इति राजसभायां पृष्टे पूर्वोक्तनीत्यैव हेमचन्द्राचार्यैश्चारिसञ्जीवनीचारन्यायदृष्टान्तं श्रावयित्वा धर्मपरीक्षा कथं कर्तव्येति ज्ञापितं सर्वदर्शन-सम्मानेनैव सत्यधर्मो मार्गश्चाऽऽराध्यते इति कथितम् । एतेन राज्ञः समभाव इतोऽपि वृद्धिङ्गतः । अथ चैकदा हेमचन्द्राचार्याश्चैत्यपरिसरे श्रीनेमिनाथचरितं वर्णयन्तोऽवसरप्राप्तं पाण्डवचरितं वर्णितवन्तः । तत्र च 'पाण्डवा जैनदीक्षां गृहीतवन्तः सिद्धाचले चाऽनशनं गृहीत्वा निर्वाणं प्राप्तवन्तः' इत्यपि सविस्तरं वर्णितवन्तः । एतच्छ्रुत्वा केचनेालवः सिद्धराजस्याऽग्रे - 'जैना एते स्मृतेर्विद्रोहं कुर्वन्ति, तत्रोक्ताद् विपरीतं भणन्ति । एतेनाऽस्मत्पुरेऽरिष्टमपि कदाचिदुत्पद्यते'त्यादिकमधिक्षेपं कृतवन्तः । तदा सिद्धराजोऽपि तेषां समक्षवाऽऽचार्यान् एतद्विषयं स्पष्टीकर्तुं विज्ञपयामास । आचार्या अपि तदा महाभारत-वर्णितपाण्डवेभ्यो जैनशास्त्रवर्णितपाण्डवानामन्यत्वं महाभारतस्य सन्दर्भेणैव प्रतिपाद्य सर्वमपि स्पष्टीकृत-वन्तः । एतेन तुष्टो राजा तान् सादरं प्रशंसितवान् । एवं चैतादृशैर्बहुभ्यः प्रसङ्गेभ्यो ज्ञातैः श्रीहेमचन्द्राचार्याणां समन्वयकारिता-समुदारदृष्टि-क्लेशाकरण-बहुशास्त्रज्ञता-प्रत्युत्पन्नमतिता-निराग्रहिता-सर्वग्राहिपाण्डित्यादिभिर्गुणैर्नितरामभि-भूतो राजा तान् प्रत्यधिकाधिकमादरवान् जातः । प्रायः सर्वकार्येषु च तेषामभिप्रायं पृच्छति स्म । किञ्च, सिद्धराजजयसिंहस्य पुत्रो नाऽऽसीत् । अतो वैक्रमे * चारिसञ्जीवनीचारन्यायदृष्टान्तं परिशिष्टे विलोक्यताम् । + अयं प्रसङ्गो यथा प्रभावकचरिते वर्णितः स सर्वोऽपि परिशिष्टे विस्तरेण प्रदत्तोऽस्ति । कृपया तत्रैव विलोक्यताम् । 33 Jain Education Internationa Page #43 -------------------------------------------------------------------------- ________________ ११८५तमेऽब्दे तेन पुत्रकामनया पादचारेण तीर्थयात्रा कृता । तस्य नम्रविज्ञप्त्या च हेमचन्द्राचार्या अपि सहैव ययुः । तदवसरे तेनाऽति निकटतयाऽऽचार्याणां जीवनं विलोकितं, तेषां च त्यागतपः-शुद्धिः-निःस्पृहता-स्वस्थतादयो गुणा अप्यनुभूताः । ततस्तेनाऽऽचार्यैः सहैव शत्रुञ्जयतीर्थ-गिरिनारतीर्थ-सोमनाथतीर्थादीनां यात्रा कृता। यात्रान्ते च तेनाऽऽचार्येभ्यो विज्ञप्तं - 'प्रभो ! भवतां योग-ज्ञानबलेन कृपया विलोक्यतां यन्मे पुत्रो भविष्यति न वा?' तदाऽऽचार्यैरपि सोमनाथसमीपस्थे कोटिनगरे (कोडीनार) गत्वा दिनत्रयोपवासैश्चा-ऽम्बिकादेवीमाराध्य प्रसन्नीकृत्य च 'सिद्धराजस्य पुत्रो भविष्यति न वे'ति पृष्टम् । देव्या कथितं – 'सिद्धराजस्य भाग्ये सन्तानसुखं नास्ति । सोऽपुत्र एव मरिष्यति । तस्याऽन्वये तु तद्भातुस्त्रिभुवनपालस्य पुत्रः कुमारपालो राजा भविष्यति । एतदर्थसंवादिनी चेयं गाथा पुरा विक्रमादित्याय राज्ञे सिद्धसेन-दिवाकरसूरिभिः कथिताऽऽसीत् पुन्ने वाससहस्से सयंमि वरिसाण नवनवइअहिए (१९९९) । होही कुमरनरिंदो तुह विक्कमराय ! सारिच्छो ॥' इति ।। ततो देव्यन्तर्हिता । आचार्यैरपि यथातथं सर्वमप्येतत् सिद्धराजस्य कथितं, 'भाग्यादधिकं न कदाऽपि प्राप्यतेऽतो वृथा शोकं मा कृथाः' इति सान्त्वनमपि प्रदत्तम् । ततः सिद्धराजेनैतत् प्रमाणीकर्तुं नैमत्तिका अप्येतदर्थं पृष्टाः । तैरपि च स्वीयनिमित्तबलेन तत् तथैव दृष्ट्वा राज्ञे निवेदितम् । एतेन सिद्धराजस्य महद् दुःखं जातम् । कुमारपालस्योपरि तस्य हृदये द्वेषभावो जागृतः । तेन चिन्तितं यद् ‘यावदयं जीविष्यति तावन्मे पुत्रो नैव भविष्यति, अत एनमेव प्रथम ★ पृष्ठ - २४स्था टिप्पनी विलोक्यताम् । 34 Jain Education Internationa Page #44 -------------------------------------------------------------------------- ________________ घातयामि' । ततस्तेन कुमारपालं मारयितुं बहवः प्रयत्नाः कृताः किन्तु भाग्यबलात् स सर्वदाऽपि रक्षितोऽभवत् । I इतश्च चामुण्डरायशासनकालादेव चौलुक्यानां मालवदेशं जेतुं स्वप्न आसीत् । सिद्धराजजयसिंहो हि स्वपराक्रमेण तं स्वप्नं सफलीकृतवान् । तेन मालवेशो नरवर्मा भीषणयुद्धे जितो मालवदेशे च स्वशासनाधिकारो नियोजितः । यदा स स्वनगरं प्रतिनिवृत्तस्तदा समस्तप्रजाभिस्तस्य विजयं निमित्तीकृत्य महोत्सवः कृतः । सर्वैर्धर्मगुरुभिरपि तदवसरे तस्याऽऽशीर्वचनान्युक्तानि । यदा च राजा हेमचन्द्राचार्याणां पुरतः समागतस्तदा तैरपि तस्याऽऽशीर्वादरूपेण श्लोकोऽयमुक्तः - भूमिं कामगवीं स्वगोमयरसैरासिञ्च, रत्नाकरा ! मुक्तास्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भीभव | धृत्वा कल्पतरोर्दलानि सरलैर्दिग्वारणास्तोरणान्याधत्त स्वकरैर्विजत्य जगतीं नन्वेति सिद्धाधिपः ॥ तच्छ्रवणेन सिद्धराजस्य हृदयेऽपार आनन्दो जातः । स आचार्यान् सादरं नमस्कृत्य स्वप्रासादं गतः । तत आस्थानमण्डपे तेन धारानगर्या आनीतानि सर्वाण्यपि वस्तूनि प्रदर्शितानि । तेषु चैको ग्रन्थसङ्ग्रहोऽप्यासीत् । तं निरीक्षमाणो राजा भोजव्याकरणं नाम ग्रन्थं दृष्ट्वाऽऽचार्यान् पृष्ट्वान् - 'प्रभो! किमेतदिति । आचार्यैरपि तं ग्रन्थं विलोक्य भोजराजप्रशस्तिः कृता, कथितं च 'भोजराजेन व्याकरणमेतद् विरचितमस्ति, अधुना च गूर्जरदेशे बहुत्रेदमेव व्याकरणं पाठ्यते । एतन्निशम्य सिद्धराजेन चिन्तितं 'मया यत् पराक्रमस्फोरणं कृत्वा मालवदेशो जितस्तत्तु पाशवं बलमासीत् । यद्यहं तस्य सरस्वतीधाम्नः संस्कारितां साहित्यसृष्टि चाऽत्र प्रकटयेयं तर्येव मे वास्तविको जयः' । ततस्तेन सभायां स्थितान् पण्डितानुद्दिश्य कथितं - 35 Jain Education Internationa Page #45 -------------------------------------------------------------------------- ________________ 'किमस्माकं देशे नास्ति तादृशः कोऽपि पण्डितो यः स्वप्रतिभया नूतनं व्याकरणं विरचयेत् तथा चाऽस्मद्देशेऽस्मदीयमेव व्याकरणं पाठ्येत ?' विद्वान् कोऽपि कथं नास्ति देशे विश्वेऽपि गूर्जरे । सर्वे संभूय विद्वांसो हेमचन्द्रं व्यलोकयन् ॥ सर्वैरपि पण्डितैः कथितं - 'राजन् ! व्याकरणादिग्रन्थसृष्टधै किल हेमचन्द्राचार्या एव प्रभविष्णवो नाऽन्यः कश्चित्' । सिद्धराजस्य मनसि तु तेषामेव नामाऽवर्तत किन्तु तेन सर्वेषां साम्पत्यमपि प्राप्तम् । तेनाऽऽचार्येभ्यो विज्ञप्तम् यशो मम तव ख्यातिः पुण्यं च मुनिनायक ! । विश्वलोकोपकाराय कुरु व्याकरणं नवम् ॥* हेमचन्द्राचार्यैरपि तस्य विज्ञप्तिः स्वीकृता काश्मीरादिदेशेभ्यश्च विविधव्याकरणग्रन्था आनायिताः । ततस्तेषां गभीराध्ययनावलोकन-विवेचनादिपुरस्सरं तैरल्पेनैव कालेनाऽष्टाध्याय - द्वात्रिंशत्पादमयं सलघु- बृहद्वृत्तिकं साङ्गोपाङ्गं च व्याकरणं सिद्ध- हेमचन्द्रशब्दानुशासनं नाम विरचितम् । तेन सह धातुपाठः, धातुपारायणं, शब्दकोशोऽभिधानचिन्तामणिनाममालाभिधानः, अनेकार्थसङ्ग्रहः लिङ्गानुशासनं, काव्यानुशासनमलङ्कारचूडामणि- विवेकवृत्तियुतं, छन्दोनुशासनं, निघण्टुः, देशीनाममालाभिधो देश्यशब्दानां कोशः, द्वयाश्रयमहाकाव्यं चाऽपि विरचितम् । + * तेनाऽतिविस्तृत-दुरागम विप्रकीर्ण- शब्दानुशासनसमूहकदर्थितेन । अभ्यर्थितो निरवमं विधिवद् व्यधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः ॥ - (सिद्धहेमव्याकरणप्रशस्ति:) + एतेषामन्यानां च ग्रन्थानां परिचयोऽत्रैव पुस्तकेऽन्यत्राऽऽलेखितोऽस्ति । कृपया तत्रैव विलोक्यताम् । 36 Jain Education Internationa Page #46 -------------------------------------------------------------------------- ________________ सर्वोऽप्येष ग्रन्थसमूहः सिद्धराजस्य राजपुरोहितेन सभापण्डितैश्च त्रिः सूक्ष्मेक्षिकया पठितो 'विशुद्ध एष' इति च कथितम् । एतेनाऽतीवाऽऽनन्दितेन राज्ञा व्याकरणमन्ये च ग्रन्था समहोत्सवं गजस्कन्धमारोप्य समग्रेऽपि नगरे शोभायात्रा विहिता, तत्सत्कार-सम्मानादि च कृतम् । ततस्तेषां ग्रन्थानां शतशः प्रतयो लेखयित्वा देशविदेशेषु प्रहिता, गूर्जरदेशे च सर्वत्र काकलकायस्थनामानं व्याकरणपण्डितं नियोज्य तेषामध्ययनाध्यापनादि प्रारब्धम् । सिद्धराजस्य स्वदेशे साहित्यसृष्टेः संस्कारदानस्य च स्वप्ना हेमचन्द्राचार्यद्वारा फलिता जाता इति तद्धृदयं सर्वथा सन्तुष्टं जातम् । तन्मनसि तदास्थाने च हेमचन्द्राचार्याणां स्थानं प्रथमं जातम् । आचार्याणां दर्शनेनैव स चित्तनिर्वृतिं लभते स्म । पदे पदे स हेमचन्द्राचार्याणां मार्गदर्शनमपेक्षते स्म । आचार्या अपि निरपेक्षबुद्ध्यैव तस्य निरवद्यं मार्गदर्शनं कुर्वते स्म । सहैव साहित्यसर्जनं प्रजाभ्यश्च निरवद्यजीवनपद्धतेः शुद्धधर्म-संस्काराणां चोपदेशं कुर्वते स्म । अद्य या गूर्जरादिभाषोपयुज्यते तस्याः मूलं याऽपभ्रंशभाषाऽस्ति तस्या व्याकरणं पूर्णस्वरूपं च तैरेव प्रस्तुतम् । तेन सा भाषा, तत्फलत्वेन च गूर्जरभाषा सुनिबद्धा जाता । गूर्जरदेशस्य स्वीया भाषा प्राप्ता, भाषामाध्यमेन चैव संस्काराणां पोषणं प्राप्तम् । [अतो गूर्जरदेशः सर्वदाऽपि च तेषां कृतज्ञ ऋणी चैवाऽस्ति । एतत् सर्वं विलोक्य सिद्धराजः सर्वथा समाधानं प्राप्तवान् । वारं वारं चाऽऽचार्यान् प्रति कार्तश्यं प्रकटितवान् । किञ्च, अत्रेदं चिन्तनीयम् - हेमचन्द्राचार्यैर्हि स्वगुणानुरक्तसिद्धराजपार्वे - जैनधर्मो राज्याश्रितो भवेत्, राजा च जैनधर्मोपासको भवेत् - इत्येतदर्थं न कदाऽपि प्रयतितं न वा तदर्थं राजकीयचातुर्यमुपयुक्तम् । तथा 37 Jain Education Internationa Page #47 -------------------------------------------------------------------------- ________________ सिद्धराजं तत्सभासदो वा प्रभावितान् कर्तुं तैः समन्वयवादित्वं नैव प्रकटितं साधितं वा किन्तु तेषां सहजप्रकृतिरेव समन्वयिताया आसीत् । स्वसम्प्रदायस्योन्नतिर्भवेत्, जैनानां च श्रेष्ठत्वं भवेदित्यादि तैः स्वप्नेऽपि नैव विचारितमासीत् । सहैव सिद्धराजोऽपि विचारकः सर्वधर्मान् प्रत्युदारमतवांश्चाऽऽसीत् । स यस्य कस्याऽपि कथनं विना विमर्शेन स्वीकुर्यादित्येतत् सर्वथाऽसम्भवमासीत् । स केवलं गुणानुरागेणैव हेमचन्द्राचार्यान् प्रत्याकृष्टो जातः, यतस्तेन तेष सहजं शीतलताप्रदं तेजः, माधुर्यं, शान्तः समभावः, सर्वदर्शनसङ्ग्रहोऽनन्यसदृशी च विद्वत्तेत्यादयो गुणा दृष्टा अनुभूताश्चाऽऽसन्। स्वभावसिद्धेन गुणानुरागेण स देवबोधसदृशगर्विष्ठपण्डितपुरतोऽपि भूमावेवोपविशति स्म । एवं स्थिते - हेमचन्द्राचार्य राज्याश्रयं प्राप्त प्रपञ्चाः कृताः, सिद्धराजो वा तैश्चाटुकथनादिभिः प्रभावित - इत्यादिकथनं सर्वथाऽयोग्यं द्वयोरपि च प्रमाणपुरुषयोर-न्यायकरम्। हेमचन्द्राचार्याः हि कर्मयोगितया केवलं निष्पक्षतया सर्वेषां समन्वयकर्तारः समभाविनो लोकप्रियाश्च साहित्यस्रष्टार आसन् । धर्माचार्यतया च ते त्यागिनो विरागिनो निःस्पृहा निष्कर्मिणश्च साधुपुरुषा आसन् । तत्पुरतश्च सिद्धराजो जयसिंहो हि कुलपरम्परया यद्यपि शैवधर्मी आसीत् तथाऽपि राजत्वेन सर्वधर्म-सम्मानकारी निष्पक्षोऽसाम्प्रदायिको न्यायी चाऽऽसीत् । तस्य सभायां सर्वेऽपि धर्माचार्याः समागच्छन्ति स्म, जैनेष्वपि हेमचन्द्राचार्येभ्यः पूर्वमेव तस्य वीराचार्य-मलधारिहेमचन्द्रसूरिप्रमुखाचार्याणां गाढपरिचय आसीदेव । एवंस्थितेऽपि स केवलं हेमचन्द्राचार्याणां गुणैरसाधारणपाण्डित्येन विशालप्रतिभया चैवाऽऽकृष्ट आसीत् । सत्यं तत्त्वं च किम् ? इति ज्ञातुं तस्य तीव्रोत्कण्ठाऽऽसीत्, सा च हेमचन्द्राचार्यरेव शमितेत्यतस्तेनाऽऽचार्या स्वमार्गदर्शकत्वेन स्थापिताः । द्वाभ्यामप्याभ्यां युगपुरुषाभ्यां सम्मील्य गूर्जरदेशः साहित्यसंस्कार-समृद्ध्यादिभिः सनाथीकृतः, लोकानां विद्याभिरुचिर्वधिता, 38 Jain Education Internationa Page #48 -------------------------------------------------------------------------- ________________ विशेषतश्च समग्रमपि देशं तौ समन्वयधर्मिणं विधातुं सफलौ जातौ । अद्य गूर्जरदेशः समग्रेऽपि भारतवर्षेऽधिकसहिष्णुरधिकतयोदारमतवादी च यदस्ति तस्य मूलकारणत्वेन हेमचन्द्राचार्याः, स्याद्वाद:(समन्वयवादः), सिद्धराजजयसिंहः कुमारपालश्चाऽस्ति; गूर्जरभाषा, गूर्जरास्मिता चाऽपि एतेषामेव कारणादद्यपर्यन्तमक्षुण्णा वर्तते । अस्तु, प्रकृतं प्रस्तुमः - सिद्धराजेन पूर्वोक्तगुणालङ्कृतेन सताऽपि सन्तानरहितत्वात् कुमारपाल-मात्सर्यप्रेरितेन च कुमारपालं हन्तुं घातयितुं वा बहवः प्रयत्नाः कृताः, किन्तु भाग्यबलीयस्त्वात् तस्याऽन्यान्यजनसाहाय्येन च स सर्वदा रक्षितो जातः । एतेन सिद्धराजस्य वैरवृत्तिरतीव वृद्धिङ्गताऽऽसीत् । अतः कुमारपालोऽपि तद्भयेन देशत्यागं कृत्वा कर्णाट-काञ्ची-कोल्लापुर-मालवचित्रकूटादिदेश-प्रदेशेषु विचरितः प्रायश्च देशस्य सर्वेषामपि तीर्थानां यात्राऽपि तेन कृता । एतत् सर्वं स्वीयगुप्तचरेभ्यो ज्ञात्वा सिद्धराजेन देशाद् बहिरपि तं मारयितुं सैनिकाः प्रेषिताः किन्तु तदाऽपि स रक्षितो जातः । वाग्भट्टमन्त्री, सज्जनमन्त्री, आलिगमन्त्री, आलिगकुलालः, जाम्बमन्त्री, भीमाभिधक्षेत्रपतिः, कटुवणिक, देवश्रीः, वौसिरिब्राह्मणः - इत्यादयस्तं विपत्काले बहु साहाय्यं कृतवन्तः । द्वि-त्रवारं च हेमचन्द्राचार्यैरपि स रक्षित आसीत् राजभटेभ्यः । ततस्तं सान्त्वयित्वा भविष्यत्काले च स एव नृपतिर्भविष्यति - इति चाऽऽश्वास्य प्रहित आसीत् । एतदपि तैः केवलं जैनमुनिसहजया दयावृत्त्या करुणया चैव कृतं, न पुनर्भाविनि काले कञ्चिल्लाभं प्रातुम् । ततश्च वैक्रमे ११९९तमे वर्षे सिद्धराजो जयसिंहः स्वर्गतः । ततस्तस्य मन्त्रिभिर्यावद् योग्य उत्तराधिकारी न प्राप्येत तावत् सर्वाऽपि राज्यव्यवस्था कृता, जनैरपि च सिद्धराज Jain Education InternationaFor Private Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ गुणानुरक्तैस्तत्र साहाय्यं कृतम् । यदा चेयं वार्ता कुमारपालेन ज्ञाता तदा शीघ्रमेव सोऽज्ञातवासं त्यक्त्वाऽणहिल्लपुरपत्तनं प्राप्तो धैर्य पराक्रमं च प्रदर्श्य स्वयोग्यतां प्रमाणीकृतवान् । अतो मन्त्रिभिर्देशजनैश्च स एव राजत्वेनोद्घोष्य ११९९तमे वैक्रमाब्दे मार्गशीर्षकृष्णद्वितीयायां मृगशीर्षनक्षत्रे रविवासरे राज्येऽभिषिक्तः । राज्याभिषेककाले च तस्य वयः पञ्चाशद्वर्षेभ्योऽप्यधिकमासीत् । राज्यं प्राप्यैदम्प्राथम्येन तेन सर्वेऽपि निजोपकारिणः स्मारं स्मारं प्रत्युपकृताः । अथ सिद्धराजस्य मृत्योरनन्तरं तदधीना बहवो राजानोऽन्येऽपि च केचन स्वतन्त्रीभूय गूर्जरदेशं विरुध्य वर्तितुमारब्धाः । अतः कुमारपालस्य राज्यप्राप्तेः प्रारम्भिकवर्षाणि तु विरोधिनां विरोधस्य चोपशमे एव व्यतीतानि । तेनाऽत्यधिकं परिश्रमं कृत्वा सर्वेऽपि शत्रवो विरोधिनश्च जिताः । तस्य जीवनस्य प्रभूतः कालो भ्रमणे एव व्ययित आसीदतस्तस्य शास्त्रज्ञानं यद्यपि न्यूनमासीत् तथाऽपि व्यवहारज्ञानमनुभवज्ञानं च पूर्णमासीत् । शस्त्रविद्यायामपि स निपुणो महायोधश्चाऽऽसीदतः सैनिकेषु सोऽतीव प्रिय आसीत् । तेन निजं समग्रमपि व्यवहारज्ञानं युद्धकौशलं चोपयुज्य समग्राः शत्रवः पराजित्य मित्रीकृत्य चाऽष्टादशदेशेषु स्वशासनं स्थापितम् । ते च देशाः सपादलक्षः (शाकम्भरी), मालवः, कोङ्कणः, सिन्धुदेशः, यवनदेशः (तुर्कस्तानः), काशी, मगधदेशः, गौडदेशः, कान्यकुब्जः, दशार्णदेशः, चेदीदेशः, मथुरा, राजस्थानं, महाराष्ट्र, विदर्भ:, कुरुदेशः, पञ्चनदः, सौराष्ट्रदेशः - इत्यादय आसन् ।। एतावता च प्रायो दशवर्षमितः कालो व्यतीतः । तदनन्तरं स स्थिरो जातः । इदानीं तस्य वयः प्रायः षष्टिवर्षमितमासीत् । अतस्तेन चिन्तितं – 'मम राज्यादिकं सर्वमपि सुस्थं जातमस्ति । एताना 40 Jain Education Internationa Page #50 -------------------------------------------------------------------------- ________________ अधुना मया शेषमायुः शान्त्या धर्मसाधनं कृत्वा व्ययितव्यम्' इति । तस्य हेमचन्द्राचार्याणामुपकारा अपि स्मृतिपथमागताः । अतः स तेषां चरणयोः पतित्वा व्यज्ञपयत् - 'प्रभो ! मम राज्यमिदं भवदधीनमेवाऽतो भवन्त एवैनं राज्यं स्वीकुर्वन्तु, अहं भवदाज्ञाकारी सेवको भविष्यामि' । आचार्यास्तु तस्मै स्वीयमर्यादां भौतिकवस्तुषु च विरक्तिं बोधयित्वा कथितवन्तः - भुञ्जीमहि वयं भैक्ष्यं, जीर्णं वासो वसीमहि ।। शयीमहि महीपृष्टे, कुर्वीमहि किमीश्वरैः ?' ॥ एतेनाऽधिकं सन्तुष्टो राजा तानेव स्वगुरुत्वेन सर्वकार्येषु च मार्गदर्शकत्वेन स्थापितवान् । ततः प्रत्यहं स तेषां पादमूले धर्म नीति च बोद्धं गच्छति स्म । तेन हि स्वजीवने शास्त्रज्ञानमत्यल्पं प्राप्तमासीदतः स तस्मिन्नपि वयसि पठितुमारब्धवान् । सर्वप्रथम स कामन्दकीयराजनीतिं पठितवान् । ततस्तेन व्याकरण-काव्यसाहित्यादीनामप्यध्ययनं कृतं तदभ्यासेन चाऽऽत्मनिन्दाद्वात्रिंशिकाभिधं काव्यमपि विरचितमासीत् । ततः सोऽन्यान्यशास्त्राण्यपि पठितवान् । अस्मिन् वयसि ज्ञानप्राप्तेस्तस्य निष्ठामालोक्य जनैस्तस्मै विचारचतुरानन इति बिरुदं प्रदत्तमासीत् । तस्य गुणसम्पदपि निरुपमाऽऽसीत् । यादृशो वीरः स तादृश एव संयतः, यथा नीतिनिपुणस्तथैव धर्मपरायणोऽपि, यद्यपि दुर्धर्षस्तथाऽपि सौम्यः, तात्त्विकबुद्धिरपि व्यवहारकुशलोऽनुभवज्ञानी च, आवश्यकतायां सत्यां कोटित्याग्यपि व्यवहारे मितव्ययी, यादृशश्च पराक्रमी तादृश एव क्षमावान् स आसीत् । तस्य पराक्रम-कौशलादिभिगूर्जरदेशस्य गौरवं चरमशिखरं प्राप्तम् । अथ वैक्रमे १२०७तमे संवति हेमचन्द्राचार्याणां मातुः साध्व्या अन्तकालः सन्निहित आसीत् । तयाऽपि च स्वस्थेन समाधियुतेन च मनसाऽनशनं स्वीकृतमासीत् । तदात्वे श्रावकैस्त Jain Education InternationaFor Private Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ त्पुण्यार्थं कोटित्रय - मितधनं व्ययितुं निर्णीतं घोषितं च । हेमचन्द्राचार्या अपि तत्रोपस्थिता आसन् । मात्रा धनव्ययघोषणं श्रुत्वा पुत्राभिमुखमालोकितम् । तदा तैरपि मातुः कृते लक्षत्रयमित श्लोकसर्जनपुण्यमुद्घोषितम् । तच्च श्रुत्वा सा प्रसन्ना जाता परमेष्ठिनमस्कार श्रवण-ध्यानादिपुरस्सरं च समाधिमरणं प्राप्य दिवङ्गता । तत आरभ्य हेमचन्द्राचार्या अधिकाधिकसाहित्यसर्जनानुषक्ताः कालं गमयन्ति स्म । एकदा कुमारपालेन धर्मचर्चायां जिज्ञासया 'जीवनस्य सार्थक्यं कुत्र कथं वे 'ति आचार्याः पृष्टाः । तदा तस्य सत्यजिज्ञासां ज्ञात्वाऽऽचार्यैः कथितं यद् - 'जीवनसार्थक्यं हि बोध (ज्ञान) - श्रद्धा (दर्शन) - आचरण ( चारित्र) रूपाया रत्नत्रय्या आराधने विद्यते । य एनां रत्नत्रयीं मनो- वाक्काययोगैः सम्पूर्णतयाऽऽराधयति तस्य कस्याऽपि सम्प्रदायस्याऽनुयायित्वं नाऽऽवश्यकम् । एतदाराधनेनैव स कृतार्थो भवेत् । ततो राजाऽपि यथावबोधं सश्रद्धं सदाचरणे रतोऽभवत् । अथाऽन्यदा नगरचर्यां कुर्वन् स वधार्थं सौनिकगृहे नीयमानान् पशून् व्यलोकत । पशूनामार्तनादान् श्रुत्वा तस्य हृदयं करुणया द्रवीभूतम् । सहैव तन्मनसि ग्लानिरपि सञ्जाता यद् - 'राज्ये यदेतादृशं हिंसादिकार्यं भवति तस्य सर्वस्याऽपि उत्तरदायित्वं ममैव' । स सत्वरं गुरूणामन्तिकं गत्वाऽत्राऽर्थे तेषां मार्गदर्शनमयाचत । तैरपि 'दयैवाऽहिंसैव च सर्वेषामपि धर्माणां मूलमस्ती'ति प्ररूपितं कथितं च - श्रूयते सर्वशास्त्रेषु सर्वेषु समयेषु च । अहिंसा लक्षणो धर्मस्तद्विपक्षश्च पातकम् ॥१॥ क्षमातुल्यं तपो नास्ति, न सन्तोषात् परं सुखम् । न मैत्रीसदृशं दानं, न धर्मोऽस्ति दयासमः ॥ २॥ 42 Jain Education Internationa Page #52 -------------------------------------------------------------------------- ________________ 'तत्र च पूर्णतया प्रयत्नो विधातव्यः' इति चोपदिष्टम् । एतच्च कुमारपालायाऽतीव रुचितम् । तेन स्वीये सर्वस्मिन्नपि राज्येऽमारिघोषणं कृतं, मांसभक्षणं च सर्वथा त्याजितम् । एतावदेव न, तेन स्वराज्ये वसतां सहस्रशः सौनिकानामपि मांसविक्रयणादिवृत्ति त्याजयित्वा नूतनां वृत्तिमारब्धं सूचितं, वर्षत्रयं यावत् तेषां निर्वाह: स्यात् तावन्मितं धनमपि तेभ्यः प्रदत्तं राजकोशात् । ततः शनैः शनैस्तेन स्वशासने सर्वत्रैवमेवाऽमारिघोषणं कृतं पूर्णतया च पालितम् । तच्च पालनं तथा कारितं तेन यथा कुत्राऽपि कोऽपि 'म्रियस्व-मारये’त्यादि वचनप्रयोगमपि कर्तुं नाऽनुमन्यते स्म । यदि स तथा प्रयोगं कुर्यात् तदा तस्य कठोरदण्डः प्राप्येत । एतदमारिघोषणं राजपुरुषाणां सामन्तानामन्येषां च जनानां निर्बलत्वं भीरुत्वं वाऽभासत । किन्तु कुमारपाल: स्वनिर्णये दृढ एवाऽवर्तत । तस्याऽविचलं मतमासीद् यद् बल-पराक्रमौ अन्यद् वस्तु, दयाऽहिंसा चाऽन्यदेव वस्तु । दयाया अहिंसायाश्च पालनेन न कोऽपि निर्बलो भीरुर्वा भवेदिति । अथाऽणिहल्लपुरपत्तने चौलुक्यानां कुलदेव्याः कण्टकेश्वरीदेव्या मन्दिरमासीत् । तस्मिन् प्रतिवर्ष - मेकवारं शतशो महिषादिजीवानां बलिदानं कृत्वा नैवेद्यरूपेण देव्यै समर्प्यते स्म । बलिदाननियमः कुलपरम्परागत आसीत् । स कदाचिदपि परावर्तयितुं न शक्यते स्म । यदा तदवसरः समागतस्तदा कुमारपालो हेमचन्द्राचार्याणां मार्गदर्शनं प्रातुं तेषां पार्श्वे गत: । यदा स तत्र गतस्तदा जनैः सर्वैरप्यूहितमासीद् यदधुनाऽऽचार्याणां परीक्षा भविष्यति । यतो यदि स तन्निषेधं कुर्यात् तदा नृपस्य हानिर्भविष्यति, तथा ते तद्विधानानुमतिं दातुमपि नैव शक्ताः, स्पष्टतया हिंसात्वात् तस्य । किन्तु सर्वेषामाश्चर्यमध्ये तैः कुमारपालस्य कथितं - 'राजन् ! भवतः कुलदेव्याः कण्टकेश्वर्याः 43 Jain Education Internationa Page #53 -------------------------------------------------------------------------- ________________ कृते बलिदानार्थं पशून् ददातु तस्यै'। एतच्छ्रवणेनाऽवाङ्मृका जाताः सर्वे यावत्, तावत् तैरुक्तं – 'किन्तु, तेषां पशूनां वधो नैव कर्तव्यः । अपि तु जीवन्त एव ते देव्यै समर्पयितव्याः । यदि तस्यास्तेषां मांसस्येच्छा स्यात् तदा सा स्वयमेव ग्रहीष्यति । यदि सा न ग्रहीष्यति तदा मन्तव्यं यत् सा सर्वेषां जन्तूनां मातृभूता कथं तेषां स्वसन्तानानां प्राणानपहृत्य मांसं गृह्णीयात् ?' इति । सर्वेषां निषेधे विरोधे च जातेऽपि कुमारपालेन गुरुवचोऽङ्गीकृत्य तथैव जीवन्तः पशवः समर्पिता देव्यै । आरात्रि च मन्दिरे एव स्थापितास्ते । द्वितीयदिने च प्रातस्तान् तथैव जीवन्तो दृष्ट्वा सर्वेऽपि जना हृष्टाः अभवन् । यद्यपि देव्याः पुरोहितेन कुमारपालो बहु भायितो भत्सितश्च तथाऽपि स स्वनिर्णये दृढोऽविचलश्चैवाऽवर्तत जीवदयामहिंसां च पालितवान् । तस्येदृशीं दृढतां दया-ऽहिंसादौ च गाढ श्रद्धां विलोक्य कविभिर्बहु प्रशंसितः स तद्गुरवश्च - पूर्वं वीरजिनेश्वरे भगवति प्रख्याति धर्म स्वयं प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधात् यस्याऽऽसाद्य वचस्सुधां स परमः श्रीहेमचन्द्रो गुरुः ।। (कविः श्रीधरः) तथा आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वादरादब्दान्येव चतुर्दश प्रसृमरां मारिं निवार्योजसा । कीर्तिस्तम्भनिभांश्चतुर्दशशती-संख्यान् विहारांस्तथा क्लृप्त्वा निर्मितवान् कुमारनृपतिजैनो निजैनोव्ययम् ।। (मन्त्री यशःपालः मोहराजपराजयनाटके) अस्याऽमारिघोषणस्यैव कुमारपालकारितस्य सुफलमिदं 44 Jain Education Internationa Page #54 -------------------------------------------------------------------------- ________________ यदद्याऽपि समग्रेऽपि भारतवर्षे गूर्जरराज्ये एव सर्वाधिकतयाऽहिंसापालनं भवति, अत्रैव चाऽधिकाधिकजनाः शाकाहारिणो* विद्यन्ते । एतदनन्तरं तेन समग्रादपि निजराज्यान्मद्यपान-बूतमृगया-चौर्यादिदूषणान्यपि सर्वथा निवारितानि । एतत् सर्वमपि तेन कञ्चिद् धर्मविशेष पालयितुं नैवाऽऽचरितमपि तु केवलं निजप्रजानामिह-पारलौकिक-कल्याणार्थमेवाऽऽचरितम् । तत्र च सम्पूर्णमपि मार्गदर्शनं प्रेरणं चाऽऽचार्याणामेवाऽऽसीद् यैर्हि निष्पक्षतया दयाभावनया च केवलं विशुद्धं राजधर्मं कुमारपालद्वारा पालयितुमेव तत् कृतम् । अन्यच्च, सर्वेषामपि धर्मसम्प्रदायानामेतत् सर्वमपि हितकार्यत्वेन सम्मतमेवाऽस्ति । अतः 'कुमारपालं जैनर्मिणं कर्तुं ततश्च राज्याश्रयं प्राप्तुं हेमचन्द्राचार्यैः सर्वमप्येतत् कृत'मिति ये मन्यन्ते तत् सर्वथाऽनुचितमेव । अन्यदा मध्यरात्रे करुणं विलपन्त्याः कस्याश्चित् स्त्रिया रोदनं श्रुत्वा कुमारपालो निद्रातो जागृतः, तदुःखं दूरीकर्तुं च स्वयमेव तामन्वेष्टुं गतः । नगराद् बहिर्गतेन तेन स्मशानभूमौ दृष्टं यत् काचित् स्त्री सरोदनं विलपन्त्यस्ति, अन्या च तां सान्त्वयन्ती तत्रैवोपविष्टाऽस्ति । तेन तत्र गत्वा रोदनकारणं पृष्टा सा कथितवती यद् – 'अपुत्राया अस्या भर्ता वाणिज्यार्थं देशान्तरं गतस्तत्रैव मृत - इति वार्तां ज्ञात्वैषा रोदिति' । कुमारपालेन पृष्टं - 'किमर्थमेषाऽत्राऽऽगत्य रोदिति ननु ?' तयोक्तं - 'अद्याऽप्येषा वार्ता नाऽन्यैः कैश्चिज्ज्ञाता । यदि नगरे एवैषा रुद्यात् तदा सर्वैरपि ज्ञायेत, तथा च राजपुरुषैनियमानुसारमस्याः सर्वमपि धनं स्वायत्तीक्रियेत । अत एवैषाऽत्राऽऽगत्य रोदिति' । कुमारपालेन * अद्यत्वेऽपि गूर्जरराज्ये ६५% जनाः शाकाहारिणो राजस्थाने च ६०% जनाः । 45 Jain Education Internationa Page #55 -------------------------------------------------------------------------- ________________ सहसा स्मृतं यद्- 'अपुत्राया नार्या भर्तृमरणे सर्वमपि धनं - रुदतीवित्तमित्यभिधं - राज्यकोशे क्षिप्यते इति हि सर्वत्र परम्परागतो नियमोऽस्ति' । तेन चिन्तितं - 'यदि सर्वमप्यस्या धनादिकं राजा गृह्णीयात् तदा कथमेषा स्वनिर्वाहं कुर्यात् ? नूनमत्यन्तमयोग्योऽनुचितश्च नियमोऽस्त्ययम्' । ततो मनसैव तं नियममपाकर्तुं निश्चित्य तेन सा रुदती स्त्री भणिता - 'पुत्रि ! मा रोदी: । अहमेव सोऽभाग्यो राजा यस्य भयेन रोदिषि त्वम् । किन्तु मयाऽद्य तद् धनं त्यक्तुं निर्णीतमस्ति । अतः सुखेन गच्छ स्वगृहं, न कोऽपि त्वां कदाऽपि पीडयिष्यति' । ततो राजप्रासादमागत्य प्रातःकाले सर्वावसरे स्वयमेवोत्थाय घोषितं - ' अद्यप्रभृति राज्यकोशे रुदतीवित्तं नैव पतिष्यति, मया हि तादृशं धनं सर्वथा त्यक्तमस्ति' । एनां घोषणां श्रुत्वा मन्त्रिभिरन्यैश्च राजपुरुषैर्बहु प्रतिकृतं किन्तु कुमारपालेन दृढतया स्वनिर्णयं ज्ञापयित्वा तत् त्यक्तमेव, प्रतिवर्षं च ततः प्राप्यमाणानि कोटिशो रूप्यकाणि त्यक्तानि । करुणापरीतचेतसस्तस्येदं वृत्तं ज्ञात्वा प्रसन्नीभूता आचार्यास्तं प्रशशंसुर्यथा - - - न यन्मुक्तं पूर्वे रघु - नहुष - नाभागप्रमुखैः प्रभूतोर्वीनाथैः कृतयुगकृतोत्पत्तिभिरपि । विमुञ्चन् सन्तोषात् तदपि रुदतीवित्तमधुना कुमारक्ष्मापाल ! त्वमसि महतां मस्तकमणिः ॥ रामचन्द्राचार्या अपि अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः । त्वं तु सन्तोषतो मुञ्चन् सत्यं राजपितामहः ॥ इति तं स्तुवन्ति स्म । प्रजाकल्याणार्थं तेन विहितानामीदृशानां कार्याणां सर्वेऽपि 46 Jain Education Internationa Page #56 -------------------------------------------------------------------------- ________________ जना हार्दी प्रशंसां कृतवन्तः । किन्तु बहवः सामन्ता राजपुरुषाश्च तं निर्बलहृदयं भीरुवृत्तिकं च मन्यन्ते स्म । एतच्च कुमारपालस्य ज्ञातमासीत् । अत एकदा राजपाट्यां व्रजन् स एकस्मिन् शस्त्राभ्यासक्षेत्रे सप्त कटाहान् क्रमशः उल्लम्बितान् दृष्ट्वा सहैव समागतान् सामन्तादीन् उद्दिश्य कथितवान् – 'किं कोऽप्यस्त्यत्र य एतान् सप्ताऽपि कटाहान् एकेनैवेषुणा समकमेव विध्यात् ?' तदा तैरुक्तं - 'प्रभो ! पूर्वं भवतः प्रपितामहो भीमदेवस्तन्महामात्यश्च विमलनामेति द्वावेवाऽऽस्तां यौ एतान् सप्ताऽपि कटाहान् स्वाप्रतिमबलेन विध्यत: स्मैकेनैवेषुणा । ततः परं न कोऽपि सञ्जातस्तादृशो बलवान् य एतत् कर्तुं समर्थो भवेत्' । तदा कुमारपालेन समीपस्थसैनिकहस्तात् शर-धनुषी गृहीत्वा कथितं - ‘एवं वा ? तर्हि पश्याम्यहं तावत्' । ततो वीरासनेनोपविश्य शरसन्धानं कृत्वा विस्फारितनेत्राभ्यां सर्वेषु पश्यत्सु तेन तथा शरो मुक्तो यथा समकमेव सप्ताऽपि कटाहान् विद्धवा बहिर्निर्गतः । एतद् दृष्ट्वा तं निर्बलं भीरुकं वा मन्यमानानां सर्वेषामपि मतं परावृतम् । एवंस्थिते कुमारपालं दयावत्त्वात् अहिंसापालकत्वात् व्यसनत्याजकत्वाच्च प्रायः सर्वे जना जैनाश्चाऽपि मन्यन्ते स्म सगौरवं यद् राजा जैनधर्मी जातोऽस्ति । किन्तु हेमचन्द्राचार्या ह्यत्र सर्वथा तटस्था आसन् । तेषां दृढं मतमासीद् यद् - यदि कश्चिदपि धर्मो राज्याश्रितो भवेत् तथा राजाऽपि तद्धर्मरक्तो भूत्वाऽन्यधर्माणामुपेक्षां कुर्यात् तदा यद्यपि प्रथमं स धर्मः सुतरां विस्तरेत् । परन्तु गच्छता कालेन सर्वनाशस्य पथ्येव तस्य गतिः । वस्तुतो धर्मस्याऽऽधारो जनताहृदयमस्ति न तु राजसिंहासनम् । एतत् तथ्यं यदि न स्वीक्रियेत तदा केवलं घर्षणमेवाऽवशिष्यते । राजभिराश्रयणीयो हि एक एव मूलधर्मः । स चाऽयं - 47 Jain Education Internationa Page #57 -------------------------------------------------------------------------- ________________ अहिंसालक्षणो धर्मो, मान्या देवी सरस्वती । ध्यानेन मुक्तिमाप्नोति, सर्वदर्शनसम्मतम् ॥ यो राजेमं धर्मं सम्यक्तयाऽऽचरेत् तस्य न कस्याऽपि विरोधः सम्मुखीकर्तव्यो भवेत् कदाऽपि, प्रत्युत सर्वा एव प्रजास्तत्साह्यमेवाऽऽचरेत् । यथा हेमचन्द्राचार्याणां चिन्तनमासीत् तथैव तेषां वाण्यपि अद्भुताऽऽसीत् । ते यदा वदेयुस्तदा कोऽपि विरोधं कर्तुं समर्थो नाऽऽसीत् । तेषां कथने कदाऽपि क्षुद्रवस्तूनां महत्त्वमेव न क्रियेत स्म । अथैकदा तेषां मुख्यशिष्यै रामचन्द्राचार्याभिधैस्तेभ्यः सूचितं - 'प्रभो ! महाराजः कुमारपालोऽधुना किञ्चिदिव जैनधर्म प्रत्याकृष्टोऽस्ति । यद्येतस्याः परिस्थितेर्लाभं वयं गृह्णीयामस्तदा जैनानां तद्धर्मस्थानादीनां च प्रभूतानि कार्याण्युत्तमतया भविष्यन्ति' । एतन्निशम्य हेमचन्द्राचार्यैः कथितं - 'भोः ! मनुष्यस्य - विचारशीलमनुष्यस्य जीवने तादृशः क्षण एकः समायात्येव यदा स क्षुद्रादपि क्षुद्रे जन्तावपि स्वस्मिन्निव चैतन्याविर्भावं लक्षयेत्, लक्षयित्वा च तं जन्तुं स्वतुल्यमेव मन्येत, तथा तस्य पीडायां स्वयमेव पीडामनुभवेत्, तन्नाशे च स्वनाशमेव भावयेत् । इदमस्ति सर्वजीवेष्वात्मौपम्यमिदमेव चाऽऽत्मौपम्यमस्ति जैनत्वम् । अस्मिन् जैनत्वे न कस्याऽपि सम्प्रदायविशेषस्याऽधिकारोऽस्ति किन्तु सर्वेषां कृतेऽस्त्येतत् । जैनत्वमेतद् यदा हृदये प्रकटति तदैव मनुष्यो जैनो भवेत्, नाऽन्यथा । कुमारपालमहाराजहृदयेऽपि जैनत्वं प्रकटीभूतमस्तीदम् । यदि वयमेतज्जैनत्वं - तात्त्विकं जैनत्वं. व्यापार्य तत्प्रति किञ्चिद् भौतिकं प्राप्तुमिच्छेम तदाऽस्मादृशः क्षुद्रो न कोऽपि स्यात्' । गुरोर्वाचि रामचन्द्राचार्यैरलौकिकं सत्त्वमनुभूतम् । तत्र 48 Jain Education Internationa Page #58 -------------------------------------------------------------------------- ________________ वृथा साम्प्रदायिकोऽहङ्कारो नाऽऽसीत् प्रत्युत केवलं शुद्धतत्त्वमेव धर्मतया परिगणितमासीत् । रामचन्द्राचार्याणामितोऽप्यग्रे वक्तुं सामर्थ्य नाऽऽसीत् तथाऽपि साहसमवलम्ब्य तैः कथितं - 'यद्येवं तर्हि प्रभो ! वयं जैनधर्मविस्तारस्याऽवसरं नाशयिष्यामः' । एवं श्रुत्वाऽऽचार्यैर्वेदनापूर्णस्वरेण कथितं - 'भवन्तः सर्वेऽपि राजानं जैनधर्मं प्रत्याकृष्टं दृष्ट्वा हृष्यन्ति । इदमेव मे महद् दुःखकारणम् । कश्चन दरिद्रो जैनधर्मं स्वीकुर्याद् राजा वा कश्चन जैनधर्मं स्वीकुर्यादित्यत्र को वा विशेषः ? राजा कदाचित् बहूनि मन्दिराणि बध्नीयादित्येव किल ! । अपि च, यः कोऽपि कञ्चिद्धर्म स्वीकुर्यात् - तेनाऽपि किम् ? स यदि तं धर्म यथार्थरीत्याऽवबुध्य तदाचरणे निरतो भवेत् तदैव तेन स धर्मः स्वीकृत इति गण्येत । यदि भवादृशा अपि ईदृशमेव मतं धारयथ तदाऽहं मन्ये यद् राज्ञो व्यक्तित्वस्याऽन्यायो भवति । पूर्वस्य केनचिदलौकिकपुण्येन तस्य हृदये जगतः सर्वेषामपि जीवानां प्रति आत्मौपम्यं प्रकटितमस्ति । सर्वानपि सूक्ष्मस्थूलजीवान् स प्रेम-दया-करुणादिभावैः पश्यत्यधुना। तस्य वृत्तिरपि धर्म प्रत्यधिकाधिकं प्रह्वीभूताऽस्ति । एतत् सर्वं दृष्ट्वाऽहं तद्भूमिकोचितं धर्मं मार्गं च दर्शयन्नस्मि, किन्तु सहैव तं तस्य कुलधर्मपालनेऽपि प्रेरयामि राजधर्मं प्रत्यपि जागरयामि । यतः केवलमस्माकं धर्मः किञ्चिद् विस्तरेदित्यर्थं समग्रेऽपि देशे घर्षणमसामञ्जस्यं च प्रवर्तयेयमित्येतावान् क्षुद्रो नैवाऽहम् । यतो राज्ञे यदि धर्मो रुचितोऽस्ति तदाऽन्येषामपि राजपुरुषादिभ्यो धर्मो रुचित एवेत्येवं मनितुं न किमपि कारणम् । सर्वेभ्योऽपि धर्मं रोचयितुं सामर्थ्यमस्मत्समीपे तु नास्त्येव । अतोऽस्माभिः केवलं समन्वयस्य समाधानस्य च मार्गे एवाऽग्रेसर्तव्यम् । तदैवाऽस्माभिर्वीतरागजिनेश्वराणां मार्ग उपशमभावश्च सम्यगाराधितः - इति वक्तुं शक्येत' । 49 Jain Education Internationa Page #59 -------------------------------------------------------------------------- ________________ गुरूणां हृदयगहनान्निःसृतानीमानि वचनानि श्रुत्वा रामचन्द्राचार्याः स्तब्धीभूताः । तैश्चिन्तितं - 'नूनं परमगुरूणां देवचन्द्रसूरीणां सर्वेऽपि योगाध्यात्मभाव-निःस्पृहतादिगुणाः पूज्यगुरुवर्यैर्यथार्थतया सात्मीभावमानीताः सन्ति' । ततः परं तैः कदाऽपि गुरुभ्य एतदर्थं न निवेदितम् । ___ इतश्चैकदा कुमारपालेन गुरवो विज्ञप्ताः – 'प्रभो ! तादृशं किञ्चित् सत्कार्यं मे आदिशन्तु यत्करणेन मे पातकानि नश्येयुरात्मा पवित्रो भवेत्, मम नाम चाऽमरं भवेत्' । एवं विज्ञप्तेः श्रवणेन सर्वेऽपि सभासदश्चिन्तितवन्तः - 'नूनमते जैनाचार्या अद्य राजानं जैनधर्मस्थानमेव निर्मातुमुपदेष्यन्ति' । सर्वे तेषां वचनं श्रोतुं सकर्णीभूता आसन् । तावता गुरवो मधुरवचोभिरुक्तवन्तः - 'राजन् ! भवतः प्रपितामहस्य भीमदेवस्य शासनकाले प्रभासतीर्थे स्थितस्य सोमनाथमहादेवमन्दिरं म्लेच्छैविनाशितमस्ति । समग्रदेशवासिनो हि तथाऽपि सोमनाथमहादेवस्य दर्शन-पूजाद्यर्थं पूर्णश्रद्धया निरन्तरं तत्र समागच्छन्ति सदाऽपि । यदि भवान् पुण्यमुपार्जितुममरत्वं प्राप्तुं पातकानि च नाशयितुमिच्छति तदा सोमनाथमहादेवमन्दिरस्य जीर्णोद्धारं कृत्वा नूतनमुत्तुङ्गं विशालं चैकं महादेवालयं निर्माय तत्र महामहेन सोमनाथमहादेवं प्रतिष्ठितं करोतु । भवतः सर्वोऽपि अभिलाषः पूर्णीभविष्यति सहैव कोटिशः श्रद्धालूनां भक्तिभावस्य पुण्यमपि प्राप्स्यते' । __ गुरूणामुपदेशं श्रुत्वा कुमारपालोऽतीव प्रसन्नो जातः, सभासदश्च सर्वेऽपि नितरां विस्मिता जाताः। सोमनाथस्य मुख्यार्चकोऽन्ये च येऽपि जना आचार्यान् जैनेतरद्वेषिणो मन्यन्ते स्म मात्सर्यं च धरन्ति स्म तेऽपि ससन्तोषमाचार्याभिमुखा जाताः। आचार्यैश्च राजामात्य-सेनापति-नागरजनप्रमुखेभ्यः सर्वेभ्योऽपि यावत् सोमनाथमहादेवस्य प्रतिष्ठा न सम्पद्येत तावन्मद्य-मांसादीनां 50 Jain Education Internationa Page #60 -------------------------------------------------------------------------- ________________ त्यागस्य प्रतिज्ञा कारिता। कुमारपालेन सपद्येव तदङ्गीकृत्य सोमनाथ-महादेवमन्दिरस्य मूलशिल्पिनोऽन्वये जातः शिल्पी अन्वेषितस्तस्य च प्रभासतीर्थक्षेत्रे यथाशीघ्रं नूतनं सोमनाथमहादेवमन्दिर निर्मातुमनुरुद्धवान् । मन्दिरनिर्माणार्थं च कुमारपालेन राज्यकोशाद् विपुलं धनमर्पितम् । यदा च देशजनैर्जीर्णोद्धारवृत्तमिदं ज्ञातं तदा तैरपि पूर्णश्रद्धया भक्त्या च यथाशक्ति धनमर्पितम् । शिल्पिनाऽपि राज्ञो देशजनानां च भक्त्या श्रद्धया च प्रोत्साहितेन शीघ्रमेव नूतनं रमणीयं विशालं च मन्दिरं निर्मितम् । ततो राज्ञा मन्दिरस्य मुख्यार्चकादिभिश्चर्चयित्वा ज्यौतिषिकैः प्रतिष्ठादिनमुहूर्त-लग्नादि निर्णीतमुद्धोषितं च सर्वत्र ‘सोमनाथमहादेवप्रतिष्ठार्थं सर्वैरपि प्रभासतीर्थे समागन्तव्य'मिति । ततस्तेन हेमचन्द्राचार्येभ्योऽपि प्रतिष्ठायामागमनार्थं विज्ञप्तिः कृता तैश्च सहर्ष स्वीकृत्य कथितं - 'भवान् सपरिवारस्तत्र प्राप्नोतु वयं तु शत्रुञ्जयादितीर्थयात्रां कृत्वा समागमिष्यामः' । एतज्ज्ञात्वा तु सर्वेभ्योऽपि तद्विरोधिभ्योऽधिकमाश्चर्यं सञ्जातम् । ततो यथाकालं सर्वेऽपि राजामात्यादयः सपरिवारास्तत्र प्राप्ताः । आचार्या अपि पादचारेण तीर्थयात्रां कुर्वाणाः प्रतिष्ठाकाले तत्रोपस्थिताः । एतेन भावबृहस्पति-विश्वेश्वरकवि-प्रमुखा अतीव प्रसन्ना जाताः । वैक्रमे १२११तमे संवति महामहेनैषा प्रतिष्ठा जाता । तदा च हेमचन्द्राचार्यैर्भावबृहस्पत्यादिभिः सह शिवपुराणवर्णितविधिना महादेवस्य आह्वाना-ऽवगुण्ठनमुद्रान्यास-विसर्जनादि कृत्वा तत्प्रतिष्ठा कृता । ततो *महादेवद्वात्रिंशिकयाऽन्यैश्च स्तोत्रैर्भावपूर्णा स्तुतिरपि विहिता - यथा - त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं साक्षाद् येन यथा स्वयं करतले रेखात्रयं साङ्गलि । * महादेवद्वात्रिंशिकाऽत्रैव ग्रन्थेऽन्यत्र प्रदत्ताऽस्ति । 51 Jain Education Internationa Page #61 -------------------------------------------------------------------------- ________________ राग-द्वेष-भयामयान्तक-जरा-लोलत्व-लोभादयो नाऽलं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥ यो विश्वं वेद वेद्यं जननजलनिधेर्भङ्गिनः पारदृश्वा पौर्वापर्याविरुद्धं वचनमनुपमं निष्कलङ्कं यदीयम् । तं वन्दे साधुवन्द्यं सकलगुणनिधि ध्वस्तदोषद्विषन्तं बुद्धं वा वर्धमानं शतदलनिलयं केशवं वा शिवं वा ॥ भवबीजाङ्करजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ यत्र तत्र समये यथा तथा, योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद् भवान्, एक एव भगवन्नमोऽस्तु ते ॥ इत्यादि ॥ एतदवसरानन्तरं भावबृहस्पत्यादीनां सर्वेषामपि हेमचन्द्राचार्यान् प्रति हार्दो बहुमानभावः सञ्जातः । अथ च ततः प्रतिनिवृत्ताः सर्वेऽपि यथाकालं पत्तनं समागताः । ततो राज्ञा आचार्येभ्यो विज्ञप्तं 'प्रभो ! अहं योगमार्गमभ्यसितुमिच्छामि । यदि मयि योग्यता स्यात् तर्हि कृपयोपदिशन्तु' । तदा गुरुभिरपि तत्प्रार्थनं स्वीकृत्य योगशास्त्रं विरचितं स्वयमेव च समग्रमपि तद् राज्ञः शिक्षितम् । द्वादशप्रकाशमयेऽस्मिन् योगशास्त्रे मार्गानुसारितागुणाः यम-नियमादियोगाङ्गानि श्रावकयोग्यद्वादशव्रतानि च सविस्तरं वर्णितानि सन्ति । ततस्तथैव तस्य भक्तिमार्गारार्धनार्थं विंशतिप्रकाशमयो वीतरागस्तवोऽपि विरचित आचार्यैः । एतान् द्वात्रिंशदपि प्रकाशान् प्रत्यहं प्रात:काले भणित्वैव कुमारपालो ऽन्न-जलादिकं गृह्णाति स्म । एवं च योगशास्त्रस्य सततमभ्यासेन योगमार्गे सोऽग्रेसरोऽभवत् स्ववंशपरम्पराक्रमागतं (Heridity) लूतारोगमपि च योगाभ्यासेन शमितवान् । Jain Education InternationaFor Private 52ersonal Use Only - Page #62 -------------------------------------------------------------------------- ________________ गुरुमुखाद् धर्मशास्त्राणां निरन्तरं श्रवणेनाऽन्यदा कुमारपालस्य हृदये श्रावकयोग्यानि द्वादशव्रतानि ग्रहीतुं भावना जागृता । तेन चाऽऽचार्येभ्यस्तदर्थं निवेदनं कृतम् । तैरपि तदुचितं मत्वा शुभदिने चतुर्मुख-जिनेश्वरप्रतिमासम्मुखं तस्मै विधिपूर्वकं व्रतानि प्रदत्तानि सहैव परमार्हत-इति बिरुदमपि प्रदत्तम् । ततस्तस्योद्यापनरूपेण तेन गुरूपदेशात् स्वनगरे कुमारविहारनामकं जिनमन्दिरं कुमारपालेश्वरमहादेवमन्दिरं चाऽपि निर्मापितं तत्प्रतिष्ठा च कारिता । एकदा गुरुभ्यः केनचिन्निर्धनश्रावकेण हार्दभावनया हस्तव्यूतमेकं स्थूलवस्त्रं प्रदत्तं, तच्च परिहितं गुरुभिः । तदा तत्राऽऽगतेन कुमारपालेन तद् दृष्ट्वा गुरुभ्यो विज्ञप्तं - 'प्रभो ! किमित्येतादृक्वस्त्रधारणम् ?' गुरुभिरुक्तं - 'राजन् ! अस्माकं त्वयमेव धर्मो यद् निर्दोषं वस्त्रान्न-पानादि यत्र यतो वा प्राप्यते तद् ग्रहीतव्यम् । परमत्र भवता किञ्चिच्चिन्तनीयं वर्तते यद् भवद्राज्ये एतादृशो निर्धनाः कियन्तः सन्तीति । एकतो धनवतां पार्श्वे कियद् धनमस्ति तस्य गणनैव नास्ति, अन्यतश्चैतादृशा जना अपि सन्ति ये प्रायो दिने एकवारमेव भोक्तुं कष्टेन लभन्ते । ईदृशां दुर्गतानां धारण-पोषणादि राज्ञः कर्तव्यं भवति । भवता स्वकर्तव्यं सम्यङ् निभालनीयम्' गुरूपदेशं श्रुत्वा करुणाभृतचेतसा नृपेण दीन-दुर्गतानां जीवनस्तरमू/कर्तुं पूर्णतया प्रयतितं तत्र च साफल्यमपि प्राप्तम् । एवं चाऽनेकानेकसुकृत्यकरणेन कुमारपालस्य पुण्यानि तादृक्प्रबलानि जातानि यत् तस्य शासनकाले समग्र देशे न कदाऽपि दुर्भिक्षादीनि व्यसनानि सञ्जातानि नाऽपि च मार्यादि रोगा उत्पन्ना नैव च कोऽपि दुःखितः स्थितः । एतच्च हेमचन्द्राचार्याः स्वयमेव स्वविरचितायामभिधानचिन्तामणि 53 Jain Education Internationa Page #63 -------------------------------------------------------------------------- ________________ नाममालायां कथयन्ति यथा - कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः । मृतस्वमोक्ता धर्मात्मा मारि-व्यसनवारकः ।। ३/३७६) तथा सोमप्रभाचार्या अप्याहुः - स्वचक्रं परचक्रं वा नाऽनर्थं कुरुते क्वचित् । दुर्भिक्षस्य न नामाऽपि श्रूयते वसुधातले ॥ मोहराजपराजयनाटके मन्त्री यशःपालोऽप्याह - पद्मासद्म कुमारपालनृपतिर्जज्ञे स चन्द्रान्वयी जैनं धर्ममवाप्य पापशमनं श्रीहेमचन्द्राद् गुरोः । निर्वीराधनमुज्झता विदधता द्यूतादिनिर्वासनं येनैकेन भटेन मोहनृपतिर्जिग्ये जगत्कण्टकः ॥ इत्यादि ।। अथाऽन्यदा गुरूपदेशेन कुमारपालः पादचारेण तीर्थयात्राः । कर्तुकामो यात्रासङ्घमायोजितवान् । सहस्रशो जना अत्र सङ्के : समागताः । गुरवोऽपि स्वीयसाधुवृन्देन सह समागताः । प्रथमं तैः शत्रुञ्जयतीर्थस्य यात्रा कृता । तत्र च गुरुभिः प्रथमतीर्थकृतः । श्रीऋषभदेवप्रभोः सम्मुखं स्थित्वा महाकविधनपालविरचिता ऋषभपञ्चाशिका स्तुतिरूपेण गीता । तदा कुमारपालेनोक्तं - 'प्रभो ! भवन्तः स्वयमेव विरचितानि स्तुत्यादीनि किमर्थं न : गायन्ति ?' तदाऽऽचार्यैरुक्तं - 'राजन् ! धनपालसदृशं सद्भक्तिगर्भितं स्तवनं नाऽस्माभिर्विरचयितुं शक्यं म्' । तेषामीदृशीं विनम्रतां दृष्ट्वा कुमारपालोऽन्ये च सर्वथाऽभिभूताः सञ्जाताः। तैरनुभूतं यन्नेदमौपचारिकं नम्रत्वमपि तु वास्तविकमेव । ततस्ते * अन्यत्राऽपि ते वदन्ति – क्व सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला क्व चैषा ? ॥ तथा - क्वाऽहं पशोरपि पशुर्वीतरागस्तव: क्व च । उत्तित्तीर्घरण्यानी पद्भ्यां परिवाऽस्म्यतः ॥ सिद्धहेमव्याकरणेऽपि कथयन्ति ते – अनुसिद्धसेनं कवयः, उपोमास्वाति सङ्ग्रहीतारः -- इत्यादि । 54 Jain Education Internationa Page #64 -------------------------------------------------------------------------- ________________ भक्तिभृतचेतसा उज्जयन्तगिरेः प्रभासादिक्षेत्राणां च यात्राः कृत्वा स्वनगरं समागताः । अथ 'काव्यशास्त्रविनोदेन कालो गच्छति धीमता'मिति सुभाषितानुसारं प्रायशो राजानः स्वप्रशस्तिकाव्यानां श्रवणेन शृङ्गारिकश्लोकानां पठनादिभिश्च विनोदं प्राप्य कालं गमयन्ति । किन्तु कुमारपालनृपाय नैतत् सर्वं रोचते स्म । इतो हेमचन्द्राचार्या अपि स्वाध्याय-साहित्यसर्जनादिषु मग्ना कालं वृथा यापयितुं सज्जा नाऽऽसन् । अतः कुमारपालेन तेभ्यो विज्ञप्तं - 'प्रभो ! भवद्भिर्मयि बहूपकृतमस्ति । अधुनाऽन्यमप्युपकारं कुर्वन्तु । कृपया मत्कृते तीर्थकर-चक्रवर्ति-वासुदेव-प्रतिवासुदेव-बलदेवादीनां चरितानि संसृजन्तु यत्पठनेन मे कल्मषाणि विनश्येयुः' । तदा हेमचन्द्राचार्यैस्तस्य प्रार्थना स्वीकृता, सरसया सरलया मधुरया गिरा च त्रिषष्टेरपि पूर्वोक्तानां महापुंसां चरितानि निबद्धानि तानि च त्रिषष्टिशलाकापुरुष-चरित-महाकाव्यमिति प्रसिद्धानि । अत्राऽर्थे च ते स्वयमेवोचुर्यथा - जिष्णुश्चेदि-दशार्ण-मालव-महाराष्ट्रापरान्तान् कुरूसिन्धूनन्यतमांश्च दुर्गविषयान् दोर्वीर्यशक्त्या हरिः । चौलुक्यः परमार्हतो विनयवान् श्रीमूलराजान्वयी तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा ।। पापर्द्धि-द्यूत-मद्यप्रभृति किमपि यन्नारकायुनिमित्तं तत् सर्वं निनिमित्तोपकृतिकृतधियां प्राप्य युष्माकमाज्ञाम् । स्वामिन् ! ऊर्त्यां निषिद्धं धनमसुतमृतस्याऽथ मुक्तं तथाऽर्हच्चैत्यैरुत्तंसिता भूरभवमिति समः सम्प्रतेः सम्प्रतीह ॥ पूर्वं पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो याच्या साङ्गं व्याकरणं सुवृत्तिसुगमं चक्रुर्भवन्तः पुरा । Jain Education InternationaFor Privat55 Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ मद्धेतोरथ योगशास्त्रममलं लोकाय च व्याश्रय च्छन्दो-ऽलङ्कृति-नामसङ्ग्रहमुखान्यन्यानि शास्त्राण्यपि ॥ लोकोपकारकरणे स्वयमेव यूयं, सज्जाः स्थ यद्यपि तथाऽप्यहमर्थयेऽदः । मादृग्जनस्य परिबोधकृते शलाका पुंसां प्रकाशयत वृत्तमपि त्रिषष्टेः॥ तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम् । धर्मोपदेशैकफलप्रधानं, न्यवीविशच्चारु गिरां प्रपञ्चे ॥ (त्रिषष्टिशलाकापुरुषचरितमहाकाव्यप्रशस्तिः ।) ततः कुमारपालेनाऽपि महाग्रन्थस्यैतस्याऽन्येषामपि हेमचन्द्राचार्यविरचितानां ग्रन्थानां कृते भूरि व्ययं कृत्वा देशविदेशेभ्यस्तालपत्राणि आनायितानि, तेषु च सर्वेषामपि ग्रन्थानां बह्वयः प्रतिकृतयो लेखयित्वा एकविंशतिर्ज्ञानकोशाः कारिताः, विविधमहानगरेषु च प्रेषिताः ।। एवं तेनाऽन्यान्यपि बहूनि सत्कार्याणि कृतानि यथा - स्वराज्ये प्रजानां सर्वाण्यपि शुल्कग्रहणानि निषिद्धानि, निरन्तरं दानशाला: प्रवर्तिताः, स्वपूर्वजैः कारितानां देवालयानां जीर्णोद्धाराः, प्रभूतनूतनमन्दिरनिर्माणं च, तारणदुर्गे चाऽतिविशालजिनालयस्य निर्माणमित्यादि कृतम् । तथा तस्य मनसि सर्वानपि दीनदुर्गतादिजनान् सुखीकर्तुं हार्दी भावनाऽऽसीत् साऽपि तेन यथाशक्ति पूर्णीकृता । हेमचन्द्राचार्या अपि कुमारपालस्य सत्कार्यैः प्रसन्नीभूताः सततं तं यथोचितं प्रेरणं ददति स्म । वैक्रमे १२२३ तमे संवति भृगुकच्छनगरे आम्रभट्टमन्त्रिणा निर्मापितस्य शकुनिकाविहाराख्य-जिनालयस्य प्रतिष्ठा हेमचन्द्रा* अद्याऽपि समग्रे राज्ये विशालतयाऽद्वितीयमिदं जिनमन्दिरं गूर्जरराज्ये तारणगिरौ विराजते । 5A Jain Education Internationa Page #66 -------------------------------------------------------------------------- ________________ चार्यैः कृता । तदवसरे च राजा सर्वेऽपि च मन्त्रि-सामन्तादय उपस्थिता आसन् । प्रतिष्ठामहोत्सवोऽपि चाऽऽम्र भट्टेनाऽत्यन्तमुल्लसितहृदयेन भूरिद्रव्यव्ययं कृत्वा कृतः । तदा तस्याऽतीवोत्साहमुल्लासं च दृष्ट्वा नगरवास्तव्या सिन्धुदेवी तस्योपरि कुपिता सती तं विविधोपद्रवैः पीडयितुमारब्धा । तेन स मृतप्रायो जातः । तस्य परिवारजना बहु चिन्तिता जाताः । तदा केनचित् हेमचन्द्राचार्येभ्यो वृत्तमेतत् कथयितुं सूचितम् । परिवारजनैराचार्येभ्यस्तन्निवेदितम् । शीघ्रमेव चाऽऽचार्यैस्तत्र समागत्य स्वयोगबलेन सा सिन्धुदेवी निगृहीता, नियन्त्रिताऽऽम्रभट्टं च मोक्तुमादिष्टा । साऽपि तेषां तेजोऽसहमाना सद्य एवाऽऽम्र भट्ट मुक्त्वा स्वस्थानं गतवती । ततो यथोचितमुपचारैराम्रभट्टः स्वस्थो जातः । तदनन्तरं, कुमारपालेन स्वनगरे केचन जिनालया निर्मापिता आसन् । तेषां प्रतिष्ठा वैक्रमे १२२८-तमे संवति कृता । तत्र च शुभमुहूर्त-लग्नादिवेलां साधयितुं हेमचन्द्राचार्यैः स्वशिष्यो बालचन्द्राख्यो घटीयन्त्रं दत्त्वोपवेशित आसीत् । किन्तु गुरुद्रोहिणा तेन स्वीयमर्थं साधयितुं लग्नवेलातः पूर्वमेव कथितं यद् - 'लग्नवेला समागते'ति । ततश्चाऽऽचार्यैर्मन्त्रोच्चारणपूर्वं तत्क्षणमेव प्रतिष्ठा कारिता । तदैव च वटपद्रात् कानजीनामा श्रेष्ठी धावन्नेव समागतः प्रतिष्ठां च समर्थितां दृष्ट्वाऽऽचार्यपादयोविलग्य विलपितुं प्रवृत्तो यथा – 'प्रभो ! मे प्रतिमायाः प्रतिष्ठा नैव जाते'ति । तदा शीघ्रमेवाऽऽचायैर्बहिरागत्य नभसि दृष्टिपातः कृतो ज्ञातं च - 'लग्नवेला त्विदानीमेव समायाते'ति । 'बालचन्द्रेण च स्वार्थसाधनाय मृषैव कथितमासी'दिति । तैझटिति तं श्रेष्ठिनं सान्त्वयित्वा तत्प्रतिमायाः प्राणप्रतिष्ठा कृता कथितं च – 'अस्य श्रेष्ठिनः प्रतिमायाः प्रतिष्ठाऽत्यन्तं शुभलग्ने सञ्जाताऽस्त्यत एषा 57 Jain Education Internationa Page #67 -------------------------------------------------------------------------- ________________ चिरकालस्थायिनी । पूर्वं कृता तु प्रतिष्ठा न तथा चिरकालस्थायिनी । मन्ये दैवेच्छेयमेवाऽस्ती 'ति । एतादृशाः प्रसङ्गास्त्वेतेषां जीवने बहवः समायाताः किन्तु तैः सर्वदाऽपि समतया समाधिना स्वस्थतया चैव व्यवहृतम् । एष हि तेषामस्तित्वेन सहाऽऽत्मसाद्भूतानां योगाध्यात्मादीनां प्रभाव आसीत् । - अथ च सिंहावलोकनेन तेषां जीवनं विलोक्येत तदा ज्ञायते यद् – निजं समग्रमपि जीवनं तैर्नित्यनूतनसाहित्यसृष्टौ श्रुतोपासनायां च व्ययितम् । सहैवाऽन्तर्मुखताया योगाध्यात्मादीनां च साधनाऽपि निरन्तरं प्रवर्तमानाऽऽसीत् । तेषां ध्येयमासीत् भवबीजाङ्करजनकानां रागादीनां नाशः । तदर्थमेव च जीवनस्य प्रतिक्षणं प्रयतितं तैः । तेन च तेषां जीवनस्य प्रत्येकं क्षण: शुद्धानन्देन सात्त्विकप्रसन्नतया चैव व्यतीतः । तेषां संयमे साधुजीवने नित्यक्रियासु च तादृशं शौर्यं पराक्रमश्चाऽऽसीत् यादृशं I पूर्वरणरसेन शत्रुणा सह युध्यमानस्य शूरयोधस्य कस्यचित् स्यात् । तैर्हि स्वीयामोघवाचा प्रायः सार्धलक्षं जनाः जैनधर्ममङ्गीकारिताः । एतादृशलोकसङ्ख्याबलेन ते हि कञ्चन नूतनसम्प्रदायं स्वकीयं गच्छं वा संस्थापयितुं समर्था आसन् । किन्तु तदर्थमावश्यकी महत्त्वाकाङ्क्षा तेषां नाऽऽसीत् नाऽपि च क्षुद्रता तुच्छता च । ते तु सर्वथा समत्ववन्तः स्थितप्रज्ञा विरागिनो ज्ञानिनश्चाऽऽसन्, ततश्च तेषां जीवने तादृश्येकाऽपि प्रवृत्तिर्न विलोक्यते यया स्वल्पमपि चित्तदौर्बल्यं प्रकटीभवेत् । तेषां जीवनसार्थक्यं त्वेकमेवाऽऽसीत् - स्व- परौन्नत्यम् | तीर्थकराणामुपदेशमनुसृत्य स्वयं परे च जना स्वजीवनमुन्नतं कुर्युस्तेन च तीर्थकरमार्गं तीर्थकरशासनं च प्रोज्ज्वलं कुर्युरित्येव तेषां हार्दोऽभिलाष आसीत् । 58 Jain Education Internationa Page #68 -------------------------------------------------------------------------- ________________ एतादृशेनाऽऽन्तरगुणवैभवेन कुबेरायमाणानां तेषां बाह्यः शारीरवैभवोऽपि प्रशस्तो योगसाधनया तपसस्तेजसा च देदीप्यमान आबाल-वृद्धानां च सर्वेषामाकर्षणकारणमासीत् । अत्राऽर्थे च तेषामेव समकालीनाः श्रीसोमप्रभाचार्यास्तान् यथादृष्टं यद् वर्णयन्ति तदेव पर्याप्तम् - *तुलियतवणिज्जकंती सयवत्तसवत्तनयणरमणिज्जा । पल्लवियलोयलोयण-हरिसप्पसरा सरीरसिरी ॥१॥ आबालत्तणओ वि हु, चारित्तं जणियजणचमक्कारं । बावीसपरिसहसहण-दुद्धरं तिव्वतवप्पवरं ॥२॥ मुणियविसमत्थसत्था निम्पियवायरणपमुहगंथगणा । परवाई पराजयजायकित्ती मई जयपसिद्धा ॥३॥ धम्मपडिवत्तिजणणं अतुच्छमिच्छत्तमुच्छिआणं पि । महु-खीरपमुहमहुरत्तनिम्मियं धम्मवागरणं ॥४॥ इच्चाइगुणोहं हेमसूरिणो पेच्छिऊण छेयजणो । सद्दहइ अदिढे वि हु तित्थंकरगणहरप्पमुहे ॥५॥ इत्यादि ॥ * तुलिततपनीयकान्तिः, शतपत्रसपत्ननयनरमणीया । पल्लवितलोकलोचन-हर्षप्रसरा शरीर श्रीः ॥११॥ आबालत्वतोऽपि खलु, चारित्रं जनितजनचमत्कारम् । द्वाविंशतिपरीषहसहनदुर्धरं तीव्रतपःप्रवरम् ॥२॥ ज्ञातविषमार्थसार्था, निर्मितव्याकरणप्रमुखग्रन्थगणा । परवादिपराजयजातकीर्तिः मतिर्जगत्प्रसिद्धा ।।३।। धर्मप्रतिपत्तिजननमतुच्छमिथ्यात्वमूच्छितानामपि । मधु-क्षीरप्रमुखमधुरत्वनिर्मितं धर्मव्याकरणम् ॥४॥ इत्यादिगुणौघं हेमसूरेः प्रेक्ष्य छेकजनः । श्रद्धधाति अदृष्टानपि खलु तीर्थकर-गणधरप्रमुखान् ॥५॥ (कुमारपालप्रतिबोधः) 59 Jain Education Internationa Page #69 -------------------------------------------------------------------------- ________________ ततश्च ये जनाः सर्वथा नास्तिकतया तीर्थकरगणधरादिमहापुरुषाणामस्तित्वमासीत् पुरा - इति न मन्यन्ते स्म तेऽपि हेमचन्द्राचार्याणां भव्यव्यक्तित्वस्य दर्शनं कृत्वा सर्वथाऽऽस्तिका भवन्ति स्म – 'अस्मिन् कलिकालेऽपीदृशा महापुरुषा यदि विद्यन्ते तर्हि पूर्वं तीर्थकर-गणधरादयो महापुरुषा अवश्यं सञ्जाता एवे'ति श्रद्दधति स्म च । अथाऽत्र जगति जातानां केषाञ्चिज्जन्म भव्यं भवति, श्रेष्ठतया जीवितानां केषाञ्चिज्जीवनमपि भव्यं भवति, सहजतया च सर्वमपि त्यक्त्वा परलोकं सञ्चरतां केषाञ्चिन्मृत्युरपि महोत्सवायते। किन्तु त्रयेऽपि जन्म-जीवन-मृत्यवः केषाञ्चिद् विरलानामेव भव्या भवन्ति । हेमचन्द्राचार्या ह्येतेषां विरलानामन्यतमा आसन् । उत्तमतया जन्म गृहीत्वा स्वपरकल्याण एव च जीवनं व्यतीत्य चतुरशीतिवर्षायुष्काणां तेषां स्वर्गमनकालः सन्निहित आसीत् । तैर्हि पूर्वमेव स्वमरणसमयः शिष्याणां कुमारपालस्य च कथित आसीत् । एतच्च ज्ञानं तेषां योगाभ्यासस्य फलमासीत् । जीवनेऽर्जितानां सकलानामपि सिद्धीनां परीक्षा मृत्युकाल एव भवति । हेमचन्द्राचार्या हि तदर्थं सर्वथा सन्नद्धा आसन् । निश्चितदिने तैः शिष्यगणः कुमारपालः सकलसङ्घश्च स्वस्थाने एकत्र कृतः । सर्वेऽपि तत्प्रयोजनं जानन्ति स्मैव । अतः सर्वेऽप्युदासाः शोकमग्नाश्चाऽऽसन् । शिष्यवृन्दं स्तब्धतयैकतः स्थितमासीत् । राजाऽपि गुरुचरणयोर्मस्तकं नामयित्वोपविष्ट आसीत् । सङ्घश्च सजलनेत्र आसीत् । गुरुभिः सर्वेऽपि सप्रेमदृष्ट्या निरीक्षिताः सम्भाषिताश्च । शिष्याणामपि भवबीजाङ्करनाशार्थं साधनमाराधनं च कर्तुमनुशिष्टम् । ततो राज्ञे कथितं - 'राजन् ! भवान् कुलपरम्परया परममाहेश्वरो धर्माचरणेन च परमार्हतो भूत्वाऽपि जीवने परममानवोऽपि सञ्जातः । भवता निजजीवनं सफलीकृतमस्ति । 60 Jain Education Internationa Page #70 -------------------------------------------------------------------------- ________________ अतः शोकं मा कार्षीत् । किञ्च, भवतो गमनकालोऽपि केवलं षण्मासावशिष्ट एव । अतोऽधिकाधिकसत्कार्याणि कृत्वा मरणं सफलीकरोतु' । ततस्तैः शिष्यगणेन नृपेणाऽन्यैश्च सह नम्रतया क्षमायाचनं कृतम् । सकलजगज्जीवैः सहाऽपि क्षमायाचनं कृतं, यथा - क्षमयामि सर्वान् सत्त्वान्, सर्वे क्षाम्यन्तु ते मयि । मैत्र्यस्तु तेषा सर्वेषु त्वदेकशरणस्य मे ।। अर्हत्सिद्ध-साधु-धर्मस्वरूपचतुःशरणं स्वीकृतं - त्वां त्वत्फलभूतान् सिद्धांस्त्वच्छासनरतान् मुनीन् । त्वच्छासनं च शरणं प्रतिपन्नोऽस्मि भावतः ॥ ततः शुद्धात्मस्वरूपे लयं प्राप्तानां तेषां मुखान्मृदुमधुरस्वरेण श्लोकावलिः प्रस्फुटिता - न शब्दो न रूपं न रसो नाऽपि गन्धो न वा स्पर्शलेशो न वर्णो न लिङ्गम् । न पूर्वापरत्वं न यस्याऽस्ति सज्ञा स एकः परात्मा गतिर्मे जिनेन्द्रः ।। आत्मन् ! देवस्त्वमेव त्रिभुवनभवनोद्योतदीपस्त्वमेव ब्रह्मज्योतिस्त्वमेवाऽखिलविषयसमुज्जीवनायुस्त्वमेव । कर्ता भोक्ता त्वमेव व्रजसि जगति च स्थाणुरूपस्त्वमेव स्वस्मिन् ज्ञात्वा स्वरूपं किमु तदिह बहिर्भावमाविष्करोमि ? ॥ इत्यादि ॥ शनैः शनैस्तेषां नेत्रे परमशान्तौ निमग्ने इव निमीलिते। वदनं तेजसा प्रोल्लसितम् । निर्दिष्टे च क्षणे शुद्धस्वरूपानुसन्धाने लीनानां तेषां प्राणा योगप्रक्रियया ब्रह्मरन्ध्रान्निर्गताः । गूर्जरदेशस्य संस्कारनेतारो महातपस्विनः परमसंयमवन्तोऽनन्यसाधारणविद्वांसो Jain Education Internationa Page #71 -------------------------------------------------------------------------- ________________ महानृपतिद्वयप्रतिबोधकाः समर्थसाधवश्च श्रीहेमचन्द्राचार्याः स्वर्गभुवमलञ्चक्रुः । एतच्च वैक्रमे १२२९तमे संवति घटितम् । तेषामन्तिमयात्रायां लक्षशो जना उपस्थिता आसन् । चन्दनकाष्ठमयचितायां तेषां पार्थिवदेहस्याऽग्निसंस्कारो जातः । तदनन्तरं कुमारपालेन राज्ञा सबाष्पनेत्रेण तद्भस्मना तिलकं कृतम् । ततः सर्वैरपि जनैस्तत्रोपस्थितैस्तद्भस्म गृहीतम् । एतेन तत्र स्थाने महान् गर्त एव सञ्जातः, स चाऽद्याऽपि पत्तननगरे विद्यते 'हे - इति नाम्ना प्रसिद्धश्चाऽस्ति ।। तदनन्तरं षण्मासान्ते कुमारपालनृपोऽपि हेमचन्द्राचार्यनिर्दिष्टदिने परमात्मतत्त्वलीनहृदयो गुरुभिः कृतानामुपकाराणां स्मरणं कुर्वन्, यथा - श्रीहेमसूरिप्रभुपादपद्मं वन्दे भवाब्धेस्तरणैकपोतम् । ललाटपट्टान्नरकान्तराज्याक्षरावलियेन मम व्यलोपि ॥ इत्यादि, प्रसन्नचित्तः कृतजगज्जीवमैत्रीभावः स्वभ्रातृजेनाऽजयपालेन कृताद् विषप्रयोगान्मर्त्यदेहमिमं त्यक्त्वा स्वर्लोकं प्राप्तः । -------- अथ चैतत् चरितमिह समाप्तं भवति । किन्तु विरामात् पूर्वं काचित् स्पष्टता कर्तव्या । कलिकालसर्वज्ञानां श्रीहेमचन्द्राचार्याणां सम्पूर्ण जीवनचरितं कुत्राऽपि वर्णितं न प्राप्यते । विविधग्रन्थेषु केवलं याः काश्चन घटनाः प्रसङ्गाश्च प्राप्यन्ते तानेव गुम्फित्वाऽत्र किञ्चिद् वर्णितमस्ति । तत्राऽपि च तेषामेव समकालीनैः श्रीसोमप्रभाचार्यैः कुमारपालप्रतिबोधः-नाम प्राकृतभाषामयो ग्रन्थो विरचितोऽस्ति, स च हेमचन्द्राचार्यशिष्यैरेव संशोधितोऽस्त्यतः सर्वथा प्रामाणिकोऽस्तीति तदनुसारमेव तेषां जन्मादिप्रसङ्गा वर्णिताः सन्ति । तथैव केषुचित् प्रबन्धेषु * अद्यत्वे इदं स्थानं मुस्लिमजनानां हस्तगतमस्ति । Jain Education Internationa Page #72 -------------------------------------------------------------------------- ________________ बहवश्चमत्कारपूर्णप्रसङ्गा अपि हेमचन्द्राचार्यानाश्रित्य वर्णिताः सन्ति । तेऽत्र चरिते नैव समाविष्टाः । अपि च, गूर्जरदेशनृपतेः सिद्धराजजयसिंहस्य तथा कुमारपालस्याऽपि चरितप्रसङ्गाः केचनाऽत्र हेमचन्द्राचार्यचरिते समाविष्टाः सन्ति, यतस्तेषां त्रयाणामपि महापुरुषाणां जीवनान्यन्योन्यसम्मीलितानि पृथक्कर्तुं च नैव शक्यानि। किञ्च, पाश्चात्यविदुषा बुहलर-इत्यनेनाऽन्यैश्च कैश्चित् तेषां जीवनप्रसङ्गाः लिखिताः सन्ति । किन्तु ते सर्वेऽपि विद्वांसः प्रायो जैनपरम्पराया जैनसाध्वाचाराणां चाऽनभिज्ञाः आसन् । अतस्तैः स्वमतिकल्पनया तत्र तत्र यत्किञ्चिदसमञ्जसं वर्णनं कृतम् । तच्चेह सर्वथा नाऽऽदृतम् ।। प्रान्ते मम मनोगतभावान् प्रकटीकृत्य समर्थयामि । एतच्चरितालेखने मां प्रवर्तयितृभिर्मम पूज्यगुरुवर्यैर्बहून् ग्रन्थानर्पयित्वा महत्त्वपूर्णवृत्तानि च कथयित्वा भृशमुपकृतोऽस्मि । अतो नितरां तेषामृणभारं धारयामि । चरितालेखनव्याजेन सर्वानपि ग्रन्थानेतान् पठतो मे हेमचन्द्राचार्याणामन्तरङ्गपरिचयो जातस्तेन च मनसि ये केचन विकल्पा असमञ्जसभावाश्चाऽऽसन् ते सर्वेऽपि स्वयमेवोपशान्ताः । सहैव च जीवने सर्वत्राऽपि समेषु विषमेषु च प्रसङ्गेषु समत्वं कथं धार्य, समन्वयनं कथं कर्तव्यं, स्वस्थतया च कथं स्थेयमित्यादयो महत्त्वपूर्णा शिक्षापाठाः प्राप्तास्तथा चरितालेखनमेतत् कुर्वता नितान्तं चित्तप्रसन्नता हृदयप्रफुल्लितता च प्राप्ता । एते सर्वेऽपि लाभा नन्दनवनकल्पतरुमाध्यमेन संस्कृतसाहित्यवाचकानामपि स्युरित्याशासमानो विरमामि । 63 Jain Education Internationa Page #73 -------------------------------------------------------------------------- ________________ सन्दर्भग्रन्थसूचिः अस्मिन् चरितालेखनेऽन्येषु च लेखेषु विविधा ग्रन्था लेखाश्चोपयुक्ताः सन्ति । तेषां सूचिरत्र प्रदत्ताऽस्ति । संस्कृत-प्राकृतग्रन्थाः ग्रन्थनाम ग्रन्थकारः कुमारपालप्रतिबोधः सोमप्रभाचार्यः प्रबन्धचिन्तामणिः मेरुतुङ्गाचार्यः प्रबन्धकोशः राजशेखरसूरिः पुरातनप्रबन्धसङ्ग्रहः विविधा आचार्याः कुमारपालप्रबन्धः अज्ञातः कर्ता प्रभावकचरितानि प्रभाचन्द्रसूरिः कुमारपालचरितसङ्ग्रहः विविधा आचार्याः गूर्जरभाषापुस्तकानि नाम लेखकः कलिकालसर्वज्ञहेमचन्द्राचार्य डॉ. रमणलाल ची. शाह आचार्य हेमचन्द्र डॉ.वि.भा.मुसलगांवकरः श्रीहेमचन्द्राचार्य धूमकेतुः राजर्षिकुमारपाल धूमकेतुः हेमसमीक्षा मधुसूदन मोदी जैन जर्नल, एप्रिल-१९६८ विविधा लेखकाः जैनपरंपरानो इतिहास त्रिपुटीमहाराजाः जैनसाहित्यनो संक्षिप्त इतिहास मोहनलाल द. देसाई गूर्जरलेखाः लेख: लेखकः महान् आचार्य श्रीहेमचन्द्रसूरि आगमप्रभाकरमुनिश्रीपुण्यविजयजी राजर्षि कुमारपाल पुरातत्त्वाचार्य श्रीजिनविजयजी श्रीमद् हेमचन्द्राचार्यनी कृतिओ मोतीचंद गि. कापडिया हेमचन्द्राचार्य- शिष्यमण्डल भोगीलाल सांडेसरा श्रीमद् हेमचन्द्राचार्य मोहनलाल द. देसाई हेमचन्द्राचार्यनी अपभ्रंशसेवा चतुरभाई शं. पटेल मध्यकालीन भारतना महावैयाकरण पं. अंबालाल प्रेमचंद शाह कवि हेमचन्द्राचार्य जयन्त ठाकर जैनदर्शन अने हेमचन्द्राचार्य डॉ. नगीन जी. शाह 64 Jain Education Internationa Page #74 -------------------------------------------------------------------------- ________________ श्रीहेमचन्दाचार्याणां शिष्यवृन्दम् श्रीहेमचन्द्राचार्यसदृशानां महापुरूषाणां परिकरे येषा नितरां ज्ञानपिपासा स्यात् तादृशा विद्याप्रियाः शिष्या एव सम्मीलिता भवेयुरिति तु सहजमेव । तेषां शिष्या प्रायः सर्वेऽपि प्रशस्ता विद्वांसः साहित्यकाराश्चाऽऽसन् – इति इतिहासो वदति । तत्राऽपि तेषां मुख्यशिष्य आचार्यरामचन्द्रसूरिरासीत् । तादात्विक-विद्वत्सु च तस्य स्थानं स्वगुरूणामनन्तरमेवाऽऽसीत् । एनमतिरिच्याऽन्येऽपि गुणचन्द्रः, महेन्द्रसूरिः, वर्धमानगणिः, देवचन्द्रः, उदयचन्द्रः, यशश्चन्द्रः, बालचन्द्रः - इत्याद्यास्तेषां शिष्या आसन् । ते सर्वेऽपि विद्वांसो यथाशक्ति साहित्य-रचयितारश्चाऽऽसन् । हेमचन्द्राचार्याणामनन्यसाधारणपाण्डित्यस्य छाया तेषु सर्वेषु दृश्यते स्म । अथ सर्वेषामपि तेषां परिचयं प्राप्नुमः - १. महाकविरामचन्द्रसूरिः बाल्ये एव दीक्षां गृहीत्वा हेमचन्द्राचार्याणां शिष्यत्वमङ्गीकुर्वाणस्य चारणज्ञातीयस्याऽस्य जन्मस्थान-मातापित्रादि न किमपि ज्ञायते । हेमचन्द्राचार्याणां मुख्यशिष्य एष एवाऽऽसीत् । बाल्यादेव तस्य काव्यशक्तिरनुपमा प्रतिभा चाऽसाधारण्यासीत् । एकदा सिद्धराजजयसिंहेन गुरुभ्यः पृष्टं - 'प्रभो ! को भवतां विद्वान् गुणी च शिष्यः ?' गुरुभिः स्मित्वा 'रामचन्द्र' इति कथिते राजा तत्परीक्षार्थं – 'केनाऽतिवृद्धं दिनम् ?' इति सहसा तं पृष्टवान् । तदात्वे च निदाघसमय आसीत् । रामचन्द्रेणाऽपि तत्क्षणमेव कथितं - Jain Education InternationaFor Private 65ersonal Use Only Page #75 -------------------------------------------------------------------------- ________________ देव ! श्रीगिरिदुर्गमल्ल ! भवतो दिग्जैत्रयात्रोत्सवे धावद्धीरतुरङ्गनिष्ठुरखुरक्षुण्णक्षमामण्डलात् । वातोद्भूतरजोमिलत्सुरसरित्सञ्जातपङ्कस्थली दूर्वाचुम्बनचञ्चुरा रविहयास्तेनाऽतिवृद्धं दिनम् ॥ __ श्रुत्वैतदतीव प्रसन्नेन राज्ञा तस्य कविकटारमल्लः - इति बिरुदं प्रदत्तम् । हेमचन्द्राचार्याणां स्वर्गमनाज्जातः कुमारपालस्य शोकस्तेनैवोपशमित आसीत् । कुमारपालस्य मुख्य आस्थानकविरपि स एवाऽऽसीदिति सम्भाव्यते । ___ तेन रघुविलासः, नलविलासः, यदुविलासः, सत्यहरिश्चन्द्रः, निर्भयभीमव्यायोगः, मल्लिका-मकरन्दप्रकरणं, राघवाभ्युदयं, रोहिणीमृगाङ्कप्रकरणं, वनमालानाटिका, कौमुदी-मित्राणन्दं, यादवाभ्युदयं चेति एकादश नाटकानि विरचितानि; सुधाकलशः इतिनाम्ना च सुभाषितकोशो विरचितोऽस्ति । स्वगुरुभ्रात्रा गुणचन्द्रेण सह तेन नाट्यदर्पणं नामा नाट्यशास्त्रग्रन्थोऽपि विरचितोऽस्ति तथा द्रव्यालङ्कारनामा तर्कशास्त्रग्रन्थोऽपि रचितः । ग्रन्थद्वयमपि स्वचितवृत्त्यलङ्कृतमेव राजते । एतदतिरिच्य तेन सिद्धहेमव्याकरणस्य बृहद्वत्तेासोऽपि विरचितोऽस्ति । तथाऽन्यान्यपि कुमारविहारशतकम्, उदयनविहारप्रशस्तिः, ऋषभद्वात्रिंशिका-प्रभृतीनि काव्यानि च विरचितानि सन्ति । तत्समकालीनानां सर्वेषामपि विदुषां साहित्यतोऽस्य साहित्य-प्रवृत्तिरधिकाऽस्ति, विशाला विविधाऽपि चाऽस्ति । गूर्जरदेशस्य विद्वद्भिः प्रायो द्वाविंशतिर्नाटकानि विरचितानि, किन्तु तेषामेकादश नाटकानि श्रीरामचन्द्रसूरिणा * ग्रन्थाग्रं - ५३०००श्लोकप्रमाणम् । bb Jain Education Internationa Page #76 -------------------------------------------------------------------------- ________________ रचितानि । गूर्जरदेशस्य भारतस्य च संस्कृतसाहित्यक्षेत्रे तस्य प्रदानं वैविध्यपूर्णं श्रेष्ठगुणवत्तायुत्तं चाऽस्ति । तद्विरचितस्य सत्यहरिश्चन्द्रनाटकस्य इटलीदेशीय-भाषायां रूपान्तरमपि सञ्जातम् (ई. सं. १९१३) । एवं सत्यपि तस्य मुख्यप्रदानं तु नाट्यशास्त्रे एवाऽस्ति । यतो नाट्यशास्त्रस्य ग्रन्था एव अत्यल्पाः सन्ति । तेषां च रामचन्द्रसूरेर्नाट्यदर्पणं वैशिष्ट्ययुतमस्ति । विविधविषयकान्युदाहरणानि प्रस्तोतुं तेन चतुश्चत्वारिंशतो नाटकेभ्योऽवतरणानि सन्दृब्धानि । तदुल्लिखितनाटकानां कानिचन त्वद्याऽप्राप्याणि । यथा विशाखदत्तरचितं देवीचन्द्रगुप्तनाटकं न प्राप्यतेऽद्य । किन्तु तस्य बहून्यवतरणानि नाट्यदर्पणे विद्यन्ते । तैश्च मौर्य - कालीनेतिहासस्य बहूनि तथ्यानि प्रकटीभवन्ति । किञ्च नाट्यदर्पणे तेन रसशास्त्रमभिनयकलां चाऽऽश्रित्य कानिचन महत्त्वपूर्णानि तादात्विकरूढिभञ्जकानि च विधानानि कृतानि । अथ च पश्चात्कालीनग्रन्थेषु तस्य प्रसिद्धिः प्रबन्धशतकर्तृतया कृताऽस्ति साहित्यकारैः । स स्वयमपि स्वीयग्रन्थे विशेषणमिदं स्वकृते प्रयुनक्ति, यथा “श्रीमदाचार्यहेमचन्द्रशिष्यस्य प्रबन्धशतकर्तृमहाकवे रामचन्द्रस्य भूयांसः प्रबन्धाः ||" (निर्भयभीमव्यायोगः, प्रस्तावनायाम् ) तथा " इति श्रीमदाचार्यहेमचन्द्रस्य शिष्येण प्रबन्धशतविधाननिष्णातबुद्धिना नाट्यलक्षणनिर्माणपातावगाढसाहित्याम्भोनिधिना विशीर्णकाव्यनिर्माणतन्द्रेण श्रीमता रामचन्द्रेण विरचितं..... द्वितीयं रूपकम् ॥" (कौमुदीमित्राणन्दे) Jain Education InternationaFor Private 67 Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ किन्तु प्रबन्धशतनामा ग्रन्थो न प्राप्यते नाऽपि च शतं प्रबन्धाः प्राप्यन्तेऽद्य । स्वभावेन स स्वातन्त्र्यप्रियो मानी च । स्वकृते स विविधानि विशेषणानि प्रयुङ्क्ते आत्मश्लाघां चाऽपि कुरुते, यथा- कविः काव्ये रामः सरसवचसामेकवसतिः । (नलविलासे) पञ्चप्रबन्धमिषपञ्चमुखानकेन, विद्वन्मनःसदसि नृत्यति यस्य कीर्तिः । विद्यात्रयीचणमचुम्बितकाव्यतन्द्रं कस्तं न वेद सुकृती किल रामचन्द्रम् ॥ (रघुविलासे) ऋते रामान्नाऽन्यः किमुत परकोटौ घटयितुं रसान्नाट्यप्राणान् पटुरिति वितर्को मनसि मे ॥ (नलविलासे) प्रबन्धा इक्षुवत् प्रायो, हीयमानरसाः क्रमात् । कृतिस्तु रामचन्द्रस्य, सर्वा स्वादुः पुरः पुरः ।। (कौमुदीमित्राणन्दे) स्वातन्त्र्यप्रियताऽपि तस्य विशिष्टमप्रतिमं च लक्षणम् । एतदर्थं तेन प्रदर्शिता उद्दामभावना अद्याऽपि प्रस्तुता एव । स्वीयकृतिष्वपि तेन यथासम्भवं स्वातन्त्र्यं मौलिकत्वं च प्रकटितमस्ति । कानिचिदुदाहरणानि पश्यामः स्वतन्त्रो देव ! भूयासं, सारमेयोऽपि वर्मनि । मा स्म भुवं परायत्तस्त्रिलोकस्याऽपि नायकः ॥ - सूक्तयो रामचन्द्रस्य, वसन्तः कलगीतयः ।। स्वातन्त्र्यमिष्टयोगश्च, पञ्चैते हर्षवृष्टयः ॥ (सत्यहरिश्चन्द्रनाटके) - स्वातन्त्र्यं यदि जीवितावधि, मुधा स्वर्भूर्भुवो वैभवम् ॥ (नलविलासे, २-२) Jain Education InternationaFor Private ersonal Use Only Page #78 -------------------------------------------------------------------------- ________________ न स्वतन्त्र व्यथां वेत्ति, परतन्त्रस्य देहिनः ॥ ( नलविलासे ६-७ ) अजातगणनाः समाः परमतः स्वतन्त्रो भव ॥ ( नलविलासे प्रान्ते) प्राप्य स्वातन्त्र्यलक्ष्मीमनुभवतु मुदं शाश्वतीं भीमसेनः ॥ (निर्भयभीमव्यायोगे) एतादृशविलक्षणप्रतिभावतोऽस्य कवेर्मरणं स्वगुरुभ्रातुर्बालचन्द्रस्येर्ष्यया कुमारपालान्वये जातस्या -ऽजयपालनृपस्य द्वेषाद् बभूव । २. मुनिगुणचन्द्रः अनेन विदुषाऽऽचार्य रामचन्द्रसूरिणा सह नाट्यदर्पणं द्रव्यालङ्कारश्चेति ग्रन्थद्वयं सवृत्तिकं विरचितम् । तथा स्वस्याऽन्याभ्यां गुरुभ्रातृभ्यामाचार्यमहेन्द्रसूरि-वर्धमानगणिभ्यां सहाऽऽचार्य-सोमप्रभसूरिविरचितः कुमारपालप्रतिबोधग्रन्थः साद्यन्तः श्रुतः संशोधितश्च । ३. आचार्यमहेन्द्रसूरिः अनेन विदुषा स्वगुरुरचिताऽनेकार्थसङ्ग्रहो परि अनेकार्थकैरवाकरकौमुदी नाम टीका वैक्रमे १२४१तमे संवति लिखिताऽस्ति । ४. वर्धमानगणिः कुमारविहारप्रशस्तेर्व्याख्यां निर्मायाऽनेन विदुषा तस्या एकस्य पद्यस्य षोडशाधिकशतमर्थान् लिखित्वा स्वीयमद्भुतं पाण्डित्यं प्रकटितमस्ति । यद् वदति स्वयमेव सः " श्रीहेमचन्द्रसूरिशिष्येण वर्धमानगणिना कुमारविहारप्रशस्तौ Jain Education Internationa 69 Page #79 -------------------------------------------------------------------------- ________________ काव्येऽमुष्मिन् पूर्वं षडर्थे कृतेऽपि कौतुकात् षोडशोत्तरं व्याख्यानं चक्रे ॥" ५. देवचन्द्रगणिः अनेन विदुषा नाटकद्वयं लिखितमस्ति । तत्र चन्द्रलेखाविजयप्रकरणनाटके कुमारपालस्य शाकम्भरीजयो वर्णितोऽस्ति । द्वितीये च मानमुद्राभञ्जकनाटके सनत्कुमारविलासवत्योश्चित्रणमस्ति । ६. उदयचन्द्रगणि: अस्य विदुषो न कोऽपि ग्रन्थः प्राप्यते, किन्त्वस्य व्याकरणविषयको बोधोऽतीव स्पष्टः सूक्ष्मदर्शी चाऽऽसीत् । तस्य प्रेरणयाऽऽचार्यदेवेन्द्रसूरिणा सिद्धहेमबृहद्वृत्तेः कतिचिद्दुर्गपदव्याख्या नाम टीका, उपमितिभवप्रपञ्चाकथासारोद्धारः इत्याख्यो ग्रन्थश्च विरचितौ । तथा, आचार्यदेवेन्द्रसूरिशिष्येण कनकप्रभेण हैमन्याससारसमुद्धारो विरचितोऽस्ति । ७. यशश्चन्द्रगणि: अस्याऽपि विदुषो न कोऽपि ग्रन्थः प्राप्यते । किन्तु ज्योतिर्विद्याया अङ्गविद्यायाश्चाऽध्येताऽयं मन्त्रवाद्यप्यासीदिति प्रबन्धग्रन्थेभ्यो ज्ञायते । अन्यान्येषु प्रधानकार्येषु हेमचन्द्राचार्याणां सहकारित्वमस्यैवाऽऽसीत् । ८. मुनिबालचन्द्रः महत्त्वाकाङ्क्षी मुनिरयं यद्यपि विद्वानासीत् तथाऽपि गुरुद्रोहं गुरुभ्रातृद्रोहं च कृत्वा सर्वत्र लघुतां च प्राप्य मालवदेशं गतवान् तत्रैव च मरणं प्राप्तवान् । जैनसङ्घऽतीव प्रचलिता स्नातस्या- इत्याद्यपदप्रसिद्धा वर्धमानस्वामिस्तुतिरनेनैव विरचितेति सम्भाव्यते । 70 Jain Education Internationa Page #80 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञानां श्रीहेमचन्दाचार्याणां प्रमुखसाहित्यसृष्टिः स्वीयं कलिकालसर्वज्ञत्वं प्रमाणीकर्तुं हेमचन्द्राचार्या साहित्यसृष्टिविद्वज्जगते उपायनीकृताऽस्ति तस्याः परिचयोऽत्र प्रस्तुतोऽस्ति । तेषां कुशाग्रप्रज्ञया सार्वत्रिकप्रतिभया च प्रायः सर्वेऽपि विषयाः ससाफल्यमवगाहिताः सन्ति । तेषां समकालीना महाविद्वांस आचार्या श्रीसोमप्रभसूरयस्तेषां ग्रन्थसृष्टेर्नामानि लिखन्ति, यथा - व्याकरणं पञ्चाङ्गं, प्रमाणशास्त्रं प्रमाणमीमांसा । छन्दोऽलङ्कृति-चूडामणि च शास्त्रेविभुळधित ॥१॥ एकार्थाऽनेकार्था, देश्या निघण्टुरिति च चत्वारः । विहिताश्च नामकोशाः, शुचिकवितानधुपाध्यायाः ॥२॥ व्युत्तरषष्टिशलाकानरेतिवृत्तं गृहिव्रतविचारे । अध्यात्मयोगशास्त्रं, विदधे जगदुपकृतिविधित्सुः ॥३।। लक्षण-साहित्यगुणं, विदधे च वयाश्रयं महाकाव्यम् । चक्रे विंशतिमुच्चैः, स वीतरागस्तवानां च ॥४॥ इति तद्विहितग्रन्थसङ्ख्यैव नहि विद्यते । नामाऽपि न विदन्त्येषां मादृशा मन्दमेधसः ।।५।। एतेन तेषां विशिष्टाप्रतिभायाः सूक्ष्मदर्शित्वस्य, सर्वदिग्गामिपाण्डित्यस्य बहुश्रुतत्वस्य च परिचयः प्राप्यते । यद्यपि, केचन विद्वांसो मन्यन्ते – यो हि मौलिकमपूर्वं Jain Education InternationaFor Private 1 Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ च विरचयति स एव प्रतिभासम्पन्न इति कथ्येत साहित्यसर्जकत्वं च तस्यैव परिगणनार्हम् । हेमचन्द्राचार्यैर्हि पूर्वसाहित्यस्रष्टृणां ग्रन्थानुपयुज्यैव प्रायशः स्वग्रन्था विनिर्मिता । अतस्तेषामपूर्वत्वं मौलिकत्वं च नास्ति । तथाऽपि, मौलिकतामपूर्वतां चाऽधिकृत्य हेमचन्द्राचार्याणां मतं किञ्चिदपूर्वमेव । ते कथयन्ति यत् - 'कोऽपि साहित्यस्स्रष्टा सर्वथा नूतनं वस्तु विरचयितुं न कदाऽपि समर्थः, पूर्वसूरीणां साहित्यं तेनाऽवलम्बनीयमेव । केवलं तस्य विकासो विकासस्य च शैली सर्वेषां भिन्ना नूतना वा भवति' । यदुक्तं तैरेव स्वविरचित - प्रमाणमीमांसाग्रन्थस्य टीकाया आरम्भे - " अनादय एवैता विद्याः सङ्क्षेप - विस्तार- विवक्षया नवनवीभवन्ति, तत्तत्कर्तृकाश्चोच्यन्ते ।" - एतन्मतेन यदि हेमचन्द्राचार्यविरचितग्रन्थानामेव परीक्षणं क्रियेत तदा तेषां मौलिकत्वमपूर्वत्वं चाऽक्षुण्णमेव सर्वथा । ततश्चाऽऽचार्याणां प्रतिभा साहित्यसर्जकत्वं चाऽप्यक्षुण्णमेव । अस्तु, प्रकृतं प्रस्तुमः । अत्रैकैकशस्तेषां ग्रन्थानां परिचयः प्रदत्तोऽस्ति । १. सिद्धहेमशब्दानुशासनम् (सिद्धहेमव्याकरणम्) - हेमचन्द्राचार्येभ्यः पूर्वं वर्तमानेषु व्याकरणेषु विस्तारः, काठिन्यं, क्रमभङ्ग आनुवृत्तिबाहुल्यं चेत्यादयो दोषाः सन्ति । तन्निवारणार्थं ह्याचार्यैः स्वपूर्ववर्तिव्याकरणानां सम्यग्ध्ययनं कृतम् । ततश्चैकं सर्वाङ्गपरिपूर्णमुपयोगि निर्दोषं च व्याकरणं विरचितम् । तदभिधानं च नृपस्य सिद्धराजजयसिंहस्य स्वस्य च नाम्नोऽर्धं भागं गृहीत्वा सिद्धहेमशब्दानुशासनमिति कृतम् । अत्र व्याकरणे तैः पूर्ववर्तिव्याकरणानां बहूनि सूत्राण्युदाहरणानि च यथातथमेवाऽत्र गृहीतानि सन्ति, किन्त्वेतावताऽपि तेषां निबन्धनक्रमवैशिष्ट्यं 72 Jain Education Internationa Page #82 -------------------------------------------------------------------------- ________________ सर्वथा मौलिकमपूर्वं च । तथा बहुत्र तैः सूत्राणां भावमवगम्य ततो नूतनान्येव सूत्राणि विरचितानि । किन्तु सर्वाण्यपि सूत्राणि सुव्यवस्थितानि सुसम्बद्धानि च । तथा सूत्राणां प्रणयनमप्यावश्यकतानुरूपं कृतमस्ति । एकमपि सूत्रं तादृशं नास्ति यस्य कार्यमन्येन सूत्रेण क्रियेत । एवं च तेषां मौलिकता प्रतिभासम्पन्नता च सर्वथाऽक्षुण्णा वर्तते । I किञ्च, पाणिनीयाऽष्टाध्यायी ह्यतीव विस्तृता दुर्बोधा च । तथा सा प्रक्रियानुसारिण्यपि नास्ति । इतरपक्षे कातन्त्रं व्याकरणं यद्यपि प्रक्रियानुसारि तथाऽपि परिपूर्णं नास्ति । अतो हेमचन्द्राचार्यैः कातन्त्रस्य प्रक्रियानुसारिणी परम्परा पुनरुज्जीविता, तथा पाणिनीयव्याकरणापेक्षया लघु स्पष्टं च, कातन्त्रापेक्षया च सर्वाङ्गपरिपूर्णं व्याकरणं विरचय्य व्याकरणक्षेत्रे नूतनस्य हेमसम्प्रदायस्य निर्माणं कृतम् । व्याकरणस्य साधारणबोधवानपि विद्यार्थी तेषां व्याकरणं सरलतया हृदयङ्गमं कर्तुं शक्नोति, संस्कृतभाषायाश्चसमस्तशब्दानामनुशासने पारङ्गतो भवति । अनेन परवर्तिनो वैयाकरणास्तथा प्रभाविता जाता यथा पाणिनीयवैयाकरणा अपि अष्टाध्याय्या अध्ययनमध्यापनं च प्रक्रियानुसारेणैव कर्तुमारब्धाः । षोडशशताब्द्या अनन्तरं (भट्टोजीदीक्षितेन सिद्धान्तकौमुदीप्रणयनानन्तरं ) तु सर्वत्राऽपि प्रक्रियानुसारेणैव पाणिनीयव्याकरणस्य पठन-पाठनं भवति । सूत्रपाठ - क्रमानुसार्यध्ययनादि तु प्रायश उच्छिन्नमेव । आचार्यैर्हि व्याकरणेन सहैव तस्य लघुवृत्तिर्बृहद्वृत्तिर्बृहन्यासश्च विरचिता: । तथा उणादिसूत्राणि तद्विवरणं, धातुपाठो, धातुपारायणं तद्विवरणं, व्याकरणगतोदाहरणानां सिद्ध्यर्थं च द्वयाश्रयं महाकाव्यं चेति सर्वाण्यपि तदङ्गानि स्वयमेव विरचय्य पाणिनेः पतञ्जलेर्भट्टोजीदीक्षितस्य भट्टेश्च 73 Jain Education Internationa Page #83 -------------------------------------------------------------------------- ________________ कार्याणि एकलेनैव कृतानि । अथ च पाणिनिमनुसृत्य हेमचन्द्राचार्यैरपि स्वीयव्याकरणमष्टस्वध्यायेषु विभक्तमस्ति । तत्र सप्तस्वध्यायेषु संस्कृतभाषाव्याकरणम्, अष्टमे चाऽध्याये प्राकृतभाषाव्याकरणं निबद्धमस्ति । संस्कृतव्याकरणमिव प्राकृतव्याकरणमपि सर्वाङ्गपरिपूर्णमस्ति । एतच्चाऽद्यावधि अपूर्वमेव । यतस्तेऽन्यवैयाकरणवत् पाणिनीयव्याकरणाल्लोकोपयोगिनोंऽशान् गृहीत्वैव सन्तुष्टा न जाताः किन्तु स्वकालं यावत् प्रचलिताया भाषाया अपि व्याकरणं निबद्धवन्तः । तेषां पूर्ववर्तिवैयाकरणैरपि वररुचि-चण्डप्रमुखैर्यद्यपि शौरसेनी-मागधी-पैशाचीभाषाणां स्वरूपं स्वस्वव्याकरणेषु किञ्चिन्निरूपितमस्ति, तथाऽपि अपभ्रंशभाषाया व्याकरणं तु हेमचन्द्राचार्याणामेवाऽपूर्व प्रदानम् । अत्र च तैरुदाहरणरूपेण सर्वत्र पूर्णा गाथाः, पूर्णानि वृत्तानि, पूर्णानि चाऽवतरणानि प्रदत्तानि सन्ति, यैर्हि तेषां सङ्ग्राहकप्रतिभा लोकभाषानुरागश्च प्रतीयते । एतच्च विलोक्याऽपभ्रंशसाहित्यस्य प्राच्यसमृद्धि प्रति विद्वज्जगत् जागृतं जातं तन्मूलग्रन्थानां संशोधने च लग्नम् । एवं चाऽऽचार्यैरपभ्रंश-भाषाव्याकरणं विरचय्याऽपूर्वमैतिहासिकं च कार्य कृतमस्ति । अद्यत्वे भाष्यमाणानां गूर्जर-मारुप्रमुखभाषाणां मूलमेषैवाऽपभ्रंशभाषाऽस्ति, तस्याश्च व्याकरणस्य तदुदाहरणानां चाऽभ्यासेनैतासां भाषाणां क्रमिको विकासः कथं जातस्तासु च के रूढप्रयोगाः के च नूतना इत्यादीनामध्ययनं बोधश्च सरलतया भवति । विद्वज्जना वदन्ति यत् - प्राचीनभाषाणामध्ययनार्थं सिद्धहेमशब्दानुशासनं विना न किमप्युपयुक्ततरम् । अथ च प्राकृतव्याकरणस्याऽपि प्रयोगानां सिद्धयर्थं तैः प्राकृतव्याश्रयमहाकाव्यं विरचितमस्ति । एवं च संस्कृत 74 Jain Education Internationa Page #84 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणस्य साङ्गोपाङ्गं विरचनेन तैरुभे अपि भाषे पूर्णतयाऽनुशासिते - इत्यतस्तद्व्याकरणस्य सिद्धहेमशब्दानुशासनमित्यभिधानं सर्वथा सार्थकमस्ति । २. नामानुशासनम् - १. अभिधानचिन्तामणिनाममाला - शब्दानां महार्णवरूपेऽस्मिन् शब्दकोशे प्रायो द्विसहस्रश्लोकेषु विभागश एकस्मिन्नर्थे प्रयुक्ता नैके शब्दाः सङ्ग्रहीताः सन्ति । अस्य च कोशस्य विवरणं ह्याचार्यैः स्वयमेव विरचितमस्ति । अनेकार्थसङ्ग्रहः - अस्मिन् शब्दकोशे एकस्य शब्दस्य नैकेऽर्थाः सङ्ग्रहीताः सन्ति । निघण्टुशेषः आयुर्वेदसम्बन्धिनां वैद्यकीयानां वा शब्दानां सङ्ग्रहोऽयं तेषां सार्वत्रिकी प्रतिभा प्रमाणीकरोति । ४. देशीनाममाला - देशीभाषासु रूढानां, व्याकरणेन साधयितुमशक्यानां, प्राकृतभाषाणामभ्यासे चाऽत्यन्तमुपयोगिनां शब्दानामपूर्वः सङ्ग्रहोऽयं तेषां सूक्ष्मदर्शित्वं विविधभाषाज्ञानं लोक-व्यवहारज्ञानं च प्रमाणीकरोति । अत्र सगृहीतेषु शब्देषु बहवो द्राविड-अरब्बीय-फारसीयभाषासम्बन्धिनः शब्दा अपि सन्ति । ३. लिङ्गानुशासनम् लिङ्गानुशासनं विना शब्दानुशासनमपूर्णमेव । तामपूर्णतां दूरीकर्तुं तैविविधलिङ्गानां शब्दानां सङ्ग्रहोऽत्र कृतोऽस्ति । अत्र यावन्तः शब्दाः सन्ति तावन्तः कस्मिन्नपि लिङ्गानुशासने न सन्ति । 75 Jain Education Internationa Page #85 -------------------------------------------------------------------------- ________________ गरेर ४. छन्दोऽनुशासनम् स्वसमयात् पूर्ववर्तिनां समेषामपि संस्कृत-प्राकृताऽपभ्रंशकाव्येषूपयुक्तानां छन्दसां समावेशस्तैरत्र कृतोऽस्ति । छन्दसां महाकोशेऽस्मिस्तैः प्रत्येकं छन्दसां शास्त्रीयं लक्षणं संस्कृतभाषायां तदुदाहरणं च यथास्वं संस्कृतादिभाषायां प्रदत्तमस्ति । अत्र च सर्वाण्यपि उदाहरणानि तैः स्वयमेव विरचितानि, न पुनः कुतश्चिदवतारितानि । अस्मिन् ग्रन्थैस्तैः सादरं भरत-पिङ्गलस्वयम्भूप्रमुखाः स्मरणविषयमानीताः सन्ति, तथा माण्डव्यः, भरतः, काश्यपः, सैतवः, जयदेवः - इत्यादयः प्राच्याश्छन्दःशास्त्रप्रणेतार उल्लिखिताः सन्ति । ५. काव्यानुशासनम् राजशेखरस्य काव्यमीमांसा, मम्मटस्य काव्यप्रकाशः, आनन्दवर्धनस्य ध्वन्यालोकः अभिनवगुप्तस्य च लोचनः - इत्येतेभ्यो ग्रन्थेभ्यो विविधां सामग्री गृहीत्वा विरचितोऽयं ग्रन्थो विदुषां मते यद्यपि सङ्ग्रहग्रन्थस्तथाऽपि अत्राऽप्याचार्याणां मौलिकता प्रतिभा चाऽक्षुण्णैव । अस्य ग्रन्थस्य विवरणं तैरलङ्कारचूडामणिविवेकश्चेति टीकाद्वयेन स्वयमेव कृतमस्ति। ६. प्रमाणमीमांसा हेमचन्द्राचार्याणां विशुद्धदार्शनिकप्रतिभा प्रोज्ज्वलतया प्रकटयत्ययं ग्रन्थः । भारतीयदर्शनविद्याया ब्राह्मण-जैन-बौद्धेतितिसृणामपि शाखानां तात्त्विकपरिभाषासु लाक्षणिकव्याख्यासु यथाक्रमं यानि विकास-वृद्धि-परिवर्तनानि जातानि तानि ग्रन्थस्याऽस्याऽध्ययनेनाऽवबुध्यन्ते । आचार्यैः स्वपूर्ववर्तिनामागमिकतार्किकाणां श्वेताम्बराणां दिगम्बराणां सिद्धसेनदिवाकरसूरिजिनभद्रगणि-समन्तभद्रा-ऽकलङ्काद्य-वादिदेवसूरिपर्यन्तानां सर्वेषामपि जैनाचार्याणां मन्तव्यानि सर्वग्राहिण्या बुद्धिशक्त्या सङ्कलय्य स्वीयया विशदयाऽपुनरुक्तया च विशिष्टशैल्या सूत्रेषु 76 Jain Education Internationa Page #86 -------------------------------------------------------------------------- ________________ स्वोपज्ञविशदतमवृत्तौ च निरूपितानि । तेषां भाषाऽत्यन्तं परिमिता शब्दाडम्बरशून्या सहजा सरला चाऽस्ति । निरूपणमपि नाऽतिसङ्क्षिप्त-विस्तृतमस्ति । अत्र ग्रन्थे तैः प्रमाणानि नयान् सोपायांश्च बन्ध-मोक्षादीन् परमपुरुषार्थोपयोगिनो विषयांश्चर्चयित्वाऽनेकान्तवादस्य नयवादस्य च शास्त्रीय निरूपणं कृतमस्ति । एतच्च तेषां भारतीयप्रमाणशास्त्रक्षेत्रे विशिष्टं प्रदानमस्ति । तुलनात्मकदृष्ट्या दर्शनानामध्ययनं कुर्वतां जिज्ञासूनां कृते ग्रन्थस्याऽस्याऽध्ययनमतीव महत्त्वमावहति । यतोऽत्राऽऽचार्यैर्दिङ्नाग-धर्मकीर्तिप्रमुखबौद्धविदुषां, कणाद-भासर्वज्ञव्योमशिव-श्रीधराऽक्षपाद-वात्स्यायनोद्योतकर-जयन्तवाचस्पतिमिश्रशबर-प्रभाकर-कुमारिल-मुख्यवैदिकविदुषां च ग्रन्थानां चार्वाकदर्शनस्य च विदुषो जयराशिभट्टस्य तत्त्वोपप्लवसिंहग्रन्थस्य पदार्था विशदतया चर्चिताः सन्ति । अयं हि ग्रन्थो यद्यपि सम्पूर्णो न प्राप्यते तथाऽपि ऐतिहासिक- दृष्ट्या तस्य जैनतर्कसाहित्ये भारतीयदर्शनसाहित्ये च विशिष्टं स्थानमस्ति । ७. त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् - महाभारतमुद्दिश्य विद्वद्भिर्घोषितं यद् - "यदिहाऽस्ति तदन्यत्र, यन्नेहाऽस्ति न कुत्रचित् ॥" इदं च वचनं त्रिषष्टिशलाकापुरुषचरितमहाकाव्यस्य विषयेऽपि समानमेव । यतस्त्रिषष्टिशलाका-पुरुषचरितं नाम जैनसिद्धान्त-कथेतिहास-पौराणिककथा-तत्त्वज्ञानादीनां सर्वसङ्ग्रहः । षट्त्रिंशत्सहस्रश्लोकप्रमाणेऽस्मिन् ग्रन्थे हेमचन्द्राचार्याणां सुधावर्षिण्या वाण्या गौरवं माधुर्यं च पदे पदेऽनुभूयते । अत्र त्रिषष्टेरुत्तमपुरुषाणां चरितानि निबद्धानि सन्ति । ते चोत्तमपुरुषाः २४ तीर्थकराः, १२ चक्रवर्तिनः, ९ वासुदेवाः, ९ प्रतिवासुदेवाः ९ बलदेवाश्च सन्ति। सहैव बहून्यवान्तरचरितान्यपि अत्राऽऽचार्यैर्यथायथं निवेशितानि 77 Jain Education InternationaFor Private '&'Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ सन्ति । आचार्याणां सर्वसङ्ग्राहिण्या प्रतिभायाः प्रभावेण ग्रन्थेऽस्मिन् तादात्विकसामाजिक-धार्मिक-वैचारिकरूढयो बहुत्र प्रतिबिम्बिता विलोक्यन्ते । काव्यशास्त्रीयदृष्ट्याऽपि ग्रन्थोऽयं प्रासादिकः कल्पना-माधुर्योल्लसितश्चाऽस्ति । साधन्तमस्य पठनेन संस्कृत-भाषायाः प्रायः सर्वेऽपि शब्दा अवबुध्येरन् - इति व्यवस्थाऽऽचार्यैः सहजतया कृताऽस्ति । किं बहुना ? हेमचन्द्राचार्याणां कलिकालसर्वज्ञत्वं साधयितुमयमेक एव ग्रन्थोऽलम् । ८. योगशास्त्रम् महाराजकुमारपालस्य योगाभ्यासकृते विनिर्मितोऽयं ग्रन्थो द्वादशप्रकाशात्मकोऽस्ति । अस्मिन् पातञ्जलयोगसूत्रशैल्या अष्टानां योगाङ्गानां जैनदृष्ट्या विस्तृता सरला विशदा च चर्चा कृताऽस्ति। विषयवर्णने चाऽऽचार्याणां मौलिकता प्रतिपदं प्रोल्लसति । तत्र प्रथमे प्रकाशे यमाः, द्वितीय-तृतीय-चतुर्थेषु प्रकाशेषु नियमाः, चतुर्थे एव आसनानि, पञ्चमे प्राणायामः, षष्ठे प्रत्याहारः, सप्तमे धारणा, अष्टम-नवम-दशमेषु ध्यानम्, एकादशे समाधिः, द्वादशे च स्वानुभवसिद्धं योगतत्त्वं वर्णितानि सन्ति । सहस्राधिकमूलश्लोकमयस्याऽस्य ग्रन्थस्य वृत्तिरपि तैरेव विरचिताऽस्ति यत्र च जैनागम-सिद्धान्त-योगग्रन्थानां यथा तथैव महाभारतमनुस्मृति-पुराणोपनिषदादीनामप्यवतरणानि प्रदत्तानि । ९. व्याश्रयं महाकाव्यम् शास्त्रीयकाव्यानां परम्परायां व्याश्रयमहाकाव्यस्य स्थानमद्वितीयमस्ति । एतन्महाकाव्यं व्याकरणस्येतिहासस्य काव्यत्वस्येति त्रयाणामपि वाहकमस्ति । अस्य द्वौ विभागौ स्तः । प्रथमे विभागे विंशतिः सर्गाः सन्ति । तेषु सिद्धहेमशब्दानुशासनस्य संस्कृतविभागस्थायाः सप्ताध्याय्याः प्रयोगानामुदाहरणानां च सिद्धया सह चौलुक्यवंशजातानां मूलराजाद्यानां सिद्धराज-जयसिंहपर्यन्तानां नृपाणां वर्णनं कृतमस्ति । द्वितीये च विभागे अष्टसु सर्गेषु 78 Jain Education Internationa Page #88 -------------------------------------------------------------------------- ________________ * प्राकृतव्याकरणापरनाम्नः सिद्धहेमशब्दानुशासनस्याऽष्टमाध्यायस्य प्रयोगानामुदाहरणानां च सिद्धया सह कुमारपालराजस्य चरितं निबद्धमस्ति । एवं चैतन्महाकाव्यं संस्कृतभाषाया प्राकृतस्य च षण्णामपि महाराष्ट्री-शौरसेनी-मागधी-पैशाची-चूलिकापैशाचीअपभ्रंशभाषाणां बोधार्थमत्यन्तमुपयोगि । सहैव महाकाव्यस्याऽपि सर्वेषामपि लक्षणानामस्मिन् विद्यमानत्वात् काव्यत्वदृष्ट्याऽपि सर्वथा साफल्यं वहति महाकाव्यमिदम् । तथैव चौलुक्यवंशीय-- नृपाणामितिहासज्ञानेऽपि सर्वथा प्रस्तुतमिदं महाकाव्यम् । १०. वीतरागस्तवः वीतरागभक्तिमयमिदं काव्यं काव्यत्वदृष्ट्याऽपि श्रेष्ठमस्ति । भक्तितत्त्वेन सहाऽत्र सर्वत्र जैनदर्शनमपि व्याप्तमस्ति । विशतिप्रकाशमयेऽस्मिन् भक्तिस्तवे शान्तरसो निरालम्बं प्रवहति, आनन्दः सर्वत्रोज्जागरोऽस्ति, स्वीयाराध्यतत्त्वे च लयप्राप्तेः प्रवृत्तिरपि सहजाऽस्ति । महाराज-कुमारपालस्यैवकृते विनिर्मितमिदं भक्तिकाव्यं हेमचन्द्राचार्याणां श्रेष्ठसर्जकत्वं द्योतयति । ११. अन्ययोगव्यवच्छेदद्वात्रिंशिका केवलं द्वात्रिंशद्वृत्तमयेऽस्मिन् वर्धमानजिनस्तुतिरूपे काव्यग्रन्थे हेमचन्द्राचार्यैः सर्वेषामपि दर्शनानां सिद्धान्तान् विषयीकृत्य विशदा चर्चा कृताऽस्ति । चिन्तनस्य भक्तेश्चाऽत्यन्तं सुन्दरः समन्वयोऽत्र काव्येऽस्ति यदेष ग्रन्थो दार्शनिकदृष्ट्या काव्यकलादृष्ट्या चेत्युभयथाऽप्यत्यन्तमुत्कृष्टोऽस्ति । अस्मिन् ग्रन्थे आचार्यश्रीमल्लिषेणसूरिभिरत्यन्तं प्रासादिक-रोचक-शैल्या सरसया च भाषया स्याद्वादमञ्जरीनाम वृत्तिविरचिताऽस्ति । १२. अयोगव्यवच्छेदद्वात्रिंशिका वर्धमानजिनस्तुतिरूप एवाऽयमपि काव्यग्रन्थः केवलं * श्रीहेमचन्द्रप्रभवाद् वीतरागस्तवादितः । कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ।। (वीतरागस्तवस्याऽन्तिमः श्लोक:) 79 Jain Education Internationa Page #89 -------------------------------------------------------------------------- ________________ द्वात्रिंशद्वत्तमय एवाऽस्ति । अत्र च जैनदर्शनस्य तत्सिद्धान्तानां च महत्त्वं प्रस्थापितमस्ति । अयमपि ग्रन्थो दार्शनिकदृष्ट्या काव्यत्वदृष्ट्या चोत्कृष्ट एवाऽस्ति । १३. महादेवस्तोत्रम् हेमचन्द्राचार्याणामुदात्तसमन्वय-- भावनाया उत्कृष्टं फलमस्त्येतन्महादेवस्तोत्रम् । चतुश्चत्वारिंशद्-वृत्तमयेऽस्मिन् स्तोत्रेः तैर्विविधान् दृष्टिकोणानुपयुज्य महादेवस्य स्तुतिर्विहिताऽस्ति । अथाऽऽचार्याणां मुख्यसाहित्यसृष्टेः परिचयोऽत्र प्रदत्तोऽस्ति । अन्येऽपि तेषां वेदाङ्कशादयो ग्रन्थाः सन्ति, किन्तु विस्तरभयादत्र नाऽत्र परिचायिताः । विद्वांसो हि महाभारतकारान् व्यासमहर्षीन् तेषां विशालग्रन्थरचनदृष्ट्या सर्वश्रेष्ठग्रन्थकारतया मन्यन्ते, तेषां च सर्वग्राहित्वं दर्शयितुं 'व्यासोच्छिष्टं जगत् सर्वम्' इति समुद्घोषयन्ति। एवमेवाऽत्राऽऽचार्याणां विशालकायं विपुलग्रन्थसमूहं दृष्ट्वा यदि "हेमोच्छिष्टं तु साहित्यम्" इति कथयेम तदा नाऽत्युक्तिः । तेषां साहित्यस्य वास्तविकं मूल्यं विविधता सर्वदेशीयता च स्तः । तैर्हि न काऽपि विद्याशाखोपेक्षिता प्रत्युत विशिष्टतया सेवितैव । तेषां प्रतिभा सार्वत्रिकी, अध्ययनं परिपूर्णं, विषयसंशोधनं च सर्वावयवि वर्तते । तेषां सङ्ग्राहकताऽप्यनन्यसाधारणाऽनुपमेया चाऽस्ति । तेषां साहित्ये तत्तद्विषयसम्बन्धिनां तत्कालज्ञातानां च प्रायः सर्वेषामपि ग्रन्थानामुद्धरणानि सन्ति । अस्मिन् क्षेत्रे तेषां प्रतिस्पर्धी न कोऽप्यस्ति । अथैवं सत्यपि तेषां मौलिकताऽक्षुण्णैव वर्तत इति तु महाश्चर्यजनकम् । अस्तु ।। सदा हृदि वहेम श्रीहेमसूरेः सरस्वतीम् ।। सुवत्या शब्दरत्नानि ताम्रपर्णी जिता यया ।। (कीर्तिकौमुद्यां महाकविः सोमेश्वरभट्टः) 80 Jain Education Internationa Page #90 -------------------------------------------------------------------------- ________________ श्रीहेमचन्दाचार्याणां काव्यसृष्टिः अत्र श्रीहेमचन्द्राचार्यविरचितेभ्यो ग्रन्थेभ्यः कानिचन काव्यानि तेषां सुधावर्षिण्या वाण्याः प्रासादिकत्वं, माधुर्यं, गौरवं, सामग्रयेण च प्रतिभामास्वादयितुं प्रस्तुतानि । मात्रयाऽप्यधिकं किञ्चिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ ! धारानाथमपाकृथाः ॥१॥ क्षुण्णाः क्षोणिभृतामनेककटका भग्नाऽथ धारा ततः कुण्ठः सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः ! । आरूढप्रबलप्रतापदहनः सम्प्राप्तधारश्चिरात् पीत्वा मालवयोषिदश्रुसलिलं हन्ताऽयमधिष्यते ।।२।। 81 Jain Education Internationa Page #91 -------------------------------------------------------------------------- ________________ (सिद्धहेमशब्दानुशासनप्रशस्तौ) अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् । सर्वभाषापरिणतां जैनीं वाचमुपास्महे || (काव्यानुशासनमङ्गलश्लोकः) न धर्महेतुर्विहिताऽपि हिंसा, नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघातान्नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् ॥१॥ प्रतिक्षणोत्पाद - विनाशयोगि- स्थिरैकमध्यक्षमपीक्षमाणः । जिन ! त्वदाज्ञामवमन्यते यः स वातकी नाथ ! पिशाचकी > वा ॥२॥ (अन्ययोगव्यवच्छेदद्वात्रिंशिकायाम्) (भगवद्भक्तिः- वीतरागस्तवे) अनाहूतसहायस्त्वं त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबान्धवः ॥१॥ अनक्तस्निग्धमनसममृजोज्ज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥२॥ अभवाय महेशायाऽगदाय नरकच्छिदे । अराजसाय ब्रह्मणे कस्मैचिद् भवते नमः ||३|| असङ्गस्य जनेशस्य निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्त्रातुरनङ्कस्तेऽस्मि किङ्करः ॥४॥ अगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्ये चिन्तारले च त्वय्यात्माऽयं मयाऽर्पितः ॥५॥ लावण्यपुण्यवपुषि त्वयि नेत्रामृताञ्जने । माध्यस्थ्यमपि दौःस्थ्याय किं पुनर्देषविप्लवः ? || ६ || 82 Jain Education Internationa Page #92 -------------------------------------------------------------------------- ________________ युगान्तरेषु भ्रान्तोऽस्मि त्वदर्शनविनाकृतः । नमोऽस्तु कलये यत्र त्वदर्शनमजायत ॥७॥ शमोऽद्भुतोऽद्भुतं रूपं,सर्वात्मसु कृपाऽद्भुता । सर्वाद्भुतनिधीशाय, तुभ्यं भगवते नमः ॥८॥ सर्वे सर्वात्मनाऽन्येषु दोषास्त्वयि पुनर्गुणाः । स्तुतिस्तवेयं चेन्मिथ्या, तत्प्रमाणं सभासदः ॥९॥ औदासीन्येऽपि सततं, विश्वविश्वोपकारिणे । नमो वैराग्यनिघ्नाय, तायिने परमात्मने ॥१०॥ हिंसका अप्युपकृता, आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते, के वा पर्यनुयुञ्जताम् ? ॥११॥ जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्राम-रामणीयकलम्पटः ॥१२।। भ्रान्तस्तीर्थानि दृष्टस्त्वं, मयैकस्तेषु तारकः । तत् तवाऽङ्घौ विलग्नोऽस्मि, नाथ ! तारय तारय ।।१३।। यावन्नाऽऽप्नोमि पदवी, परां त्वदनुभावजाम् । तावन्मयि शरण्यत्वं, मा मुञ्च शरणं श्रिते ॥१४॥ तव चेतसि वर्तेऽहमिति वार्ताऽपि दुर्लभा । मच्चित्ते वर्तसे चेत् त्वमलमन्येन केनचित् ॥१५|| अप्रसन्नात् कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः ? ॥१६॥ मदृशौ त्वन्मुखासक्ते, हर्षबाष्पजलोमिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं, क्षणात् क्षालयतां मलम् ।।१७।। त्वद्वक्त्रकान्तिज्योत्स्नासु, निपीतासु सुधास्विव । मदीयैर्लोचनाम्भोजैः, प्राप्यतां निर्निमेषता ॥१८॥ 83 Jain Education Internationa Page #93 -------------------------------------------------------------------------- ________________ कुण्ठाऽपि यदि सोत्कण्ठा, त्वद्गुणग्रहणं प्रति । ममैषा भारती तर्हि, स्वस्त्येतस्यै किमन्यथा ? ॥१९।। तव प्रेष्योऽस्मि दासोऽस्मि, सेवकोऽस्म्यस्मि किङ्करः । ओमिति प्रतिपद्यस्व, नाथ ! नाऽतः परं ब्रुवे ॥२०॥ (इत्यादयः) (भावना) वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदाऽऽघ्रास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः ? ॥१॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा ? ॥२॥ (योगशास्त्रे प्रकाशः ३) (भगवदाश्रयः) न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु त्वामेव वीर ! प्रभुमाश्रिताः स्मः ॥ (अयोगव्यवच्छेदद्वात्रिंशिकायाम्) (उपमोत्प्रेक्षादयोऽलङ्काराः) द्वयाश्रयमहाकाव्ये न जानू अरुजल्लङ्कां भ्रमतो यस्य मारुतेः । अहो आऽन्तं जिगमिषो रुजेत् तस्याऽपि जान्विह* ॥१/३२॥ (* अणहिल्लपुरपत्तने) जङ्गन्म इत्युक्तिपरैः सपर्णध्वद्यष्टिभी रश्मिधृतानडुद्भिः । ग्राम्यैरविद्वद्भिरुदीक्ष्यतेऽसौ *धूखास्रदिन्दुर्दधिपिण्डबुद्ध्या ।। २/४१) 84 Jain Education Internationa Page #94 -------------------------------------------------------------------------- ________________ (* द्यौरेव उखा-स्थाली, ततः स्रंसतेऽधः पततीति ङ्खास्त्रत्) - इत्यादयः ॥ त्रिषष्टिशलाकापुरुषचरितमहाकाव्ये अफस्तस्य महार्थस्य पर्यपूर्यन्त सेवकाः । महासरोवरस्येव स्यन्दैरभ्यर्णभूमयः ।।१।१।४३॥ अत्राऽन्तरे च केनाऽपि सार्थवाहस्य ढौकितम् । पक्वचूताञ्चितं स्थालं भ्रष्टसन्ध्याभ्रसन्निभम् ॥१।१।५८।। महाकाया महास्कन्धा महिषास्तोयवाहिनः । महीं प्राप्ता इवाऽम्भोदा जनानां चिच्छिदुस्तृषम् ।।१।१७०॥ अध्वन्यजन आजानुसंलग्ननवकर्दमः । आमुक्तमोचक इव प्रचचाल शनैः शनैः ॥१।१।९६।। वृन्दारकाणां हस्तेषु हस्तेभ्यः सञ्चरिष्णवः । बभ्राजिरे ते कलशाः श्रीमतां बालका इव ॥१।१।५३१॥ सरलाङ्गलिपत्राभ्यां सा पदाभ्यां पदे पदे । विकस्वराणि पद्मानि रोपयन्तीव भुव्यपि ॥१।२।७५॥ - इत्यादयः ॥ श्रीहेमचन्द्राचार्या यथाऽसाधारणपाण्डित्यालङ्कृताः शास्त्र पारगामिण आसन् तथैव सामान्यजनताव्यवहारै-र्लोकसाहित्येनाऽपि च पूर्णतया परिचिता आसन् । त्रिषष्टिशलाकापुरुषचरितमहाकाव्ये तैरेषा क्षमता पूर्णतयोपयुक्ताऽस्ति । एतस्याः श्रेष्ठमुदाहरणं, विवाहप्रसङ्गे वरं वधूमनुवरं वोद्दिश्य स्त्रीभिर्यानि कौतुकधवलगीतानि गीयन्ते तान्यपि तैरत्र महाकाव्ये यथाप्रसङ्गं निबद्धानि सन्ति । तेषामन्यतमदत्र प्रस्तुतमस्ति - Jain Education InternationaFor Private Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ वधूट्योः पारिपाश्विक्यश्चतुरा नर्मकर्मणि । एवं कौतुकधवलान् गातुमारेभिरे स्त्रियः ।। (१।२।८५४ त:-) ज्वरीवाऽब्धि शोषयितुं मोदकान् परिखादितुम् । श्रद्धालुरनुवरको मनसा केन नन्वसौ ? ॥१॥ मण्डकेभ्योऽखण्डदृष्टिः कान्दुकस्येव कुक्कुरः । स्पृहयालुरनुवरो मनसा केन नन्वसौ ? ॥२॥ आजन्मादृष्टपूर्वी किं वटकान् रोरबालवत् । श्रद्धत्तेऽत्तुमनुवरो मनसा केन नन्वसौ ? ॥३॥ तोयानां चातक इव धनानामिव याचकः । पूगानां श्राद्धोऽनुवरो मनसा केन नन्वसौ ? ॥४|| ताम्बूलवल्लीपत्राणां तृणानामिव तर्णकः । श्रद्धालुरद्याऽनुवरो मनसा केन नन्वसौ ? ॥५॥ हैयङ्गवीनपिण्डस्य बिडाल इव लम्पटः । श्राद्धश्चूर्णस्याऽनुवरो मनसा केन नन्वसौ ?॥६॥ विलेपनस्य केदारकर्दमस्येव कासरः । श्रद्धां दधात्यनुवरो मनसा केन नन्वसौ ? ॥७॥ निर्माल्यानामिवोन्मत्तो माल्यानां लोललोचनः । श्रद्धानुबन्ध्यनुवरो मनसा केन नन्वसौ ? ॥८॥ हेमचन्द्राचार्यैः स्वरचितकाव्यानुशासनादिग्रन्थसमूहस्य टीकासु यानि काव्यान्युदाहरणतयोद्धर-णतया वा संदृब्धानि तेषामवलोकनेन ज्ञायते यत् ते स्वकालात् पूर्वं प्रवृत्तैः स्वसमकाले च प्रवर्तमानैः सर्वैरपि विद्याप्रवाहै: नितरां परिचिताः आसन् । तत: कानिचनाऽत्र प्रस्तुतानि - 86 Jain Education Internationa Page #96 -------------------------------------------------------------------------- ________________ द्वौ वज्रवर्णी जगतीपतीनां सद्भिः प्रदिष्टौ ननु सार्वजन्यौ । यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्रारससन्निकाशः ॥ ___(काव्यानुशासने, अ० १) हंहो स्निग्धसखे ! विवेक ! बहुभिः प्राप्तोऽसि पुण्यैर्मया गन्तव्यं कतिचिद्दिनानि भवता नाऽस्मत्सकाशात् क्वचित् । त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः को जानाति पुनस्त्वया सह मम स्याद् वा न वा सङ्गमः ।। (तत्रैव) स्वास्थ्यं प्रतिभाऽभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता । स्मृतिदायमनिर्वेदः मातरोऽष्टौ कवित्वस्य ॥ (तत्रैव) सन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदी विलज्ज ! शिरसा तच्चाऽपि सोढं मया । श्रीर्जाताऽमृतमन्थने यदि हरेः कस्माद् विषं भक्षितं मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥ ___ (काव्यानुशासने, अ० २) कृष्णेनाऽम्ब ! गतेन रन्तुमधुना मृद् भक्षिता स्वेच्छया सत्यं कृष्ण !, क एवमाह, मुसली, मिथ्याऽम्ब ! पश्याऽऽननम् । व्यादेहीति विकाशिते शिशुमुखे माता समग्रं जगत् । दृष्ट्वा यस्य जगाम विस्मयपदं पायात् स व: केशवः ।। (तत्रैव) - इत्यादि । एवमेवाऽपभ्रंश(प्राकृत)भाषाव्याकरणेऽपि हेमचन्द्राचार्यैः पुरातनानि नवीनानि च लोकसामान्यप्रसिद्धान्येवोदाहरणानि सन्दृब्धानि, तानि च मारु-गूर्जरादिभाषाया अध्ययनाय क्रमिकविकासबोधाय चाऽत्यन्तमुपयुक्तानि । तत: कानिचनाऽत्राऽपि प्रस्तूयन्ते - 87 Jain Education Internationa Page #97 -------------------------------------------------------------------------- ________________ एइ ति घोडा एह थलि एइ ति निसिआ खग्ग । एत्थु मुणीसिम जाणिअइ जो नवि वालइ वग्ग ॥४-३३०॥ (सं० छाया) एते ते अश्वाः एषा स्थली एते ते निशिताः खड्गाः । अत्र मनुष्यत्वं (पौरुषं) ज्ञायते यो नैव वालयति वल्गाम् ।। दहमुहु भुवणभयंकरु तोसिअसंकरु णिग्गउ रहवरि चडिअउ । चउमुह छंमुहु झाइवि एक्कहिं लाइवि णावइ दइवें घडिअउ ॥४-३३१॥ (सं०) दशमुखः भुवनभयङ्करः तोषितशङ्करः निर्गतः रथवरे आरूढः । चतुर्मुखं (ब्रह्मणं) षण्मुखं (कार्तिकेयं) ध्यात्वा एकस्मिन् लात्वा इव दैवेन घटितः ॥ जो गुण गोवइ अप्पणा पयडा करइ परस्सु । तसु हउँ कलिजुगि दुल्लहहो बलि-किज्जउँ सुअणस्स ॥ ४-३३८॥ (सं०) यः गुणान् गोपयति आत्मनः प्रकटान् करोति परस्य । तस्य अहं कलियुगे दुर्लभस्य बलीक्रिये सुजनस्य । जिवँ जिवँ वंकिम लोअणहं णिरु सामलि सिक्खेइ । तिवँ तिवँ वम्महु निअय-सर खर-पत्थरि तिक्खेइ ॥ ४-३४४॥ (सं०)यथा यथा वक्रतां लोचनयोः नितरां श्यामली शिक्षते । तथा तथा मन्मथो निजकशरान् खरप्रस्तरे तेजयति ॥ भल्ला हुआ जु मारिआ बहिणि ! महारा कंतु । लज्जेज्जंतु वयंसिअहु जइ भग्गा घरु एंतु ॥४-३५१॥ (सं०) भव्यं भूतं यन्मारितः भगिनि ! मदीयः कान्तः । अलज्जिष्यम् वयस्याभ्यः यदि भग्नः (पलायितः) गृहम् ऐष्यत् ॥ 88 Jain Education Internationa Page #98 -------------------------------------------------------------------------- ________________ जहिँ कप्पिज्जइ सरिण सरु छिज्जइ खग्गिण खग्गु । तहिँ तेहइ भड-घड-निवहि कंतु पयासइ मग्गु ॥१४-३५७॥ (सं०) यत्र कल्प्यते शरेण शरः छिद्यते खड्गेन खड्गः । तत्र तादृशे भट-घटानिवहे कान्तः प्रकाशयति मार्गम् ।। साहु वि लोउ तडप्फडइ वड्डत्तणहाँ कएण ।। वडुप्पणु परि पाविअइ हत्थि मोक्कलडेण ॥४-३६६॥ (सं०) सर्वोऽपि लोकः विह्वलीभवति महत्त्वस्य कृते । महत्त्वं पुनः प्राप्यते हस्तेन मुक्तेन (दानं कुर्वतेति शेषः) ॥ जइ ससणेही तो मुइअ अह जीवइ निन्नेह । बिहिं वि पयारेहिं गइअ धण किं गज्जहि खल मेह ! ॥ ४-३६७॥ (सं०)यदि नि:स्नेहा तदा मृता, अथ जीवति, निःस्नेहा । द्वाभ्यामपि प्रकाराभ्यां गता प्रिया, किं गर्जसि खल ! मेघ ! ॥ अम्हे थोवा रिउ बहुअ कायर एम्व भणंति । मुद्धि निहालहि गयणयलु कई जण जोण्ह करंति ? ॥ ४-३७६॥ (सं०) वयं स्तोका रिपवः बहवः, कातरा एवं भणन्ति । मुग्धे ! निभालय गगनतलं कति जनाः ज्योत्स्नां कुर्वन्ति ?।। महु कंतहों बे दोसडा हेल्लि ! म झंखहि आलु । देन्तहों हउँ पर उव्वरिअ जुज्झंतहों करवालु ॥४-३७९॥ (सं०) मम कान्तस्य द्वौ दोषौ सखि ! मा मन्यस्वाऽलीकम् । (दान) ददतः अहं परमुढता (शिष्टा), युध्यमानस्य करवालः ॥ तिलहँ तिलत्तणु ताउँ पर जाउँ न नेह गलंति । नेह पण ते ज्जि तिल तिल फिट्टवि खल होति ॥ ४-४०६॥ 89 Jain Education Internationa Page #99 -------------------------------------------------------------------------- ________________ (सं०) तिलानां तिलत्वं तावत् परं यावत् न स्नेहा: गलन्ति । स्नेहे प्रणष्टे ते एव तिलाः तिलाः भ्रष्ट्वा खलाः भवन्ति । बम्भ ते विरला के वि नर जे सव्वंग-छइल्ल ।। जे वंका ते वंचयर जे उज्जुअ ते बइल्ल ॥४-४१२॥ (सं०) ब्रह्मन् ! ते विरलाः केऽपि नराः ये सर्वाङ्गच्छेकाः । ये वक्रा ते वञ्चकाः ये ऋजवः ते बलीवर्दाः ।। पिउसंगमे कउ निद्दडी पिअहों परोक्खहों केम्व । मइँ बिन्नि वि विन्नासिआ निद्द न एम्व न तेम्व ॥४-४१८॥ (सं०) प्रियसङ्गमे कुतः निद्रा प्रियस्य परोक्षे कथम् । मया द्वे अपि विनाशिते निद्रे न एवं न तथा । सरिहिँ न सरेहिँ न सरवरेहिँ न वि उज्जाण-वणेहिं । देस रवण्णा होति वढ ! निवसंतेंहिँ सुअणेहिँ ॥४-४२२॥ (सं०) सरिद्भिः न सरोभिः न सरोवरैः नाऽपि उद्यानवनैः । देशाः रम्याः भवन्ति मूर्ख ! निवसद्भिः सुजनैः ॥ बाह विछोडवि जाहि तुहुँ हउ तेवइ को दोसु । हिअयट्ठिउ जइ नीसरहि जाणउँ मुंज सरोसु ॥४-४३९॥ (सं०) बाहुं त्यक्त्वा यासि त्वं, भवतु तथा, को दोषः ? हृदयस्थितः यदि निःसरसि जानामि मुञ्ज ! सरोषम् ॥ __ इत्यादयः ॥ अत्र व्याकरणे प्रदत्तानामुदाहरणानां वैविध्यं दृष्ट्वैव ज्ञायते यद् हेमचन्द्राचार्याणां प्रसरः सर्वसामान्यजनसमूहेऽप्यासीत् । एतादृश्युदाहरणानि सङ्गह्य तैः सर्वोऽपि लोकसमूहः शौर्य-प्रेमनीत्यादिगुणैः सनाथीकृत इव । 90 Jain Education Internationa Page #100 -------------------------------------------------------------------------- ________________ श्रीहेमचन्दाचार्याणां गुणैः प्रभावितैः समकालीनैः पाश्चात्यकालीनैश्च सर्वसाम्प्रदायिकैर्विद्वद्भिः कृता प्रशस्तिः १. जैनागमानां सिद्धान्तग्रन्थानां च समर्था वृत्तिकृतः आचार्यमलयगिरयो हेमचन्द्राचार्याणां समकालीनाः सहवर्तिनश्चाऽप्यासन् । ते स्वयमेव व्याकरणादिस्वतन्त्र-ग्रन्थानां टीकाग्रन्थानां च रचयितारः सन्तोऽपि हेमचन्द्राचार्यान् स्वटीकाग्रन्थेषु सादरं सबहुमानं च सन्दर्भयन्ति, यथा – तथा चाऽऽहुः स्तुतिषु गुरवः (आवश्यकसूत्रवृत्तौ) 91 Jain Education Internationa Page #101 -------------------------------------------------------------------------- ________________ तथा तेषां समकालीना एव श्रीसोमप्रभसूरयस्तान् स्तुवन्तिकिं स्तुमः शब्दपाथाधेमचन्द्रयतेर्मतिम् । एकेनाऽपि हि येनेदृक् कृतं शब्दानुशासनम् ॥१॥ स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि, यः क्षोणिभर्तुळधित प्रबोधम् ॥२॥ (कुमारपालप्रतिबोधग्रन्थे) क्लृप्तं व्याकरणं नवं विरचितं छन्दो नवं व्याश्रयालङ्कारौ प्रथितौ नवौ प्रकटितं श्रीयोगशास्त्रं नवम् । तर्कः सञ्जनितो नवो जिनवरादीनां चरित्रं नवं बद्धं येन न केन केन विधिना मोहः कृतो दूरतः ॥ (शतार्थकाव्यटीकायाम्) तेषां शिष्यौ श्रीरामचन्द्रसूरि-गुणचन्द्रसूरी कथयतः - शब्द-प्रमाण-साहित्य-च्छन्दोलक्ष्मविधायिनाम् । श्रीहेमचन्द्रसूरिपादानां प्रसादाय नमो नमः ॥ (नाट्यदर्पणे) गुरुगूर्जरराजस्य चातुर्विद्यैकसृष्टिकृत् । त्रिषष्टिनरसद्वृत्त-कविर्वाचां न गोचरः ॥ (मुनिरत्नसूरयोऽममचरित्रे) सन्त्यन्ये कवितावितानरसिकास्ते भूरयः सूरयः क्ष्मापस्तु प्रतिबोध्यते यदि परं श्रीहेमसूरेगिरा । उन्मीलन्ति महामहांस्यपि परे-लक्षाणि ऋक्षाणि वै नो राकाशशिना विना बत भवत्युज्जागरः सागरः ।। __ (उया.जिनमण्डनगणी कुमारपालप्रबन्धे) ६. साहित्य-व्याकरणाद्यने कशास्त्रनिर्माणप्रत्नप्रजापतिः श्रीहेमचन्द्रयतिपतिः । (पूर्णकलशगणी प्राकृतद्वयाश्रयटीकारम्भे) 92 Jain Education Internationa Page #102 -------------------------------------------------------------------------- ________________ ७. ८. ९. वैदुष्यं विगताश्रयं श्रितवति श्रीहेमचन्द्रे दिवम् ॥ (राजकविः सोमेश्वरदेवः सुरथोत्सवमहाकाव्ये) निःसीमप्रतिभैकजीवितधरौ नि:शेषभूमिस्पृशां पुण्यौघेन सरस्वती - सुरगुरू स्वाङ्गैकरूपौ दधन् । यः स्याद्वादमसाधयन्निजवपुर्दृष्टान्ततः सोऽस्तु मे सबुद्ध्यम्बुनिधिप्रबोधविषये श्रीहेमचन्द्रः प्रभुः ॥ ( आ. मल्लिषेणसूरिः स्याद्वादमञ्जरीमङ्गलाचरणे) सप्तर्षयोऽपि गगने सततं चरन्तो त्रातुं क्षमा न मृगीं मृगयोः सकाशात् । जीयाच्चिरं कलियुगे प्रभुहेमसूरिरेकेन येन भुवि जीववधो निषिद्धः ॥ (विविधगच्छीयपट्टावलीसङ्ग्रहे) १०. यः सुज्ञैः सर्ववित् प्रोक्तः कलिकालेऽपि सूरिराट् । तस्य श्रीहेमचन्द्रस्य प्रमाणं मेऽत्र वर्तताम् ॥ (श्रीमधुसूदनः मोदी हेमसमीक्षारम्भे) ११. " तेषां समये न कोऽपि गच्छो न काऽपि परम्परा जैनसम्प्रदाये आसीद् यत्र स्थिताः साधवस्तेषां गुणैर्मुग्धाः सन्तस्तेषां स्तुतिं न कृतवन्तः स्युः । ****** तैर्हि स्वजीवने राजा, राज्यं, मित्राणि, विरोधिनः, शिष्याः, जैनाः, जैनेतराः, धर्मोपदेशः, साहित्यसर्जनं, निर्ग्रन्थजीवनं, लोकसम्पर्क: - इत्येतेषां सर्वेषामपि विषयाणां समानतयोत्तरदायित्वं पालनीयमासीत् । तच्च तैः स्वजीवनस्य प्रत्येकं क्षणं पूर्णतयोपयुज्य पालितम् । देश-विदेशानां सर्वोऽपीतिहासो यदि विलोक्येत तदाऽपि 93 Jain Education Internationa Page #103 -------------------------------------------------------------------------- ________________ तेषां सदृशो निर्लेपः, आदर्शजीवी, विद्वान्, साहित्यस्रष्टा, राजनीतिदक्षः, व्यवहारज्ञः, तेजस्वी, प्रतिभावांश्च पुरुषः प्राप्तुमशक्य एव । अत एव तेषां कलिकालसर्वज्ञः इति बिरुदं सर्वथा सार्थकमस्ति"। (आगमप्रभाकरः मुनिश्रीपुण्यविजयः) १२. नूनं हेमचन्द्राचार्या वर्तमानकालीनभारतीयमानसस्रष्टष्वन्यतमाः । भारतीये चेतिहासे तेषां स्थानं वाल्मीकि-व्यासशङ्कराचार्यादीनां सदृशमस्ति । (-के.एम्. पाणिक्करः A Survey of Indian History ग्रन्थे) १३. हेमचन्द्राचार्याणां समकालीनैराचार्यैर्विद्वद्भिश्च तेषां कृते प्रयुक्तं 'कलिकालसर्वज्ञः' इति बिरुदं, तेषां सर्वास्वपि विद्याशाखासु विस्मयावहां साधिकारां गतिं दृष्ट्वा सर्वथा योग्यमेवाऽस्ति । कवितया शास्त्रकारतया च ते वस्तुतो महासमर्थाः आसन् । तैहि स्वप्रतिभया स्वदेशस्य भाग्यं संस्कृतिश्च परावर्तिते। न केवलं जैना अपि तु गूर्जरदेशोऽपि तेषां महान्तं ऋणभारं धारयति, तथा वैश्विकसंस्कृत-साहित्यक्षेत्रेऽपि वैयाकरणतया कोशकारतया काव्यशास्त्र-प्रणेतृतया छन्दःशास्त्रकारतया च तेषां विशिष्टं स्थानमस्ति। (-एम्. विन्टरनित्झ, जर्मनविद्वान्) १४. शब्दविज्ञानक्षेत्रे हेमचन्द्राचार्याणां प्रदानमतिविशालं विस्मयप्रेरकं च । तेषां पाण्डित्यं ह्यगाधमप्रतिरूपं चाऽस्ति, तथा विद्वज्जनानां कृतेऽद्यावधि ते कलिकालसर्वज्ञाः - कलियुगे सर्वस्याऽपि ज्ञेयस्य ज्ञातारः - सन्ति, यच्च विशेषणं ते सर्वथाऽर्हन्ति । मध्यकालीनभारते तेषां परिमाणं धारयन्तो विद्वांसो प्रायो न सन्ति । (-एस्. सेनगुप्ता, महावैयाकरण:) 94 Jain Education Internationa Page #104 -------------------------------------------------------------------------- ________________ १५. नमोऽस्तु हेमचन्द्राय, विशदा यस्य धीप्रभा । विकासयति सर्वाणि, शास्त्राणि कुमुदानीव ।। कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यान् पाश्चात्या विद्वांसो ज्ञानमहार्णवः (Ocean of knowledge) इति सादरं वर्णयन्ति, तथैव तेषां कृते अतिशायिप्रज्ञः (Intellectual Giant) इति विशेषणं प्रयुञ्जन्ति । तेषां प्रतिभायाः प्रभा न केवलं धर्माध्यात्मक्षेत्रेषु अपि तु साहित्य-भाषा-तर्कादिक्षेत्रेष्वपि समानतया विस्तीर्णाऽस्ति । तेषां व्यक्तित्वे समकालमेव वैयाकरणस्य, आलङ्कारिकस्य, साहित्यकारस्य, दार्शनिकस्येतिहासकारस्य, पुराणकारस्य, कोशकारस्य, छन्दोनुशासकस्य, धर्मोपदेशकस्य, महतो युगकवेश्च समन्वयो दृश्यते । तेषां व्यक्तित्वं सार्वकालिकं सर्वदेशिकं विश्वजनीनं चाऽस्ति सहैव तेषां कार्याणि सम्प्रदायातीतानि सार्वजनीनानि च । अत एव तेऽन्येभ्य आचार्येभ्यो विद्वद्भयः कविभ्यश्चाऽत्यधिकं श्रद्धा-सम्मानाधिकारिणः । तेषां जीवने प्रतिपदं विविधता, सर्वदेशीयता, पूर्णता, सत्यं, समन्वयिता च दृश्यते । ते हि निर्भया, राजनीतिविचक्षणा, गुरुसेविनो, वादिमानमर्दकाः, सत्योपासकाः, संस्कृतिपोषका, देशोद्धारकाश्चाऽऽसन् । एवं सत्यपि कस्मिंश्चिदपि जागतिकपदार्थे तेषां मोहो ममत्वं वा नाऽऽसीत् । समग्रेऽपि भारतवर्षस्येतिहासे यदि परं सर्वथाऽपि मद्यमांसयोनिषेधो हि राज्ञः कुमारपालस्य काले एव जातः । तस्य च सम्पूर्ण श्रेयो निःसन्देहतया हेमचन्द्रा-चार्याणामेव । सिद्धराजजयसिंहकुमारपालश्चेत्युभयोर्नुपयोः सत्ताकाले विराजमानानां तेषां युगो हैमयुगः इति नाम्नेतिहासस्य सुवर्णपृष्ठेष्वङ्कितोऽस्ति । (-वि.भा.मुसलगांवकरः, दार्शनिको महाविद्वान्) 95 Jain Education Internationa Page #105 -------------------------------------------------------------------------- ________________ १६. हेमचन्द्राचार्या नामाऽद्वितीयाः साहित्यस्रष्टारोऽनुपमयुगद्रष्टारः, समर्थाश्च धर्माचार्याः, हेमचन्द्राचार्या नाम सर्वतोमुख-परिणतप्रज्ञा, साङ्गोपाङ्गं सम्पूर्णमध्ययनं, स-रसा सर्वोत्कृष्ट-सर्जकता, तथा हेमचन्द्राचार्या नाम ज्ञानमहार्णवः, जङ्गमो ज्ञानकोशः, विद्याम्भोधिमन्थनमन्दरगिरिः । कियद् वा कथयामः ? तत्सदृशस्य महोर्जस्विनः सुपुत्रस्य कृते गूर्जरदेशो देशवासिनश्च यावन्तं गर्वं गौरवं च वहेयुस्तावन्तमल्पमेव । कलिकालसर्वज्ञानां तेषां कुशाग्रप्रज्ञाया अगोचरा न काऽपि विद्याशाखा । सर्वग्राहिण्या बुद्धिशक्त्या तैर्व्या-करणालङ्कारच्छन्दः-कोश-काव्य-चरित-दर्शन-तर्क-योगादीनि सर्वाण्यपि क्षेत्राणि समवगाहितानि । तेषां विद्या-तपसोः प्रभावेण गूर्जरदेशोऽद्याऽपि शान्तोऽहिंसकः समन्वयवादी चाऽस्ति । (- चतुरभाई शङ्करभाई पटेलः, प्राकृतव्याकरणवित्) १७. हेमचन्द्राचार्या हि महातपस्विनो महा-राजनीतिज्ञा महान्तश्च विद्यानिधयः । चिरकालाय तैः पत्तननगरस्य संस्कारस्वामिनां चक्रवर्तिपदमनुभूतम् । जैनसाधुसहजं देशभ्रमणं त्यक्त्वा गूर्जरदेशमुन्नतं विकसितं च कर्तुं तैः स्वजीवनं समर्पितम् । तेषां सर्जनं नूतनामेव कल्पनासृष्टिं विरचितवत् । ततश्च अणहिल्लपुरपत्तनं जगत्येव विश्रुतं जातम् । चौलुक्यवंशेन रघुवंशस्य यशः प्राप्तम् । ततस्तैः कुमारपालमपि प्रतिबोध्य शुद्धमार्गे च प्रेर्य मद्य-मांसौ निषेधितौ, नैतिकविशिष्टता-याश्चाऽद्भुतं वर्णलेपनं कृतम् । साहित्य-शास्त्रविद्यायाः समृद्धेः कलिकालसर्वज्ञत्वं प्राप्तम् । वादिनो जिताः । अगाधं च ज्ञाननिधि मथित्वा श्रेष्ठानि कृतिरत्नानि विरचितानि । गूर्जरजनाय संस्कृतसाहित्यजगति स्थानं प्रदत्तम् । स्वयं च ते 96 Jain Education Internationa Page #106 -------------------------------------------------------------------------- ________________ राजपुरुषाणां मध्ये उपविष्टाः, राज्याधिकारोपरि च नैतिकसत्तायाः श्रेष्ठत्वं प्रमाणितम् । गूर्जरदेशस्य महत्त्वाय च शब्ददेहः समर्पितः । अद्य तेषां स्वर्गमनस्य शतशो वर्षाणि व्यतीतानि तथाऽपि गूर्जरभाषाभाषकस्य लोकसमूहस्य जीवने तेऽद्याऽपि जीवन्ति ।। (- क.मा.मुनशी, भारतीयविद्याभवनसंस्थापकः) १८. गूर्जरदेशे तादृशा विद्वांसोऽतीव स्तोका येषां स्थानं वैश्विकसाहित्यक्षेत्रे स्यात् । हेमचन्द्राचार्या तेषामन्यतमाः । तेषामुदारव्यक्तित्वेन गूर्जरदेशो विश्वव्यापको जातः । गूर्जरभाषा, गूर्जरसंस्काराः, गूर्जरप्रणालिकाः (रूढयः), गूर्जरव्यवहार-विवेकौगूर्जरसाहित्यं, गूर्जराणां समन्वयभावना, गूर्जराणां च गूर्जरत्वम् - एतेषु सर्वेष्वपि हेमचन्द्राचार्याणा-मस्तित्वस्याऽप्रतिमं मुद्राङ्कनं वर्तते। पूर्वं हि गूर्जराणां भाषाशुद्धिषाभिमानश्च नाऽऽस्ताम् । हेमचन्द्राचार्यैस्तेभ्यो भाषाभिमानो भाषाशुद्धिश्च प्रदत्ते । अर्थोपार्जने रता जनाः स्वपूर्वजानां पराक्रमगाथां विस्मरन्त आसन् । पराक्रम एव जीवनमिति तथ्यं तेषां मनसो विलुप्यमानमासीत् । हेमचन्द्राचार्यैः शूराणां भटानां सज्जनानां सहृदयानां च कर्तव्यानि लोकभाषाग्रथितगाथानां माध्यमेन समुपदिश्य निर्बला गौर्जरा अपि पराक्रमिणः कृताः । गूर्जराणां स्वीयामस्मितां त एवमेव सहजतया प्रकटितवन्तः । सूर्योदयवेलायां, सरस्वतीनदीतटे स्थितामेकां महाशक्ति, स्वनिर्मलतेजसा समग्रमपि गूर्जरदेशं प्रकाशयन्ती कल्पयन्तु, भवतां हेमचन्द्राचार्या दृश्येरन् । (धूमकेतुः, गूर्जरसाहित्यकार:) १९. कलिकालसर्वज्ञरूपमप्रतिमं बिरुदं प्राप्तवतां श्रीहेमचन्द्राचार्याणां जीवनं नाम भारतीयसंस्कृतेरेका यशउज्ज्वला गौरवगाथा । प्राचीना अर्वाचीना भारतीया वैदेशिकाश्च विद्वांसो यन्मुक्तकण्ठं 97 Jain Education Internationa Page #107 -------------------------------------------------------------------------- ________________ प्रशंसित-वन्तस्तादृशं विश्वव्यापि व्यक्तित्वं धारयतां तेषां तुलनां साहित्यक्षेत्रे साधुताक्षेत्रे च व्यतीते वर्षसहस्रे न कोऽपि कर्तुं समर्थो जातः । काव्य, व्याकरणं, छन्दः, अलङ्कारः, इतिहासः, पुराणं, कोशः, चरितं, योगः, अध्यात्म, त्यागः, तपः, ध्यानं, सदाचारः, संयमः, राजकल्याणं, लोककल्याणम् - इत्येतेषु विभिन्नक्षेत्रेषु समकालमेव प्रायः सप्ततिं वर्षाणि यावद् यादृशं च वैशिष्ट्यपूर्ण चिरञ्जीवि च कार्यं तैः कृतं तादृशं तावच्च न केनाऽपि कृतम् । हेमचन्द्राचार्या नाम सद्गुणानां जीवन् पर्यायः । औदार्य, गाम्भीर्य, निर्भयत्वं, सूक्ष्मदर्शित्वं, समयौचित्यं, परोपकारित्वं, जितेन्द्रियत्वं, त्यागः, तपश्चरणं, संयमः, शुचित्वं, स्वधर्मवात्सल्यं, परमतसहिष्णुता, तर्कपाटवं, समन्वयत्वं, सर्वग्राहित्वमित्याद्यगण्यगुणानां श्रेष्ठं स्वरूपं तेषां जीवने पदे पदे प्रकटितं भवति । तेषां हृदयं तथा कारुण्यपूर्णमासीत् यथा तत्प्रभावात् तेषां सम्पर्क प्राप्तस्य विरोधिनो द्वेषिणो वाऽपि जनस्य हृदयं पश्चात्तापेनाऽऽर्द्र भवति स्म । गूर्जरदेशस्येतिहासे सुख-समृद्धि-संस्कारितादीनाश्रित्य चौलुक्यानां युग एव सुवर्णयुगः । तस्य च पराकाष्ठा द्वयोर्नृपश्रेष्ठयोः सिद्धराजराजसिंह-कुमारपालयोः शासनकाले समागता । तयोश्च द्वयोरपि नृपयोर्मार्गदर्शनं कृत्वा सत्पथे प्रवर्तकास्तु हेमचन्द्राचार्या एव । अतश्चौलुक्यानां सुवर्णयुगो हैमयुग इत्यप्युच्यते । (- डो. रमणलाल ची. शाहः, जैनदर्शनविद् गूर्जरसाहित्यकारश्च) 98 Jain Education Internationa Page #108 -------------------------------------------------------------------------- ________________ परिशिष्टम् ॥ श्रीमहादेव - द्वात्रिंशिका ॥ प्रशान्तं दर्शनं यस्य, सर्वभूताऽभयप्रदम् । मङ्गल्यं च प्रशस्तं च शिवस्तेन विभाव्यते महत्त्वादीश्वरत्वाच्च, यो महेश्वरतां गतः । राग-द्वेषविनिर्मुक्तं, वन्देऽहं तं महेश्वरम् महाज्ञानं भवेद् यस्य, लोकालोकप्रकाशकम् । महादानं महाध्यानं, महादेवः स उच्यते महान्तस्तस्करा ये तु, तिष्ठन्तः स्वशरीरके । निर्जिता येन देवेन, महादेवः स उच्यते राग-द्वेषौ महामल्लौ, दुर्जयौ येन निर्जितौ । महादेवं तु तं मन्ये, शेषा वै नामधारकाः शब्दमात्रो महादेवो, लौकिकानां मते मतः । शब्दतो गुणतश्चैव मूर्तितो जिनशासने शक्तितो व्यक्तितश्चैव विधानं लक्षणं तथा । मोहजालं हतं येन, महादेवः स उच्यते नमोऽस्तु ते महादेव !, महादोषविवर्जित ! । महालोभविनिर्मुक्त !, महागुणसमन्वित ! महारागो महाद्वेषो, महामोहस्तथाऽपरः । कषायाश्च हता येन, महादेवः स उच्यते महाक्रोधो महामानो, महामाया महामदः । महालोभो हतो येन, महादेवः स उच्यते 11211 11211 ॥३॥ 11811 ॥५॥ ॥६॥ ॥७॥ ॥८॥ 11811 112011 99 Jain Education InternationaFor Private Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ महाकामो हतो येन, महाभयविवर्जितः । महाव्रतोपदेशी च, महादेवः स उच्यते महादया दमो यस्य, महाक्षान्तिर्महातपाः । महामौनी महायोगी, महादेवः स उच्यते महावीर्यं महाधैर्यं, महाशीलं महागुणाः । महापूर्जार्हकत्वाच्च, महादेवः स उच्यते स्वयम्भूतं यतो ज्ञानं लोकालोकप्रकाशकम् । अनन्तवीर्य - चारित्रः, स्वयम्भूः सोऽभिधीयते शिवत्वाच्च जिनः प्रोक्तः, शङ्करश्च प्रकीर्तितः । कायोत्सर्गी च पर्यङ्की, स्त्रीभूषादिविवर्जितः अनाकारश्च साकारो, मूर्त्तामूर्त्तस्तथेश्वरः । परमात्मा च बाह्यात्मा, अन्तरात्मा तथैव च , परमज्ञानयोगेन, परात्मा परमव्ययः । परमक्षान्तिसहितः परमात्मा स उच्यते परमात्मा सिद्धिसम्प्राप्तौ, बाह्यात्मा तु भवान्तरे । अन्तरात्मा भवेद् देहे, इत्येष त्रिविधः शिव: सकलो दोषसंयुक्तो, निष्कलो दोषवर्जितः । पञ्चदेहविनिर्मुक्तः, सम्प्राप्तः परमं पदम् एकमूर्त्तिस्त्रयो भागा, ब्रह्म-विष्णु-महेश्वराः । तान्येव पुनरुक्तानि, ज्ञान - चारित्र - दर्शनै: कार्यं विष्णुः क्रिया ब्रह्मा, कारणं तु महेश्वरः । कार्य-कारणसम्पूर्णो, महादेवः स उच्यते प्रजापतिसुतो ब्रह्मा, माता पद्मावती स्मृता । अभीचिर्जन्मनक्षत्रं, एकमूर्तिः कथं भवेत् ? ॥११॥ ॥१२॥ ॥१३॥ ॥१४॥ ॥१५॥ ॥१६॥ 112911 ॥ १८॥ 118811 112011 ॥२१॥ ॥२२॥ Jain Education Internationa 100 Page #110 -------------------------------------------------------------------------- ________________ वसुदेवसुतो विष्णु-र्माता वै देवकी स्मृता । रोहिणी जन्मनक्षत्रं, एकमूर्तिः कथं भवेत् ? ॥२३।। पेढालस्य सुतो रुद्रो, माता वै सत्यकी स्मृता । मूलं च जन्मनक्षत्रं, एकमूर्तिः कथं भवेत् ? ॥२४॥ चतुर्मुखो भवेद् ब्रह्मा, त्रिनेत्रस्तु महेश्वरः । चतुर्भुजो भवेद् विष्णुः, एकमूर्तिः कथं भवेत् ? ।।२५।। रक्तवर्णो भवेद् ब्रह्मा, श्वेतवर्णो महेश्वरः ।। कृष्णवर्णो भवेद् विष्णुः, एकमूर्तिः कथं भवेत् ?॥२६।। ज्ञानं विष्णुः सदा प्रोक्तं, चारित्रं ब्रह्म उच्यते । सम्यक्त्वमीश्वरः प्रोक्तः, अर्हन्मूर्तिस्त्रयात्मिका ॥२७॥ क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-सोम-सूर्याख्याः । इत्येतेऽष्टौ भगवति, वीतरागे गुणाः प्रोक्ताः ॥२८॥ क्षितिरित्युच्यते क्षान्ति-र्जलं शान्तिः प्रसन्नता । निस्सङ्गता भवेद् वायु-हुंताशो योग उच्यते ॥२९॥ यजमानो भवेदात्मा, नभो दान-दयादिभिः । सोममूर्तिर्भवेच्चन्द्रो, ज्ञानमादित्य उच्यते ॥३०॥ पुण्य-पापविनिर्मुक्तो, राग-द्वेषविवर्जितः । अतोऽर्हद्भ्यो नमस्कारः, कर्तव्यः सिद्धिमिच्छता ॥३१॥ अकारेण भवेद् विष्णू, रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्त-स्तस्याऽन्ते परमं पदम् ॥३२॥ भवबीजाङ्करजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, महेश्वरो वा नमस्तस्मै ॥३३॥ ॥ महादेव-बत्तीसी ॥ 101 Jain Education Internationa Page #111 -------------------------------------------------------------------------- ________________ पाण्डवानां प्रव्रज्या अन्यदा पत्तने चतुर्मुखाख्यजैनेन्द्रालये व्याख्यानमद्भुतम् । श्रीनेमिचरितस्याऽ मी श्रीसङ्घाग्रे प्रतुष्टुवुः ॥ १ ॥ — * श्रीहेमचन्द्राचार्याः सुधासारवच:स्तोमाकृष्टमानसवासनाः । शुश्रूषवः समायान्ति तत्र दर्शनिनोऽखिलाः ||२|| पाण्डवानां परिव्रज्या - व्याख्याने विहितेऽन्यदा । इतरे मत्सराध्माता: व्याचख्युर्नृपतेरिदम् ॥३॥ * सिद्धराजजयसिंहस्य स्वामिन् ! पुरा महाव्यासः कृष्णद्वैपायनोऽवदत् । वृत्तं युधिष्ठिरादीनां भविष्यज्ज्ञानतोऽद्भुतम् ||४|| तत्रेदमुच्यते स्वायुः प्रान्ते पाण्डोः सुता अमी । हिमानीमहिते जग्मुर्हिमवद्भूधराध्वनि ॥५॥ श्रीकेदारस्थितं शम्भुं स्नानपूजनपूर्वकम् । आराध्य परमाभक्तिस्वान्ताः स्वान्तमसाधयन् ॥६॥ युग्मम् || 102 Jain Education Internationa Page #112 -------------------------------------------------------------------------- ________________ अमी श्वेताम्बराः शूद्रा विद्रुतस्मृतिसूक्तयः । तदुक्तवैपरीत्यानि जल्पन्ति निजपर्षदि ॥७॥ अनौचित्यकृताचारात् पुरे तेऽरिष्टमित्यदः । भूभृता रक्षणीयाश्च दुराचाराः प्रजाकृताः ॥८॥ विचार्य हृदि कार्याणि विचारक ! विधेहि तत् । इत्युक्त्वा विररामाऽसौ परव्यूहोऽतिधीरगीः ॥९॥ राजाऽप्याह न भूपाला अविमृश्यविधायिनः । दर्शनानां तिरस्कारमविचार्य न कुर्वते ॥१०॥ अनुयोज्या अमी चाऽत्र दधुश्चेत् सत्यमुत्तरम् । तन्मे गौरविता एव न्याय एवाऽत्र नः सुहृत् ॥११॥ हेमाचार्योऽपि निर्ग्रन्थः सङ्गत्यागी महामुनिः । असूनृतं कथं ब्रूयाद् विचार्यं तदिदं बहु ॥१२॥ एवं भवत्विति प्रोचुः प्रवीणा इतरे अपि । आजुहाव ततो राजा हेमचन्द्रं मुनीश्वरम् ॥१३।। अपृच्छदथ माध्यस्थ्यात् सर्वसाधारणो नृपः । शास्त्रे चाऽऽर्हती दीक्षा किं गृहीता पाण्डवैः किमु ? ॥१४॥ सूरिरप्याह शास्त्रे नः इत्यूचे पूर्वसूरिभिः । हेमाद्रिगमनं तेषां महाभारतमध्यतः ॥१५॥ परमेतन्न जानीमो ये नः शास्त्रेषु वर्णिताः । त एव व्यासशास्त्रेऽपि कीर्त्यन्तेऽथ परेऽपरे ॥१६।। राजाऽऽह तेऽपि बहवः पूर्वं जाताः कथं मुने ! अथाऽवोचद् गुरुस्तत्र श्रूयतामुत्तरं नृप ! ॥१७॥ व्याससन्दर्भिताख्याने श्रीगाङ्गेयः पितामहः । युद्धप्रवेशकालेऽसावुवाच स्वं परिच्छदम् ।।१८।। मम प्राणपरित्यागे तत्र संस्क्रियतां तनुः । न यत्र कोऽपि दग्धः प्राग् भूमिखण्डे सदा शुचौ ॥१९।। 103 Jain Education Internationa Page #113 -------------------------------------------------------------------------- ________________ विधाय न्याय्यसङ्ग्रामं मुक्तप्राणे पितामहे । विमृश्य तद्वचस्तेऽङ्गमुत्पाट्याऽस्य ययुगिरौ ॥२०॥ अमानुषप्रचारे च शृङ्गे कुत्राऽपि चोन्नते । अमुञ्चन्; देवतावाणी क्वाऽपि तत्रोद्ययौ तदा ॥२१।। तथा हि - अत्र भीष्मशतं दग्धं पाण्डवानां शतत्रयम् । द्रोणाचार्यसहस्त्रं तु कर्णसङ्ख्या न विद्यते ॥२२॥ एतद् वयमिहाऽऽकर्ण्य व्यमृशाम स्वचेतसि । बहूनां मध्यतः केऽपि चेद् भवेयुर्जिनाश्रिताः ॥२३॥ गिरौ शत्रुञ्जये तेषां प्रत्यक्षाः सन्ति मूर्तयः । श्रीनासिक्यपुरे सन्ति श्रीमच्चन्द्रप्रभालये ॥२४॥ केदारे च महातीर्थे कोऽपि कुत्राऽपि तद्रतः । बहूनां मध्यतो धर्मं तत्र ज्ञानं न नः स्फुटम् ।।२५।। स्मार्ता अप्यनुयुज्यन्तां वेदविद्याविशारदाः । ज्ञानं कुत्राऽपि चेद् गङ्गा न हि कस्याऽपि पैतृकी ॥२६।। राजा श्रुत्वाऽऽह तत् सत्यं वक्ति जैनर्षिरेष यत् । अत्र ब्रूतोत्तरं तथ्यं यद्यस्ति भवतां मते ॥२७॥ अत्र कार्ये हि युष्माभिरेकं तथ्यं वचो ननु । अजल्पि यद् विचार्यैव कार्यं कार्य क्षमाभृता ।।२८।। उत्तरानुदयात् तत्र मौनमाशिश्रियंस्तदा । स्वभावो जगतो नैव हेतुः कश्चिन्निरर्थकः ॥२९।। राज्ञा सत्कृत्य सूरिश्चाऽभाष्यत स्वागमोदितम् । व्याख्यानं कुर्वतां सम्यग् दूषणं नास्ति वोऽण्वपि ॥३०॥ (श्रीप्रभाचन्द्रसूरिविरचिते प्रभावकचरिते हेमचन्द्राचार्यचरित्रे __ श्लो. १४१-१६९, १७१) 104 Jain Education Internationa Page #114 -------------------------------------------------------------------------- ________________ चारिसञ्जीवनीचारदृष्टान्तम् पुरा कश्चिद् व्यवहारी पूर्वपरिणीतां पत्नी परित्यज्य (नूतनां परिणीय) संग्रहणीसात्कृतसर्वस्वः सदैव (आस्ते । तदा) पूर्वपत्न्या पतिवशीकरणाय तद्वेदिभ्यः कार्मणकर्मणि पृच्छ्यमाने कश्चिद् गौडदेशीयो 'रश्मिनियन्त्रितं तव पतिं करोमी'त्युक्त्वा किञ्चिदचिन्त्यवीर्यं भेषजमुपनीय ‘भोजनान्तर्देय'मिति भाषमाणः स गतः । कियद्दिनान्ते समागते क्षयाहनि तस्मिंस्तथाकृते स प्रत्यक्षां वृषभतां प्राप । सा च तत्प्रतीकार-मनवबुध्यमाना विश्वविश्वाक्रोशान् सहमाना निजं दुश्चरितं शोचन्ती कदाचिन्मध्यन्दिने दिनेश्वरकठोरतर-निकरप्रसरतप्यमानाऽपि शाड्वलभूमिषु तं पतिं वृषभरूपं चारयन्ती, कस्याऽपि तरोर्मूले विश्रान्ता निर्भरं विलपन्ती, आलापं नभस्यकस्माच्छुश्राव । तदा तत्राऽऽगतो विमानाधिरूढः पशुपतिर्भवान्या तदुःखकारणं पृष्टो यथावस्थितं निवेद्य तस्यैव तरोश्छायायां पुंस्त्वनिबन्धनमौषधं तन्निर्बन्धादादिश्य तिरोदधे । सा तदनु तदीयां छायां रेखाङ्कितां निर्माय तन्मध्यवर्तिन औषधाङ्करानुच्छेद्य वृषभवदने क्षिपन्ती, तेनाऽप्यज्ञातस्वरूपे-णौवधाङ्करेण वदनन्यस्तेन स वृषभो मनुष्यतां प्राप । ___ यथा तदज्ञातस्वरूपोऽपि भेषजाङ्करः समीहितकार्यसिद्धिं चकार तथा कलियुगे मोहात् सम्यग-परिज्ञानेऽपि सर्वदर्शनाराधनेनाऽविदितस्वरूपोऽपि धर्मो मुक्तिप्रदो भवतीति निर्णयः । (प्रबन्धचिन्तामणिः) 105 Jain Education Internationa Page #115 -------------------------------------------------------------------------- ________________ प्रसञ्जाः श्रीदेवसूरीणां दिगम्बरैः सह वादे जायमाने आचार्यहेमचन्द्रा अपि तेन सार्धं गताः । तदा दिगम्बरः कुमुदचन्द्रवादी स्वयं ज्यायान् किञ्चिद्व्यतिक्रान्तशैशवं श्रीहेमचन्द्रं प्रति 'पीतं तर्क भवता?' इत्यभिहिते श्रीहेमचन्द्रस्तं प्रति 'जरातरलितमतिः किमेवमसमञ्जसं ब्रूषे ? श्वेतं तर्क, पीता हरिद्रा' इति वाक्येनाऽधःकृतः 'युवयोः को वादी ?' इति पृच्छन् श्रीदेवसूरिभिस्तिरस्करणाय 'अयं भवतः प्रतिवादी'त्यभिहिते कुमुदचन्द्रः प्राह - 'मम वृद्धस्याऽनेन शिशुना सह को वादः ?' इति तदुक्तिमाकर्ण्य 'अहमेव ज्यायान्, भवांस्तु शिशुः योऽद्याऽपि कटीदवरकं निवसनं च नाऽऽदत्से' इति हेमचन्द्रेणोक्तम्। (प्रबन्धचिन्तामणिः) अन्यदा श्रीकुमारपालनृपपुरतः श्रीयोगशास्त्रव्याख्याने सञ्जायमाने पञ्चदशकर्मादानेषु वाच्यमानेषु ‘दन्त-केश-नखास्थित्वग-रोम्णां ग्रहणमाकरे' इति सूरिकृते पाठे पं. उदयचन्द्रगणिनं 'रोम्णो ग्रहण'मिति भूयो भूयो वाचयन्तं प्रभुभिलिपिभेदं पृष्टे स 'प्राणि-तूर्याङ्गाणाम्' इति व्याकरणसूत्रेण प्राण्यङ्गानां सिद्धमेकत्वमिति लक्षणविशेषं विज्ञपयन् प्रभुभिः श्लाघितो राज्ञा न्युञ्छनेन सम्भावितः। (प्रबन्धचिन्तामणिः) - - - - - 106 Jain Education Internationa Page #116 -------------------------------------------------------------------------- ________________ कदाचित् प्रत्यूषे श्रीकपर्दिमन्त्री प्रणामानन्तरं श्रीसूरिभिर्हस्ते किमेतदिति पृष्टे स प्राकृतभाषया हरडइ(हरीतकी) इति विज्ञपयामास । प्रभुभिरुक्तं - 'किमद्याऽपि ?' अनाहतप्रतिभतया तद्वचनच्छलमाकलय्य कपर्दिनोक्तम् – 'इदानीं तु न' । 'कुतः ?' 'अन्त्योऽप्याद्योऽभूत् मात्राधिकश्चेत्यतः' । हर्षाश्रुपूर्णदृशः प्रभवः श्रीराम-चन्द्रप्रभृतिपण्डितानां पुरस्तात्तच्चातुरी प्रशशंसुः । तैरज्ञाततत्त्वैः किमिति पृष्टो हरडइ इति शब्दच्छलेन ह-कारो रडइ(रोदिति), अस्माभिरुक्तं - 'किमद्याऽपि ?' इत्यभिहितमात्रेण वचस्तत्त्वविदाऽनेन 'नेदानी' मुक्तम् । यतः पुरा मातृकाशास्त्रे हकारः प्रान्ते पठ्यते अत एव रडइ, साम्प्रतं त्वस्मन्नामनि प्रथमस्तथा मात्राधिकश्चेत्यतो न । (प्रबन्धचिन्तामणिः) अन्यदा हेमचन्द्रचार्येषु राजसभायामागच्छत्सु सत्सु वामराशिर्भरटकस्तानुद्दिश्य निन्दाश्लोकमाह यूकालक्षशतावलीवलवलल्लोलोल्लसत्कम्बलो दन्तानां मलमण्डलीपरिचयाद् दुर्गन्धरुद्धाननः । नासावंशनिरोधनाद् गिणिगिणीपाठप्रतिष्ठास्थितिः सोऽयं हेमडसेवड: पिलपिलत्खल्लिः समागच्छति ।। श्रुत्वैतत् स्मिताननैराचार्यैस्तत्पार्वं गत्वा मधुरस्वरेण कथितं – “विद्वद्वर्य ! उत्तमोऽयं श्लोको भवता कल्पितः, किन्तु त्रुटिरेका परिमार्जनीयाऽस्ति । 'हेमडसेवड' - इत्यस्य स्थाने 'सेवडहेमड' इति कर्तव्यं, यतो विशेषणं सर्वदा पूर्वमेव पठ्यते' । एतदाकर्ण्य वामराशिस्त्रपाधोमुखो जातः, सभासदश्चाऽऽचार्याणां समत्वं गाम्भीर्यं च दृष्ट्वा विस्मयं प्राप्ताः । (प्रबन्धचिन्तामणिः) - - - - - 107 Jain Education Internationa Page #117 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुप्रकाशनानि लवन सागरविहङ्गमः हास्यमेव जयते खुला कीर्तित्रयी संकलित्रयी पञ्चसूत्रकम् Kापनका नन्दसानकायसमकामाला अभिराजराजेन्द्र मिश्प्रणीतम् मृगमृगेन्द्रान्योक्तिशतकम् 108 Jain Education Internationa Page #118 -------------------------------------------------------------------------- ________________ Jain Education Internationa